भारत-सोमालियादेशयोः मध्ये प्रथमा विदेशकार्यालयीयपरामर्शोपवेशना, द्विपक्षीयसहकारितायाः संवर्धनविषये चर्चा।
वाणिज्यः, निवेशः, स्वास्थ्यसेवा, क्षमतानिर्माणं समुद्रीसुरक्षा च प्राथमिकताक्षेत्रत्वेन चिह्नितानि। नवदिल्ली, 15 नवम्बरमासः (हि.स.)। भारतस्य सोमालियादेशस्य च मध्ये प्रथमा विदेशकार्यालयीयपरामर्शोपवेशना रविवासरे सोमालियादेशस्य राजधानी मोगादिशुनगर
. भारत और सोमालिया के प्रतिनिधियों ने मोगादिशु में पहली विदेश कार्यालय परामर्श बैठक के दौरान द्विपक्षीय संबंधों पर चर्चा की।


- वाणिज्यः, निवेशः, स्वास्थ्यसेवा, क्षमतानिर्माणं समुद्रीसुरक्षा च प्राथमिकताक्षेत्रत्वेन चिह्नितानि।

नवदिल्ली, 15 नवम्बरमासः (हि.स.)। भारतस्य सोमालियादेशस्य च मध्ये प्रथमा विदेशकार्यालयीयपरामर्शोपवेशना रविवासरे सोमालियादेशस्य राजधानी मोगादिशुनगरे आयोजिता। उपवेशनायां द्वयोः देशयोः राजनैतिकसम्बन्धानां, सुरक्षासम्बद्धविषयाणां, आर्थिकसम्बन्धानां सामाजिकसांस्कृतिकसम्बन्धानां च समीक्षां कृतवन्तौ। सहैव द्विपक्षीयसहकारितां अधिकं सुदृढां कर्तुं विविधोपायानां विषये विचारविमर्शः अपि कृतः।

विदेशमन्त्रालयस्य अनुसारम्, उपवेशनस्य सहाध्यक्षतां भारतस्य पश्चिम एशिया एवं उत्तर आफ्रिका (डब्ल्यूएएनए) विभागस्य संयुक्तसचिवेन सोमालियादेशस्य विदेशमन्त्रालयस्य स्थायिसचिवेन च कृता।

उपवेशनायां उभयपक्षाभ्यां वाणिज्यनिवेशयोः, लघुमध्यमोद्योगानाम्, स्वास्थ्यस्य औषधिक्षेत्रस्य, क्षमतानिर्माणस्य, आतङ्कवादनिरोधकसहकारितायाः समुद्रीसुरक्षायाश्च प्राथमिकताक्षेत्रत्वेन चिह्नीकरणं कृतम्। एतदतिरिक्तं द्वाभ्यां देशाभ्यां क्षेत्रीयमहत्त्वयुक्तानाम् अन्ता राष्ट्रियमहत्त्वयुक्तानां च समानहितसम्बद्धविषयाणां विषये विचाराणाम् आदानप्रदानम् अपि कृतम्।

Hindusthan Samachar / Dheeraj Maithani