Enter your Email Address to subscribe to our newsletters

जनजातीयगौरवदिवसे प्रदेशवासिभ्यः हार्दिकाः बधायाः शुभकामनाश्च प्रदत्ताः
धरती आबा भगवान् बिरसा मुण्डामहोदयस्य त्यागमयं जीवनं भाविसन्ततीनां कृते सदैव प्रेरणादायकं भविष्यति : वित्तमन्त्री चौधरी
रायपुरम्, 15नवम्बरमासः (हि.स.)। वित्तमन्त्री ओ.पी. चौधरी महान् स्वतन्त्रतासेनानीं, समाजसुधारकं, जनजातीयास्मितायाः महानायकं च धरती आबा भगवान् बिरसा मुण्डामहोदयं तस्य जयन्त्यवसरे श्रद्धापूर्वकं नतवान्। अस्मिन्नवसरे सः समस्तेभ्यः प्रदेशवासिभ्यः ‘जनजातीयगौरवदिवसस्य’ हार्दिकाः बधायाः शुभकामनाश्च प्रदत्तवान्।
वित्तमन्त्री चौधरी अवदत् यत् भगवान् बिरसा मुण्डामहोदयस्य सम्पूर्णं जीवनं मातृभूमेः स्वातन्त्र्याय, जनजातीयसमाजस्य अधिकाराणां, स्वाभिमानस्य, सामाजिकन्यायस्य च कृते समर्पितम् आसीत्। तेन स्वस्य अदम्यसाहसेन, दृढसङ्कल्पेन, सङ्घर्षेण च आङ्ग्लशासनस्य विरुद्धं जनजातीयसमाजः सङ्गठितः तथा जलस्य, वनानां, भूमेः च रक्षणार्थं ऐतिहासिकस्य आन्दोलनस्य नेतृत्वं कृतम्। तस्य त्यागः, सङ्घर्षः, बलिदानं च भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासे सदैव स्वर्णाक्षरैः अङ्कितं भविष्यति।
मन्त्री चौधरी अवदत् यत् भगवान् बिरसा मुण्डा न केवलं महान् स्वतन्त्रतासेनानी, अपितु दूरदर्शी समाजसुधारकः अपि आसीत्। तेन जनजातीयसमाजे सामाजिकजागरूकतायाः, ऐक्यस्य, स्वाभिमानस्य च भावनाः सुदृढाः कृताः। प्रकृतेः संरक्षणस्य, स्वसंस्कृतेः परम्पराणां च रक्षणस्य, अन्यायस्य विरुद्धं सङ्घर्षस्य च तस्य सन्देशः अद्यापि अत्यन्तं प्रासङ्गिकः अस्ति।
वित्तमन्त्री चौधरी अवदत् यत् जनजातीयगौरवदिवसः देशस्य महानां जनजातीयजननायकानां सङ्घर्षस्य, त्यागस्य, राष्ट्रनिर्माणे तेषाममूल्ययोगदानस्य च स्मरणार्थं गौरवपूर्णः अवसरः अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे वर्ष २०२१ तः भगवान् बिरसा मुण्डामहोदयस्य जयन्ती नवम्बरमासस्य १५ दिनाङ्के जनजातीयगौरवदिवसरूपेण आयोजयितुम् आरब्धम्। अस्याः पहलस्य माध्यमेन जनजातीयसमाजस्य समृद्धायाः सांस्कृतिकविरासतायाः महानां जननायकानां च योगदानस्य राष्ट्रस्तरे नूतना परिचितिः प्राप्ता।
सः अवदत् यत् छत्तीसगढस्य समृद्धा जनजातीयसंस्कृतिः, गौरवशालिन्यः परम्पराः, प्राकृतिकविरासत् च प्रदेशस्य विशिष्टा परिचितिः सन्ति। मुख्यमन्त्रिणः विष्णुदेवसायस्य नेतृत्वे राज्यसर्वकारः जनजातीयसमाजस्य सर्वाङ्गीणविकासाय, शिक्षायै, स्वास्थ्याय, रोजगाराय, आवासाय, आधारभूतसुविधानां विस्ताराय च निरन्तरं कार्यं कुर्वन् अस्ति। जनजातीयाञ्चलानां विकासः तत्रत्यनागरिकाणां च कल्याणं विकसितच्छत्तीसगढस्य निर्माणस्य महत्त्वपूर्णा आधारशिला अस्ति।
वित्तमन्त्री चौधरी अवदत् यत् भगवान् बिरसा मुण्डामहोदयस्य त्यागमयं जीवनं भाविसन्ततीः राष्ट्रसेवायै, सामाजिकन्यायाय, साहसाय, स्वाभिमानाय च सदैव प्रेरयिष्यति। तेन प्रदेशवासिनः धरती आबा इत्यस्य आदर्शान् आत्मसात्कृत्य जनजातीयसमाजस्य सम्मानाय, सशक्तीकरणाय, समृद्धये च विकसितभारतस्य विकसितच्छत्तीसगढस्य च निर्माणे स्वसहभागितां सुनिश्चितां कर्तुम् आहूताः।
Hindusthan Samachar / Dheeraj Maithani