Enter your Email Address to subscribe to our newsletters

गुवाहाटी, १५ नवम्बरमास: (हि.स.)। असमे नगाँव-कार्बी आंगलोङसीमायां स्थिते हाथीखली-रोंगहांगग्रामे ‘गजोत्सवस्य’ आयोजनं क्रियते। अस्मिन् अवसरे मानवैः गजैश्च सहजीवनस्य भावनां प्रोत्साहयितुं क्रियमाणानां प्रयासानां विषये विशेषतया प्रकाशः प्रदत्तः।
अस्य प्रयत्नस्य अन्तर्गतं हस्तीदण्डीक्षेत्रे प्रायः २०० बीघाभूमौ विशेषरूपेण गजेभ्यः धान्यस्य कृषिः कृता अस्ति। कृषकाणां सस्यानि गजेभ्यः रक्षितुं मानव-गजयोः संघर्षं च न्यूनीकर्तुम् ‘हातिबन्धु’ सङ्गठनेन एष: अपूर्व: प्रयत्न: कृत: अस्ति।
सङ्घटनस्य उद्देश्यम् अस्ति यत् गजानां प्राकृतिकावासस्य समीपे तेषां कृते पर्याप्तं खाद्यम् उपलब्धं भवेत्, येन ते भोजनस्य अन्वेषणे कृषकाणां क्षेत्रेषु न प्रविशेयुः तथा च सस्यानां क्षतिः न भवेत्।
अस्य प्रयत्नस्य कृते असमसर्वकारेण सङ्घटनं प्रतिष्ठितेन ‘असमगौरव’ पुरस्कारेण सम्मानितम् आसीत्। अपरपक्षे प्रधानमन्त्री नरेन्द्रमोदी अपि स्वस्य मासिकस्य आकाशवाणीकार्यक्रमस्य ‘मन की बात’ इत्यस्य माध्यमेन सङ्घटनस्य प्रयासानां प्रशंसाम् अकरोत्।
Hindusthan Samachar / Divya Ranjan