Enter your Email Address to subscribe to our newsletters

समाजस्य उत्थाने पत्रकाराणां महत्त्वपूर्णम् उत्तरदायित्वम् : मन्त्री सुशान्तबोरगोहाँई
पत्रकाराः घटनानां पृष्ठतः विद्यमानां वास्तविकताम् अपि प्रकाशयेयुः : प्रो. अङ्कुरणदत्तः
गुवाहाटी, १६ नवम्बरमासः (हि.स.)। असमस्य सूचनाजनसम्पर्कनिदेशालयस्य तत्त्वावधाने सोमवासरे गुवाहाटीनगरे लोकनिर्माणविभागस्य सम्मेलन-प्रशिक्षणकेन्द्रे राज्यस्तरीयः राष्ट्रियपत्र-कारितादिवसः आचरितः। अस्मिन्नवसरे उत्तरदायित्वपूर्णायाः जनोन्मुखपत्र-कारितायाः आवश्यकता, माध्यमानां परिवर्तमाना भूमिका तथा समाजं प्रति पत्रकाराणाम् उत्तरदायित्वम् इत्यादि-विषयेषु चर्चा कृता।
कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः असमसर्वकारस्य जलसम्पद्विभागस्य न्यायविभागस्य च मन्त्री सुशान्तबोरगोहाँई अवदत् यत् समाजस्य उत्थाने पत्रकाराणां महत्त्वपूर्णम् उत्तरदायित्वम् अस्ति। विश्लेषणात्मिकायाः उत्तरदायित्वपूर्णायाश्च पत्रकारितायाः प्राथमिकतां प्रदानेन समाजस्य सर्वेषां वर्गाणां लाभं भवितुम् अर्हति। सः अवदत् यत् भविष्ये पत्रकारितायाः सम्मुखे आव्हानानि अधिकानि भविष्यन्ति, किन्तु पत्रकाराः स्वकीयानि उत्तरदायित्वानि निष्ठया निर्वहन्तः समाजहिते सकारात्मकां भूमिकां निर्वोढुं शक्नुवन्ति। सः सामान्यजनानां समीपं सफलतायाः कथाः प्रापयितुम् अपि बलं दत्तवान्।
अस्मिन् वर्षे राष्ट्रियपत्रकारितादिवसस्य ‘पत्रकारिता : जनोन्मुखी वा उत्तरदायित्व-पूर्णा’ इति विषयवस्तुम् अधिकृत्य विशेषवक्तृरूपेण गौहाटीविश्व-विद्यालयस्य पत्रकारिताविभागस्य वरिष्ठ-प्राध्यापकः अङ्कुरणदत्तः स्वविचारान् प्रस्तुतवान्। सः अवदत् यत् वैश्विकपरिप्रेक्ष्ये असमस्य समाचारजगत् सुदृढां उन्नतां च स्थितिम् अधिगतम् अस्ति। अस्याः प्रतिष्ठायाः संरक्षणाय समाचारमाध्यमैः सम्बद्धेन प्रत्येकजनेन सजगा उत्तरदायित्वपूर्णा च भूमिका निर्वोढव्या।
भारतीयपत्रकारितायाः इतिहासस्य विभिन्नपक्षान् प्रकाशयन् सः अवदत् यत् विशिष्टेन दृष्टिकोणेन उद्देश्येन च आरब्धा भारतीयपत्रकारिता अनन्तरं व्यावसायिकं स्वरूपम् अधिगतवती। दृष्टिः, ध्येयम्, व्यवसायः, सृजनं च इत्येतेषां विभिन्नचरणानां माध्यमेन गच्छन्ती भारतीयसमाचारमाध्यमानां व्यवस्था अद्यापि परिवर्तनप्रक्रियायां वर्तते। सः अवदत् यत् पत्रकाराः घटनानां केवलं बाह्यपक्षेषु एव सीमिताः न भवेयुः, अपितु तासां पृष्ठतः निगूढां वास्तविकतां कथाश्च अपि जनसमक्षम् आनेयुः।
प्रो. दत्तः माध्यमसाक्षरतायाः विषये बलं दत्त्वा अवदत् यत् पत्रकारैः आत्ममन्थनं कर्तव्यं यत् ते जनभावनाभ्यः अपेक्षया विवेकाय तार्किकतायै च कियत् महत्त्वं प्रयच्छन्ति। सः अवदत् यत् पत्रकारिताक्षेत्रे तीव्रगत्या परिवर्तनानि भवन्ति तथा च वैश्विकस्तरे भारतीयसमाचारपत्राणां विशिष्ट: परिचय: अस्ति। अस्याः परिचय: संरक्षणाय पत्रकारितायाम् उत्तरदायित्वस्य जागरूकतायाश्च आवश्यकता अस्ति।
कार्यक्रमे प्रसिद्धौ पत्रकारौ भूपेनभट्टाचार्यः पद्मापाटरे च अपि स्वविचारान् प्रस्तुतवन्तौ। ताभ्यां माध्यमानां भूमिका, पत्रकारितायाः आव्हानानि, उत्तरदायित्वपूर्णसमाचार-प्रस्तुतेः विभिन्नपक्षाश्च अधिकृत्य विचाराः प्रस्तुताः।
अस्याः पूर्वं सूचना-जनसम्पर्क-मुद्रण-लेखनसामग्रीविभागस्य आयुक्तसचिवः कुमारपद्मपाणिबोरा स्वागतभाषणम् अकरोत्। सूचनाजनसम्पर्कविभागस्य निदेशकः मानवेन्द्रदेवः दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भम् अकरोत्। प्रारम्भे निदेशालयस्य सांस्कृतिकशाखायाः कलाकारैः सामूहिकं सङ्गीतप्रस्तुतिः कृता।
कार्यक्रमे वरिष्ठपत्रकाराः, गणमान्यजनाः, विभिन्नशैक्षणिकसंस्थानानां छात्राः छात्राश्च तथा सूचनाजनसम्पर्कविभागस्य अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan