अन्ताराष्ट्रियभारतीयचलचित्रमहोत्सवे मलयालमचलचित्राणां विविधता प्रदर्शयिष्यते, प्रेम नजीरस्य ‘तुलाभारम्’ इत्यस्य विशेषप्रदर्शनं भविष्यति।
नवम्बरमासस्य २० दिनाङ्कतः २८ दिनाङ्कपर्यन्तं गोवाराज्ये आयोजयिष्यते सप्तपञ्चाशत्तमः भारतीयः अन्ता राष्ट्रियचलचित्रमहोत्सवः। * भारतीयपैनोरमा, न्यू होराइजन तथा गालाप्रीमियरवर्गेषु प्रदर्शयिष्यन्ते मलयालमचलचित्राणि। नवदेहली, 15नवम्बरमासः (हि.स.)
आईएफएफआई में मलयालम सिनेमा की विरासत और नई पीढ़ी की फिल्मों का दिखेगा रंग


* नवम्बरमासस्य २० दिनाङ्कतः २८ दिनाङ्कपर्यन्तं गोवाराज्ये आयोजयिष्यते सप्तपञ्चाशत्तमः भारतीयः अन्ता राष्ट्रियचलचित्रमहोत्सवः।

* भारतीयपैनोरमा, न्यू होराइजन तथा गालाप्रीमियरवर्गेषु प्रदर्शयिष्यन्ते मलयालमचलचित्राणि।

नवदेहली, 15नवम्बरमासः (हि.स.)। गोवाराज्ये नवम्बरमासस्य २० दिनाङ्कतः २८ दिनाङ्कपर्यन्तम् आयोज्यमाने सप्तपञ्चाशत्तमे भारतीयान्ताराष्ट्रियचलचित्रमहोत्सवे अस्मिन् वर्षे मलयालमचलचित्राणां विविधता, समृद्धा परम्परा तथा नवोदितानां सृजनशीलचलचित्रनिर्मातॄणां प्रतिभा च द्रष्टुं लप्स्यते। महोत्सवे वरिष्ठाभिनेता प्रेम नजीरस्य ‘तुलाभारम्’ इति चलचित्रस्य विशेषप्रदर्शनं भविष्यति। एतदतिरिक्तं नवपीढ्याः चलचित्रनिर्मातॄणां बहूनि मलयालमचलचित्राणि भारतीयपैनोरमा, न्यू होराइजन तथा गालाप्रीमियरवर्गेषु प्रदर्शयिष्यन्ते।

केन्द्रीयसूचनाप्रसारणमन्त्रालयानुसारम्, अस्मिन् वर्षे भारतीयान्तर्राष्ट्रीयचलचित्रमहोत्सवः ‘सीमातीतकथाः’ इति विषयमाधारीकृत्य आयोज्यते। अस्मिन् भारतसहितं विश्वस्य विभिन्नदेशेभ्यः चलचित्राणि, चलचित्रनिर्मातारः तथा चलचित्रप्रेमिणः एकस्मिन् मञ्चे समागमिष्यन्ति। सांस्कृतिकविनिमयं प्रोत्साहयितुं तथा चलचित्रस्य सार्वभौमिकभाषायाः उत्सवं आयोजयितुं महोत्सवस्य उद्देश्यम् अस्ति।

महोत्सवे मलयालमचलचित्रदर्शकानां कृते प्रेम नजीराभिनीतस्य ‘तुलाभारम्’ इति चलचित्रस्य विशेषप्रदर्शनं प्रमुखम् आकर्षणं भविष्यति। एतत्प्रदर्शनं भारतीयचलचित्रजगतः विशिष्टव्यक्तीनां जन्मशताब्दीम् उपलक्ष्य आयोज्यमानस्य विशेषकार्यक्रमस्य भागः अस्ति। अनेन दर्शकाः भारतीयचलचित्रेतिहासे महत्त्वपूर्णं स्थानं धारयतां चलचित्राणां कलाकाराणां च योगदानं निकटतः ज्ञातुं अवसरं प्राप्स्यन्ति।

भारतीयपैनोरमायाः कथाचित्रवर्गे अखिलसत्यनस्य निर्देशननिर्मितं ‘सर्वं माया’ इति चलचित्रं चयनितम् अस्ति। अस्मिन् चलचित्रे निविन पॉली, अजू वर्गीज, रिया शिबू तथा प्रीति मुकुन्दन इत्येते प्रमुखभूमिकासु अभिनयं कृतवन्तः। अलौकिकविषयमाधारितमिदं चलचित्रम् आस्तिक्यभावनारहितस्य प्रभेन्दु नामकस्य सङ्गीतकारस्य कथां प्रस्तौति, यस्य सम्पर्कः एकस्याः युवत्याः प्रेतात्मना सह भवति। असामान्यसम्बन्धस्य माध्यमेन चलचित्रे आस्था, प्रेम तथा आत्मान्वेषणम् इत्यादयः विषयाः प्रस्तुताः सन्ति।

अपरतः भारतीयपैनोरमायाः न्यू होराइजनवर्गे मलयालमभाषायाः अन्ये द्वे चलचित्रे ‘ओट्टांजावलमारम (ए लोन जामुन ट्री)’ तथा ‘अजयन्ते मरणम्: ओरु केस स्टडी’ अपि प्रदर्शयिष्येते। एतयोः निर्देशनं क्रमशः श्रुति शरण्यम् तथा श्रीहरि हरिदासः कृतवन्तौ। कथेतरचलचित्रवर्गे सन्दीप फ्रान्सिसस्य एकादशमिनिटात्मकं लघुचलचित्रं ‘स्विच ऑफ’ प्रदर्शयिष्यते। एतदतिरिक्तं केरलस्य चलचित्रनिर्मातुः समजादस्य निर्देशननिर्मितं ‘हाफ’ इति चलचित्रं गालाप्रीमियरवर्गे प्रदर्शयिष्यते।

महोत्सवस्य अवधौ मलयालमचलचित्रजगतः विशिष्टाः व्यक्तयः विशेषसंवादेषु चर्चासत्रेषु च भागं ग्रहीष्यन्ति। चलचित्रनिर्माता तथा अभिनेता बेसिल जोसेफः ‘द एपिक जॉनर- माइथोलॉजीज, सुपरहीरोज एण्ड न्यू वर्ल्ड्स’ इति विषये आयोज्यमाने संवादसत्रे भागं ग्रहीष्यति। अस्मिन् चलचित्रेषु महाकाव्यशैल्याः परिवर्तमानस्वरूपस्य तथा तस्याः सम्भावनानां विषये चर्चा भविष्यति।

एतदतिरिक्तं प्रसिद्धा पार्श्वगायिका के.एस. चित्रा आशा भोसले तथा एस. जानकी इत्येताभ्यां समर्पितस्य विशेषसत्रस्य सञ्चालनं करिष्यति। अस्मिन् अवसरे उभयोः वरिष्ठगायिकयोः चिरस्मरणीयगीतानि तथा भारतीयसङ्गीतजगति तयोः अतुलनीययोगदानं स्मरिष्यते।

Hindusthan Samachar / Dheeraj Maithani