Enter your Email Address to subscribe to our newsletters

केन्द्रीयक्रीडामन्त्री मनसुखमाण्डवियया मुख्यमन्त्रिणा रेवन्तरेड्डिना च अनावरणं कृतम्
प्रायः अष्टसहस्रं क्रीडकाः प्रतिभागिनश्च भागं ग्रहीष्यन्ति इति सम्भावना
प्रथमवारं प्रतिस्पर्धात्मकक्रीडारूपेण सॉफ्टबॉलक्रीडा समावेशिता
नवदेहली, 15नवम्बरमासः (हि.स.)। तेलङ्गानाराज्ये दिसम्बरमासस्य ११ तः २२ दिनाङ्कपर्यन्तम् आयोज्यमानस्य खेलो इण्डिया यूथ गेम्स इत्यस्य अष्टमसंस्करणस्य प्रतीकचिह्नं शुभङ्करश्च रविवासरे विमोचितौ। केन्द्रीययुवकार्यक्रीडामन्त्री डॉ. मनसुखमाण्डवियया तेलङ्गानाराज्यस्य मुख्यमन्त्रिणा ए. रेवन्तरेड्डिना च संयुक्तरूपेण अनावरणं कृतम्। प्रतियोगितायाः आयोजनं राज्यस्य षट्सु नगरेषु भविष्यति, यस्मिन् प्रायः अष्टसहस्रं क्रीडकाः प्रतिभागिनश्च भागं ग्रहीष्यन्ति इति सम्भावना अस्ति।
अस्मिन्नवसरे डॉ. माण्डवियः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी युवानः क्रीडाभिः सह संयोजयितुं देशस्य विकासस्य व्यापकदृष्टिकोणे क्रीडानां महत्त्वपूर्णं स्थानं सुनिश्चितं कर्तुं च विशेषं बलं दत्तवान्। केन्द्रसर्वकारः क्रीडानां प्रोत्साहनाय प्रतिबद्धः अस्ति। खेलो इण्डिया अभियानस्य अन्तर्गतं युवाक्रीडाः, समुद्रतटीयक्रीडाः, शीतकालीनक्रीडाः, जनजातीयक्रीडाः इत्यादीनां प्रतियोगितानाम् आयोजनं क्रियते, येन अधिकाधिकेभ्यः युवभ्यः क्रीडासु भागग्रहणस्य अवसरः प्राप्तुं शक्यते।
माण्डवियया मुख्यमन्त्रिणा रेवन्तरेड्डिना च तेलङ्गानाराज्ये खेलो इण्डिया यूथ गेम्स इत्यस्य आयोजनार्थं प्रधानमन्त्रिणः मार्गदर्शनाय सहकारितायै च आभारः प्रकटितः। क्रीडामन्त्री अवदत् यत् केन्द्रसर्वकारः तेलङ्गानाराज्यसर्वकारश्च संयुक्तरूपेण युवानः क्रीडासु प्रवृत्ताः कर्तुं प्रोत्साहयिष्यतः तथा देशे सुदृढां क्रीडासंस्कृतिं विकसितुं दिशि कार्यं करिष्यतः।
तेलङ्गानाराज्यस्य मुख्यमन्त्री ए. रेवन्तरेड्डी अवदत् यत् खेलो इण्डिया यूथ गेम्स इत्यादीनि आयोजनानि विकसितभारतस्य निर्माणार्थं प्रधानमन्त्रिणः नशामुक्तयुवानः इति परिकल्पनां साकारयितुं सहायकानि सन्ति। एतादृशानि आयोजनानि युवानः मादकद्रव्याणां सेवनात् अन्याभ्यः सामाजिकसमस्याभ्यश्च दूरे स्थित्वा सकारात्मकक्रियाकलापेषु संलग्नाः भवितुं प्रेरयन्ति।
षट्सु नगरेषु २९ क्रीडानां प्रतियोगिताः भविष्यन्ति
खेलो इण्डिया यूथ गेम्स इत्यस्य अष्टमसंस्करणस्य आयोजनं हैदराबादे, खम्ममे, करीमनगरे, हनमकोंडे, महबूबनगरे, निजामाबादे च भविष्यति। प्रतियोगितायां समग्रतया २९ क्रीडाः समाविष्टाः भविष्यन्ति, येषु २७ प्रतिस्पर्धात्मकक्रीडाः द्वे च प्रदर्शनक्रीडे भविष्यतः।
प्रतिस्पर्धात्मकक्रीडासु धनुर्विद्या, धावनक्रीडा, बैडमिण्टनक्रीडा, बास्केटबॉलक्रीडा, मुष्टियुद्धम्, साइकिलचालनम्, असिचालनम्, पादकन्दुकक्रीडा, गतकाक्रीडा, व्यायामक्रीडा, हॉकीक्रीडा, जूडोक्रीडा, कबड्डीक्रीडा, कलरिपयट्टुक्रीडा, खोखोक्रीडा, मल्लखम्बक्रीडा, नौकाचालनम्, लक्ष्यवेधक्रीडा, तरणक्रीडा, सॉफ्टबॉलक्रीडा, टेबलटेनिसक्रीडा, टेनिसक्रीडा, थाङ्गताक्रीडा, वॉलीबॉलक्रीडा, भारोत्तोलनम्, कुश्ती तथा योगासनानि च समाविष्टानि सन्ति।
सॉफ्टबॉलक्रीडा प्रथमवारं खेलो इण्डिया यूथ गेम्स इत्यस्मिन् प्रतिस्पर्धात्मकक्रीडारूपेण समावेशिता अस्ति। अपरतः नौकायनक्रीडा कर्रासामूक्रीडा च प्रथमवारं प्रदर्शनक्रीडासु स्थानं प्राप्तवत्यौ।
प्रतीकचिह्ने तेलङ्गानायाः सांस्कृतिकविरासतायाः क्रीडाभावनायाश्च दर्शनम्
खेलो इण्डिया यूथ गेम्स इत्यस्य प्रतीकचिह्ने तेलङ्गानायाः समृद्धायाः सांस्कृतिकविरासतायाः क्रीडानां प्रति राज्यस्य आकाङ्क्षाणां च अष्टप्रमुखतत्त्वानां माध्यमेन चित्रणं कृतम् अस्ति। अस्मिन् केसरियाहरितवर्णाभ्यां युक्ता धावकाकृतिः खेलो इण्डियायाः प्रतीकरूपेण राष्ट्रियकार्यक्रमस्य, युवशक्तेः, गतिशीलतायाश्च प्रतिनिधित्वं करोति।
बापूघाटे प्रस्तावितस्य गान्धीसरोवरस्य भागभूतः गान्धीस्तम्भः शान्तेः, ऐक्यस्य, हैदराबादनगरस्य भविष्यदृष्टेश्च प्रतीकः अस्ति। काकतीयकलातोरणं राज्यस्य समृद्धां विरासतं स्वागतभावनां च प्रदर्शयति। हुसैनसागरे स्थिता बुद्धप्रतिमा सद्भावस्य, अनुशासनस्य, शान्तेश्च प्रतीकम् अस्ति, यदा तङ्गेडुपुष्पं तेलङ्गानायाः सांस्कृतिकपरिचितिं बथुकम्माउत्सवस्य भावनां च अभिव्यञ्जयति।
प्रतीकचिह्ने क्रीडानां सप्त आकृतयः विरासतसम्बद्धाभिः कलाकृतिभिः सह क्रीडाजगतः विविधतां प्रदर्शयन्ति। तस्य परितः निर्मिताः नीलहरितपीतवर्णानां पट्टिकाः गतिशीलतायाः, ऊर्जायाः, समावेशितायाश्च सन्देशं ददति। अस्य ध्येयवाक्यम् ‘क्रीडायाः उत्साहः, तेलङ्गानायाः प्राणः परिचितिश्च’ इति राज्यस्य परिचितौ क्रीडानां महत्त्वं रेखाङ्कयति।
शुभङ्करः ‘नीलमणिः’ ऊर्जायाः, साहसस्य, आत्मविश्वासस्य च प्रतीकः
खेलो इण्डिया यूथ गेम्स इत्यस्य शुभङ्करस्य नाम ‘नीलमणिः’ इति निर्धारितम् अस्ति। अयं ऊर्जा, चपलता, दृढसङ्कल्पस्य च प्रतीकः अस्ति। शुभङ्करः युवानां क्रीडाभावनायाः, स्वसांस्कृतिकमूलानां प्रति गौरवस्य, सुदृढस्य स्वस्थस्य ऐक्ययुक्तस्य च भारतस्य लक्ष्यस्य प्रतिनिधित्वं करोति।
अस्य शिखरस्य आकारः ऊर्जायाः अग्रे वर्धमानस्य भावस्य च प्रतीकः अस्ति, यदा अस्य नेत्रे एकाग्रतायाः, बुद्धिमत्तायाः, उत्साहस्य च द्योतके स्तः। अस्य चञ्चुः दृढसङ्कल्पस्य नेतृत्वक्षमतायाश्च सन्देशं ददाति। नीलफिरोजवर्णीयानि पक्षाणि जीवन्ततायाः, स्वातन्त्र्यस्य, आत्मविश्वासस्य च प्रतिनिधित्वं कुर्वन्ति। नीलमणेः चत्वारः प्रमुखाः गुणाः जीवन्तता, साहसम्, चपलता, गौरवं च सन्ति, ये खेलो इण्डिया यूथ गेम्स इत्यस्य मूल्यानि आकाङ्क्षाश्च अभिव्यञ्जयन्ति।
कार्यक्रमे तेलङ्गानाराज्यस्य क्रीडायुवकार्यविभागमन्त्री वाकिटि श्रीहरिः, सिञ्चनस्य कमाण्डक्षेत्रविकासस्य च मन्त्री एन. उत्तमकुमाररेड्डी, क्रीडाविषयकः सर्वकारीयः परामर्शदाता तेलङ्गानाराज्यस्य ओलम्पिकसङ्घस्य अध्यक्षः च ए.पी. जितेन्द्ररेड्डी तथा राज्यस्य मुख्यसचिवः सञ्जयजाजू अपि उपस्थिताः आसन्। भारतीयक्रीडाप्राधिकरणस्य महानिदेशकः क्रीडाविभागस्य सचिवश्च हरिरञ्जनरावः सहितं केन्द्रस्य तेलङ्गानाराज्यसर्वकारयोः वरिष्ठाधिकारिणः अपि कार्यक्रमे सहभागितां कृतवन्तः।
Hindusthan Samachar / Dheeraj Maithani