राज्यस्थापनादिवसे खूण्टीनगरे अधिकारिणः नागरिकाश्च अधावन्, स्वच्छतायाः सन्देशं दत्तवन्तः
खूण्टिः, १५ नवम्बरमास: (हि.स.)। झारखण्डराज्यस्य स्थापनादिवसस्य अवसरे रविवासरे जनपदप्रशासनेन ‘स्वच्छतायै धावनम्’ इति कार्यक्रमस्य आयोजनं कृतम्। अस्मिन् अवसरे उपायुक्तः मो. जावेदहुसैनः, आरक्षकाधीक्षकः ऋषभ-गर्गः च सहिताः जनपदस्तरीयाः अधि-कारिणः, कर्मच
Run


खूण्टिः, १५ नवम्बरमास: (हि.स.)। झारखण्डराज्यस्य स्थापनादिवसस्य अवसरे रविवासरे जनपदप्रशासनेन ‘स्वच्छतायै धावनम्’ इति कार्यक्रमस्य आयोजनं कृतम्। अस्मिन् अवसरे उपायुक्तः मो. जावेदहुसैनः, आरक्षकाधीक्षकः ऋषभ-गर्गः च सहिताः जनपदस्तरीयाः अधि-कारिणः, कर्मचारिणः, विद्यालयीयाः छात्राः स्थानीयनागरिकाश्च धावित्वा स्वच्छतायाः सन्देशं दत्तवन्तः।

कार्यक्रमस्य शुभारम्भः समाहरणालय-परिसरात् अभवत्। ततः सर्वे प्रतिभागिनः राजातालाबपर्यन्तं धावितवन्तः। धावनस्य माध्यमेन जनान् स्वच्छतां प्रति जागरूकान् कुर्वन्तः स्वपरितः वातावरणं स्वच्छं निर्मलं च स्थापयितुं सन्देशः प्रदत्तः।

कार्यक्रमस्य समापनानन्तरं उपायुक्तेन, आरक्षकाधीक्षकेण अन्यैः प्रतिभागिभिश्च राजातालाबस्थितस्य छठघाटस्य स्वच्छताकार्यम् अपि कृतम्। अस्मिन् अवसरे सामान्यजनाः सार्वजनिक-स्थानानि, सरोवराणि जलस्रोतांसि च स्वच्छानि स्थापयितुं प्रेरिताः।

अस्मिन् अवसरे उपायुक्तः मो. जावेदहुसैनः जनपदवासिभ्यः झारखण्डराज्यस्य स्थापनादिवसस्य शुभकामनाः प्रदाय अवदत् यत् स्वच्छता केवलं प्रशासनस्य दायित्वं नास्ति, अपितु अस्माकं सर्वेषां सामूहिकं कर्तव्यम् अस्ति। स्वच्छतां नित्यजीवनशैल्याः अङ्गं कर्तुम् आवश्यकम् अस्ति। गृहैः सह सार्वजनिकस्थानानां जलस्रोतसां च स्वच्छतायाम् अपि विशेषं ध्यानं दातव्यम्।

तेन उक्तं यत् जनसहभागितया एव स्वच्छस्य, सुन्दरस्य स्वस्थस्य च खूण्टीजनपदस्य निर्माणं सम्भवम् अस्ति।

उपायुक्तेन जनपदवासिनः आहूताः यत् ते इतस्ततः अपशिष्टानि न क्षिपेयुः, स्वपरितः स्वच्छतां पालयेयुः तथा च अन्यान् अपि स्वच्छतां प्रति जागरूकान् कुर्युः।

Hindusthan Samachar / Divya Ranjan