Enter your Email Address to subscribe to our newsletters

काठमांडूः, 15 नवंबरमासः (हि.स.)।
नेपालस्य गृहमन्त्री सुदन गुरुंगः संयुक्त अरब अमीरातस्य विदेशव्यापारमन्त्रिणा डॉ. थानी बिन अहमद अल जेयोदी इत्यनेन सह मेलनं कृतवान्। अस्मिन् अवसरे उभयोः नेतृणोः मध्ये द्विपक्षीयव्यापारस्य, निवेशस्य आर्थिकसहकारितायाः च विविधपक्षेषु चर्चा अभवत्।
गृहमन्त्रिणः गुरुंगस्य कथनानुसारं, अस्यां वार्तायां बूढीगण्डकी जलविद्युत्परियोजनायां, कृषिक्षेत्रे, सेवाक्षेत्रे तथा सुरक्षा-प्रौद्योगिक्यां यूएई-देशस्य निवेशस्य सहकारितायाः च प्रस्तावः प्रस्तुतः। तेन कथितं यत् वार्तायां प्रत्यक्षसम्पर्करहितस्य आरक्षकप्रशासनस्य, अहिंसकसुरक्षोपकरणानां निर्माणस्य, सुरक्षासंस्थानानाम् आधुनिकीकरणस्य तथा तेषां प्रौद्योगिक्यनुकूलं करणस्य विषयेषु अपि विचारविनिमयः अभवत्।
गृहमन्त्री सुदन गुरुंगः अवदत् यत् नेपालपक्षतः प्रस्तावितासु परियोजनासु सहकारितां प्रदातुं डॉ. थानी सकारात्मकां तत्परतां प्रदर्शितवान्। वस्तुतः गृहमन्त्री सुदन गुरुंगः विश्वपुलिसशिखरसम्मेलने भागं ग्रहीतुं दुबईनगरं प्राप्तवान् अस्ति। संयुक्त अरब अमीरातस्य सर्वकारस्य औपचारिकनिमन्त्रणानुसारं सः दुबईनगरे उपस्थितः अस्ति।
ज्ञातं यत् अस्मिन् सम्मेलने अन्तरराष्ट्रीय-आरक्षकसहकारितायाः, सुरक्षाप्रौद्योगिक्याः विकासस्य तथा अपराधनियन्त्रणक्षेत्रे प्रचलितानां नवीनतमप्रक्रियाणां च विषये विचारविमर्शः भविष्यति। सम्मेलनावसरे उच्चस्तरीयाः नीतिविषयकचर्चाः, विषयाधारिताः प्राविधिकसत्राः, उच्चस्तरीयभेंटवार्ताः, कार्यशालाः प्रशिक्षणकार्यक्रमाश्च, अन्तरराष्ट्रीयप्रदर्शनी तथा विश्वपुलिसपुरस्कारसम्बद्धाः विविधाः कार्यक्रमाः आयोजयिष्यन्ते।
अस्मिन् वर्षे सम्मेलने रक्षाव्यवस्था, आपत्स्थितिप्रबन्धनम्, स्वचालितयन्त्रमानवाः, विमानचालकरहितानि उड्डयनयानानि (ड्रोन), मानवीयक्षमता, कृत्रिमबुद्धिमत्ताधारितानि आरक्षकसेवाकार्याणि, अङ्कीयपरिवर्तनम्, साइबर-आक्रमणानां तथा अङ्कीयवञ्चनानां नियन्त्रणम्, आभासीयमुद्राव्यवहाराणां वित्तीयापराधानां च निवारणम्, अपराधान्वेषणम्, गुप्तचरसूचना, आधुनिकन्यायवैज्ञानिकप्रौद्योगिकी, मादकद्रव्याणां तथा सङ्गठितापराधानां नियन्त्रणम्, सीमासुरक्षा, स्मार्टसुरक्षाव्यवस्था, उपग्रहसूचना तथा अन्तरिक्षसुरक्षा इत्यादीनि चतुर्दश विषयाधारितक्षेत्राणि समाविष्टानि सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani