महाकालस्य सन्निधौ समुपस्थिता अभिनेत्री हंसिका मोटवानी, भगवतः महाकालेश्वरस्य आशीर्वादं प्राप्तवती।
भोपालम्, 15 नवम्बरमासः (हि.स.)। अभिनेत्री हंसिका मोटवानी रविवासरे प्रातःकाले मध्यप्रदेशस्य उज्जयिनीं प्राप्तवती तथा विश्वप्रसिद्धस्य महाकालमन्दिरस्य दर्शनं कृत्वा भगवतः महाकालेश्वरस्य आशीर्वादं प्राप्तवती। सा नन्दीमण्डपे उपविश्य भस्मारत्यां सहभाग
अभिनेत्री हंसिका मोटवानी ने महाकाल मंदिर में किए दर्शन


भोपालम्, 15 नवम्बरमासः (हि.स.)।

अभिनेत्री हंसिका मोटवानी रविवासरे प्रातःकाले मध्यप्रदेशस्य उज्जयिनीं प्राप्तवती तथा विश्वप्रसिद्धस्य महाकालमन्दिरस्य दर्शनं कृत्वा भगवतः महाकालेश्वरस्य आशीर्वादं प्राप्तवती। सा नन्दीमण्डपे उपविश्य भस्मारत्यां सहभागं कृतवती तथा शिखरदर्शनमपि कृतवती। मन्दिरे श्रद्धालूनां कृते कृता व्यवस्थाः प्रशंसन्ती हंसिका मुख्यमन्त्रिणः डॉ. मोहन यादवस्य प्रति कृतज्ञतां प्रकटितवती। स्वीयाम् एतां यात्रां सा अत्यन्तं दिव्यानुभूतिप्रदं स्मरणीयञ्च अनुभवं कथितवती।

महाकालमन्दिरे दर्शनानन्तरं हंसिका मोटवानी अवदत् यत् सा दीर्घकालादेव उज्जयिनीम् आगत्य बाबा महाकालस्य दर्शनं कर्तुम् इच्छति स्म। अन्ततः तस्याः सा इच्छा पूर्णा जाता। सा अवदत्, “अत्र अत्यन्तं दिव्या ऊर्जा अस्ति। भस्मारतेः दर्शनं तदनुभवश्च मम कृते विशेषः आसीत्।”

अभिनेत्र्या मन्दिरे श्रद्धालूनां कृते कृता व्यवस्थाः अपि प्रशंसिताः। सा अवदत् यत् दर्शनसमये भस्मारत्याः च समये सम्पूर्णा प्रक्रिया सरला सुव्यवस्थिता च आसीत्। एतदर्थं सा मुख्यमन्त्रिणः डॉ. मोहन यादवस्य प्रति कृतज्ञतां प्रकटितवती। दर्शनानन्तरं हंसिका ‘जय श्री महाकाल’ इति जयघोषं कृतवती तथा स्वकीयाम् उज्जयिनीयात्रां स्मरणीयाम् अवदत्।

हंसिका मोटवानी हिन्दीचलचित्रेषु दूरदर्शने च बालकलाकाररूपेण स्वकीयम् अभिनयजीवनम् आरब्धवती। अनन्तरं तमिलभाषायां तेलुगुभाषायां च निर्मितासु चलचित्रेषु प्रमुखभूमिकाः निर्वहन्ती स्वकीयां विशिष्टां परिचितिम् अलभत।

---------------

Hindusthan Samachar / Dheeraj Maithani