Enter your Email Address to subscribe to our newsletters

सागरः, 15 नवंबरमासः (हि.स.)।
,मध्यप्रदेशस्य सागरमण्डलस्य जैसीनगरनगरे रविवासरे ‘जनजातीयगौरवदिवसस्य’ अवसरे भव्यकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमे मुख्यातिथिरूपेण सम्मिलितः खाद्यमन्त्री गोविन्दसिंहराजपूतः अवदत् यत् देशस्य स्वातन्त्र्ये विकासे च जनजातीयसमाजस्य अमूल्यं योगदानम् अस्ति, किन्तु दीर्घकालपर्यन्तं तेषां महानायकानां कृते तत् स्थानं न प्राप्तं यस्य ते अधिकारिणः आसन्। प्रधानमन्त्री नरेन्द्रमोदी २०२१ तमे वर्षे जनजातीयगौरवदिवसस्य प्रारम्भं कृत्वा तेषाम् इतिहासं, वीरतां स्वाभिमानञ्च जनसामान्यं यावत् प्रापयितुं कार्यम् अकरोत्।
कार्यक्रमस्य अध्यक्षतां कुर्वन् जिलापञ्चायताध्यक्षः हीरासिंहराजपूतः अवदत् यत् अमरशहीदः भगवान् बिरसा मुण्डा केवलं २५ वर्षाणाम् अल्पायुषि एव देशस्य स्वातन्त्र्यार्थं स्वसर्वस्वं समर्पितवान्। सः गौरवमनुभवन् अवदत् यत् अद्य आदिवासीसमुदायस्य कन्या श्रीमती द्रौपदीमुर्मू देशस्य सर्वोच्चपदं समलङ्करोति, यत् सम्पूर्णदेशस्य कृते गौरवस्य विषयः अस्ति। केन्द्रराज्यसर्वकारौ आदिवासीसमाजस्य उत्थानाय, शिक्षायै, स्वास्थ्याय, आधारभूतसुविधानां विकासाय च पूर्णप्रतिबद्धतया कार्यं कुरुतः।
कार्यक्रमस्य मुख्याकर्षणं जनजातीयलोककलाकारैः सह मन्त्री गोविन्दसिंहराजपूतेन कृतं लोकनृत्यम् आसीत्। पारम्परिकवेशभूषायां समागतं मन्त्रिणं स्वमध्ये प्राप्य कलाकाराः उपस्थितजनसमूहश्च करतलध्वनिभिः तस्य उत्साहवर्धनम् अकुर्वन्। अस्मिन् भव्यायोजने छत्तीसगढः, ओडिशा, गुजरातः, उत्तरप्रदेशः, कर्नाटकः, आन्ध्रप्रदेशः इत्येतेषां षण्णां राज्यानां लोककलाकारैः सहभागिता कृता। ते स्वमनोहराणि लोकनृत्यानि लोकगीतानि च प्रस्तुतवन्तः।
कार्यक्रमस्य शुभारम्भः भगवान् बिरसा मुण्डा इत्यस्य चित्रे माल्यार्पणेन, दीपप्रज्वालनेन ‘वन्देमातरम्’ इति गीतस्य गायनेन च अभवत्। स्थानीयजनजातीयपरम्परायाः निर्वहनं कुर्वद्भिः अतिथीनां स्वागतं महुआपत्रनिर्मिताभिः टोपिकाभिः महुआमालाभिश्च कृतम्। ततः अतिथयः समुदायस्य जनानां उपरि पुष्पवर्षां कृत्वा तेभ्यः भोजनं वितरितवन्तः। अस्मिन् अवसरे भाजपा जिलाध्यक्षः श्यामतिवारी, महाकौशलप्रान्तसचिवः अर्जुनसिंहमरकामः, जनपदाध्यक्षः रामबाबूसिंहः, जिलापञ्चायतसदस्या श्रीमती भारतीगोण्डः, श्रीमती ऊषापटेलः, जिलापञ्चायतस्य मुख्यकार्यपालनाधिकारी जगदीशकुमारगोमे, उपमण्डलाधिकारी नवीनसिंहठाकुरः इत्यादयः अनेके जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः आसन्।
जैसीनगरस्य अतिरिक्तं सागरनगरे मलैया मैरिज गार्डन इत्यत्रापि भगवान् बिरसा मुण्डा इत्यस्य १५१ तमस्य जन्मजयन्ती हर्षोल्लासेन आचरिता। अत्र एका भव्यशोभायात्रा आयोजिता, यस्यां नागरिकैः अधिकारिभिश्च सहभागिता कृता। सागरनगरस्य विधायकः शैलेन्द्रजैनः, नगरनिगमाध्यक्षः वृन्दावनअहिरवारः, अपरजिलाधिकारी अविनाशरावतश्च भगवान् बिरसा मुण्डा इत्यस्मै श्रद्धाञ्जलिं समर्पितवन्तः। विधायकः शैलेन्द्रजैनः अवदत् यत् बिरसा मुण्डा इत्यनेन जलस्य, वनस्य, भूमेश्च रक्षार्थं कृतः सङ्घर्षः अद्यतननवयुवसंततेः कृते महान् प्रेरणास्रोतः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani