Enter your Email Address to subscribe to our newsletters

गोपेश्वरम्, 14 नवम्बरमासः (हि.स.)।
मुख्यमन्त्रिणा पुष्करसिंहधामिना चतुर्सप्ततितमस्य राजकीय-औद्योगिकविकास-सांस्कृतिकगौचरमहोत्सवस्य विधिवत् शुभारम्भः कृतः। पूजाऽर्चनां कृत्वा दीपप्रज्वालनमाध्यमेन सप्तदिवसीयमहोत्सवस्य उद्घाटनं कुर्वन् सः अवदत् यत् गौचरमहोत्सवः उत्तराखण्डस्य ऐतिहासिकधरोहरायाः, समृद्धव्यापारपरम्परायाः, सांस्कृतिकपरिचितेश्च प्रतीकम् अस्ति। अस्मिन्नवसरे मुख्यमन्त्रिणा सिमलीचिकित्सालयसम्बद्धस्य विषयस्य समाधानार्थं शीघ्रमेव समितेः गठनस्य आश्वासनं प्रदत्तम्। गौचरस्य गैरसैणस्य च पेयजलव्यवस्थां सुदृढां कर्तुं निर्मितयोः योजनयोः लोकार्पणम् अपि कृतम्।
गौचरम् आगमनसमये मुख्यमन्त्रिणः पारम्परिकरीत्या स्वागतं कृतम्। तेन महोत्सवस्य संस्थापकस्य स्वर्गीयस्य गोविन्दप्रसादनौटियालस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धाञ्जलिः समर्पिता। स्थानीयविद्यालयानां छात्राभिः सांस्कृतिकप्रस्तुतयः प्रदत्ताः।
मुख्यमन्त्री अवदत् यत् १९४३ तमे वर्षे भोटियाव्यापारमेलारूपेण प्रारब्धः गौचरमहोत्सवः अद्य औद्योगिकसांस्कृतिकपरिचितिं प्राप्तवान् अस्ति। कदाचित् भारत-तिब्बतव्यापारस्य प्रमुखं केन्द्रम् आसीत् गौचरम् ऊनस्य, पश्मीनायाः, औषधीयवनस्पतीनां च व्यापारार्थं प्रसिद्धम् आसीत्। अद्य अयं महोत्सवः स्थानीयव्यापारिभ्यः, शिल्पकारेभ्यः, उद्यमिभ्यः, स्वयंसेवीसमूहेभ्यश्च स्वोत्पादानां प्रदर्शनस्य विपणनस्य च महत्त्वपूर्णं मञ्चं प्रददाति। अयं प्रधानमन्त्री नरेन्द्रमोदिनः वोकलफोरलोकल इत्येतद् उद्देश्यं तन्नाम ‘स्थानीयार्थं मुखरः’ इति सङ्कल्पं अग्रे नेतुम् अपि माध्यमं वर्तते।
तेन कथितं यत् चमोलीजनपदस्य दालाः, राजमाषाः, मण्डुवा, झङ्गोरा, मधु, ऊनीहस्तशिल्पानि, औषधीयवनस्पतयश्च बृहद्विपण्यं प्रति प्रापयितुं ‘हाउस ऑफ हिमालयाज’ इति ब्राण्ड् प्रारब्धम् अस्ति। अस्य व्यापारः षड्कोटिरूप्यकाणाम् अङ्कं अतिक्रान्तवान्। मुख्यमन्त्री अवदत् यत् सर्वकारस्य प्रयासः युवभ्यः कृषेः, उद्यानकृषेः, पशुपालनस्य, पर्यटनस्य, हस्तशिल्पस्य च माध्यमेन स्थानीयस्तरे रोजगारावसरान् प्रदातुम् अस्ति, येन पलायनं निरोद्धुं शक्येत।
