सारणमण्डले सामान्यजनैः सह सांसदः जनार्दनसिंह सिग्रीवालः अपि भगवान् सूर्याय अर्घ्यं समर्पितवान्।
सारणम्, 15 नवंबरमासः (हि.स.)। लोकश्रद्धायाः महापर्वणः छठस्य प्रभावः सम्प्रति सम्पूर्णे देशे विदेशेषु च दृश्यते। चतुर्दिवसीयमस्मिन् महापर्वणि यत्र सामान्यजनाः भगवान् सूर्यस्य आराधनायां निमग्नाः भवन्ति, तत्रैव राजनीतिकक्षेत्रेभ्यः अपि लोकश्रद्धायाः
सारण में आम लोगों की तरह सांसद जनार्दन सिंह सिग्रीवाल ने दिया भगवान भास्कर को दिया अर्घ्य


सारण में आम लोगों की तरह सांसद जनार्दन सिंह सिग्रीवाल ने दिया भगवान भास्कर को दिया अर्घ्य


सारण में आम लोगों की तरह सांसद जनार्दन सिंह सिग्रीवाल ने दिया भगवान भास्कर को दिया अर्घ्य


सारणम्, 15 नवंबरमासः (हि.स.)।

लोकश्रद्धायाः महापर्वणः छठस्य प्रभावः सम्प्रति सम्पूर्णे देशे विदेशेषु च दृश्यते। चतुर्दिवसीयमस्मिन् महापर्वणि यत्र सामान्यजनाः भगवान् सूर्यस्य आराधनायां निमग्नाः भवन्ति, तत्रैव राजनीतिकक्षेत्रेभ्यः अपि लोकश्रद्धायाः विशिष्टाः प्रेरणादायकाः दृश्याः समायान्ति।

अस्मिन्नेव क्रमे महाराजगञ्जलोकसभाक्षेत्रस्य सांसदः जनार्दनसिंह सिग्रीवालः पुनरेकवारं स्वकीयायाः धार्मिकसांस्कृतिकपरम्परायाः परिचयं प्रदर्शयन् लोकश्रद्धायाः अस्य महापर्वणः छठस्य अनुष्ठानं पूर्णश्रद्धया, निष्ठया समर्पणभावेन च निर्वहति। अस्मिन् पावनेऽवसरे तेन अस्तं गच्छते सूर्यदेवाय अर्घ्यं समर्पितम् तथा स्वक्षेत्रस्य सम्पूर्णदेशस्य च सुखशान्तिसमृद्धिस्वास्थ्यकामनया प्रार्थना कृता।

हिन्दुस्थानसमाचारवार्तासंस्थया सह सम्भाषणावसरे सांसदः जनार्दनसिंह सिग्रीवालः स्वजीवनसम्बद्धान् छठमहापर्वस्य अनुभवान् प्रकटितवान्। तेन कथितं यत् सः विगतेषु त्रिंशद्वर्षेषु निरन्तरं नियमितरूपेण च छठव्रतम् आचरति। तस्य कृते अयं पर्वः केवलं धार्मिकानुष्ठानं वा औपचारिकता वा नास्ति, अपितु अनुशासनस्य, आत्मसंयमस्य, पवित्रतायाः तथा प्रकृतौ अखण्डविश्वासस्य सजीवः प्रतीकः अस्ति।

सांसदः सिग्रीवालः सम्भाषणावसरे पुरातनस्मृतीः स्मारयन् अवदत् यत् येन सरलतया निर्मलभावेन च तेन स्वजीवने प्रथमवारं छठपूजा कृता आसीत्, अद्यापि सः तेनैव सरलभावेन अस्य व्रतस्य पालनं करोति। सत्तायाः राजनैतिकपदस्य च प्राप्तेः अनन्तरमपि तस्य जीवने किमपि आडम्बरं न आगतम्।

तेन कथितं यत् प्रतिवर्षमिव अस्मिन् वर्षेऽपि पूर्णतन्मयतया स्वकीयात् पैतृकग्रामात् बनीयापुरप्रखण्डस्य भूमियाराग्रामात् पद्भ्यामेव स्वशिरसि प्रसादपूर्णं दौरा (वेणुनिर्मिता टोकरी) उत्थाप्य पारम्परिकरीत्या नदीतटपर्यन्तं यात्रा कृता। अनन्तरं तेन सायङ्कालीनम् अर्घ्यं समर्पितम् तथा आगामिनि प्रातःकाले प्रातःकालीनम् अर्घ्यं समर्प्य भगवान् सूर्यस्य विधिवत् आराधनां करिष्यति।

सम्भाषणावसरे तेन कथितं यत् सांसदः जनप्रतिनिधिः च भवन्नपि छठमहापर्वणः एतेषु चतुर्षु दिवसेषु सः स्वकीयानि सर्वाणि राजनैतिकशिष्टाचारनियमानि प्रशासनिकसुरक्षाव्यवस्थां च पूर्णतया परित्यजति। सुरक्षायां नियोजितेभ्यः कर्मचारिभ्यः अपि तेन स्पष्टनिर्देशाः प्रदत्ताः भवन्ति यत् एतेषु पावनेषु दिवसेषु ते पूर्णतया शिष्टतया सामान्यनागरिकवत् च व्यवहरेयुः, येन पूजावसरे अन्यस्मै व्रतधारिणे सामान्यजनाय वा कस्यापि प्रकारस्य असुविधा न भवेत्।

घाटं प्राप्ते सः कस्यचित् विशिष्टातिथिवत् न, अपितु ग्रामीणपरिवेशस्य सामान्यस्य समर्पितस्य च व्रतधारिणः भूमिकायां दृश्यते। वर्षेभ्यः प्रचलितानां परम्पराणां निर्वहणं कुर्वन् सः ग्रामीणपरिवेशे पूर्णविधिविधानेन अस्य कठिनव्रतस्य पालनं करोति।

अन्ते तेन कथितं यत् कमपि कठिनव्रतम् अनुशासनेन सम्पादयितुं परिवारेण निर्वह्यमाणा भूमिका महत्त्वपूर्णा भवति। सांसदः सिग्रीवालः अवदत् यत् अस्मिन् व्रते तस्य सम्पूर्णं परिवारः मनसा वचसा कर्मणा च सहकारं करोति। एतदेव न, तस्य परिवारस्य अन्ये सदस्याः अपि अस्मिन् पावने पर्वणि छठव्रतम् आचरन्ति, येन सम्पूर्णे गृहे आध्यात्मिकं वातावरणं निर्मीयते।

ग्रामीणपरिवेशे पारम्परिकसंस्कृत्या च सह स्थित्वा येन प्रकारेण सः विगतेषु त्रिंशद्वर्षेषु अस्य व्रतस्य पालनं कुर्वन् अस्ति, तत् समाजाय महत्त्वपूर्णं सन्देशं प्रददाति।

---------------

Hindusthan Samachar / Dheeraj Maithani