Enter your Email Address to subscribe to our newsletters

- प्लेट्-समूहस्य अन्तिमस्पर्धा १२ तः १५ दिसम्बरपर्यन्तं भविष्यति
देहरादूनम्, १४ नवम्बरमासः (हि.स.)। भारतीयक्रिकेटनियन्त्रणमण्डलेन वर्ष २०२६-२७ तमस्य विजयमर्चेण्ट्-ट्रॉफी-क्रीडास्पर्धायाः (प्लेट्-समूहः) आतिथ्यदायित्वं उत्तराखण्डराज्याय समर्पितम्। क्रिकेट एसोसिएशन ऑफ उत्तराखण्डस्य (सीएयू) आतिथ्ये आयोज्यमाना इयं राष्ट्रियस्तरीया अण्डर-१६ बालकानां क्रिकेटप्रतियोगिता नवम्बरमासस्य १४ दिनाङ्कात् दिसम्बरमासस्य १५ दिनाङ्कपर्यन्तं देहरादूननगरे आयोजयिष्यते। अस्यां पूर्वोत्तरभारतस्य षण्णां राज्यानां दलानि भागं ग्रहीष्यन्ति।
प्रतियोगितायां मणिपुरम्, अरुणाचलप्रदेशः, नागालैण्डः, मेघालयः, सिक्किमः, मिजोरमः इत्येतेषां राज्यानां दलानि भागं ग्रहीष्यन्ति। बीसीसीआई-द्वारा निर्धारितकार्यक्रमानुसारं लीगस्पर्धाः पञ्चचरणेषु आयोजयिष्यन्ते। प्रारम्भिकाः स्पर्धाः नवम्बरमासस्य १४ तः १६ दिनाङ्कपर्यन्तं भविष्यन्ति। ततः नवम्बरमासस्य १९ तः २१ दिनाङ्कपर्यन्तं, २५ तः २७ दिनाङ्कपर्यन्तं, ३० नवम्बरतः दिसम्बरमासस्य २ दिनाङ्कपर्यन्तं तथा दिसम्बरमासस्य ६ तः ८ दिनाङ्कपर्यन्तं स्पर्धाः आयोजयिष्यन्ते। प्लेट्-समूहस्य अन्तिमस्पर्धा दिसम्बरमासस्य १२ तः १५ दिनाङ्कपर्यन्तं भविष्यति।
देहरादूननगरस्य त्रीणि क्रिकेटक्रीडाङ्गणानि प्रतियोगितायाः आयोजनाय चयनितानि सन्ति। एतेषु अभिमन्यु-क्रिकेट्-अकादमी, आयुष-क्रिकेट्-अकादमी तथा राजीवगान्धी-अन्तरराष्ट्रीय-क्रिकेट्-क्रीडाङ्गणम् अन्तर्भवन्ति। एतेषु क्रीडाङ्गणेषु विभिन्नाः स्पर्धाः आयोजयिष्यन्ते।
प्रतियोगितायां षण्णां राज्यानां क्रीडकानां, प्रशिक्षकाणां, दलप्रबन्धनसम्बद्धानां च आगमनेन देहरादूननगरे क्रिकेटसम्बद्धाः गतिविधयः वर्धिष्यन्ते। तथैव स्थानीयक्रिकेटप्रेमिभ्यः राष्ट्रियस्तरीयानां युवा-क्रीडकानां क्रीडां द्रष्टुम् अवसरः प्राप्स्यते।
विजयमर्चेण्ट्-ट्रॉफी बीसीसीआई-संस्थायाः प्रमुखासु घरेलू-आयुवर्गीयासु क्रिकेटप्रतियोगितासु अन्यतमा अस्ति। अण्डर-१६ वर्गे आयोज्यमानायाम् अस्यां प्रतियोगितायां युवा-क्रीडकाः प्रतिस्पर्धात्मकक्रिकेटस्य अनुभवम् अवाप्नुवन्ति। क्रीडकेभ्यः स्वकीयां बल्लेबाजी-कौशलं, गेन्दबाजी-कौशलं, क्षेत्ररक्षणक्षमतां च प्रदर्शयितुम् अयम् अवसरः अस्ति।
क्रिकेट एसोसिएशन ऑफ उत्तराखण्डस्य सचिवा किरणवर्मा अवदत् यत् बीसीसीआई-संस्थया प्रतियोगितायाः आतिथ्यदायित्वं उत्तराखण्डराज्याय समर्पणम् प्रदेशस्य क्रिकेटक्षेत्रस्य कृते महत्त्वपूर्णा उपलब्धिः अस्ति। एसोसिएशनेन षड्भ्यः राज्येभ्यः आगच्छतां क्रीडकानां, अधिकारिणां च कृते उत्तमक्रीडासुविधाः सुरक्षितं वातावरणं च उपलब्धं कर्तुं प्रयासः क्रियते।
सा अवदत् यत् एतादृशीभिः राष्ट्रियस्तरीयप्रतियोगिताभिः प्रदेशस्य क्रीडायाः आधारभूतसंरचनायाः परिचितिः वर्धते तथा स्थानीयक्रीडकेभ्यः उच्चस्तरीयक्रिकेटक्रीडां द्रष्टुं तस्मात् च शिक्षितुम् अवसरः अपि प्राप्यते।
Hindusthan Samachar / Dheeraj Maithani