मुख्यमन्त्री अवदत् यत् चतुर्धाममार्गपरियोजनया ऋषिकेश-कर्णप्रयागरेलपरियोजनया च चमोलीजनपदस्य सम्पर्कव्यवस्थायां, पर्यटनक्षेत्रे, स्थानीयार्थव्यवस्थायां च नवीनगतिः भविष्यति। सीमावर्तिक्षेत्रेषु आधारभूतसुविधानां विस्तारः सर्वकारस्य प्राथमिकता अस्ति।
अस्मिन्नवसरे प्रभारीमन्त्री भरतसिंहचौधरी, थरालीविधायकः भूपालरामटम्टा, कर्णप्रयागविधायकः अनिलनौटियालः, दर्जाप्राप्तमन्त्री हरकसिंहनेगी, बलवीरघुनियालः, रमेशगडिया, माधवप्रसादसेमवालः, प्रेमसिंहराणा, जिलासहकारीबैंकस्य अध्यक्षः गजेन्द्रसिंहरावतः, भाजपायाः जिलाध्यक्षः श्री गजपालसिंहबर्त्वालः, गौचरनगरपालिकायाः अध्यक्षः सन्दीपनेगी, कर्णप्रयागस्य खण्डप्रमुखा दीपिकामैखुरी, भाजपायाः महामन्त्रिणौ अरुणमैठाणी विनोदकनवासी च, जिलाधिकारी गौरवकुमारः, आरक्षी अधीक्षकः सुरजीतसिंहपंवारः, अपरजिलाधिकारी विवेकप्रकाशः, उपजिलाधिकारी अलकेशनौटियालः इत्यादयः जनप्रतिनिधयः, अधिकारिणः, व्यापारिणः, बहुसंख्याकाः स्थानीयजनाश्च उपस्थिताः आसन्।
सिमलीचिकित्सालयस्य कृते समितेः गठनम्, प्रेसक्लबभवनार्थं भूम्यन्वेषणस्य निर्देशः
मुख्यमन्त्रिणा स्थानीयजनप्रतिनिधीनां नागरिकाणां च अपेक्षासु सकारात्मकः दृष्टिकोणः प्रदर्शितः। तेन सिमलीचिकित्सालयसम्बद्धस्य विषयस्य समाधानार्थं शीघ्रं समितेः गठनं कृत्वा सर्वेषां सम्बद्धपक्षाणां विचारान् श्रोतुं कथितम्। प्रेसक्लबभवननिर्माणस्य आग्रहस्य विषये तेन स्थानीयस्तरे उपयुक्तभूमेः चिह्नाङ्कनं कर्तुं निर्देशः प्रदत्तः।
गौचराय गैरसैणाय च पेयजलयोजनानां सौगातम्
मुख्यमन्त्रिणा द्वयोः पेयजलयोजनयोः लोकार्पणं कृतम्। एतयोः अमृत-२.० योजनायाः अन्तर्गतं ३२.४५ कोटिरूप्यकाणां व्ययेन निर्मिता गौचरनगरीयपेयजलयोजना तथा गैरसैणे ४.५९ कोटिरूप्यकाणां व्ययेन नगरीयपेयजलयोजनायाः सुदृढीकरणस्य मरम्मतकार्याणि च सम्मिलितानि सन्ति।
द्वाभ्यां विभूतिभ्यां स्मृतिसम्मानं प्रदत्तम्
कार्यक्रमे पत्रकारितायाः साहित्यस्य च क्षेत्रयोः योगदानार्थं बमोथग्रामनिवासिने वरिष्ठपत्रकाराय ललितप्रसादलखेड़ाय गोविन्दप्रसादनौटियालस्मृतिसम्मानम्-२०२६ इति सम्मानं मुख्यमन्त्रिणा प्रदत्तम्। अपरतः देहरादूनस्य बिनसरपब्लिकेशनसंस्थायाः वरिष्ठलेखकाय प्रकाशकाय च कीर्तिनवान्यै पण्डितमहेशानन्दनौटियालशिक्षासाहित्यप्रसारसम्मानम्-२०२६
इति सम्मानः प्रदत्तः।
Hindusthan Samachar / Dheeraj Maithani