Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ नवम्बरमास: (हि.स.)। भारतीयजनतापक्षः सन्तरविदासस्य ६५० तम्याः जन्मजयन्तीं राष्ट्रियस्तरे वर्षपर्यन्तं समारोहपूर्वकं आयोजयिष्यति। अस्य कृते काशीतः त्रीणि प्रमुखानि अभियानानि पूर्वमेव प्रारब्धानि सन्ति। एतेषां माध्यमेन पक्षः तस्य जीवनदर्शनं सामाजिक-समरसतायाः सन्देशं च देशस्य प्रत्येकस्मिन् भागे प्रसारयितुम् इच्छति।
भाजपायाः राष्ट्रियः उपाध्यक्षः लालसिंह-आर्यः सोमवासरे पक्षस्य मुख्यालये सञ्चारमाध्यमान् सम्बोधयन् अवदत् यत् सन्तरविदासस्य ६५० तम्याः जन्म-जयन्त्याः भव्यस्तरे आयोजनस्य निर्णयः कृतः अस्ति। अस्य अन्तर्गतं देशे वर्षपर्यन्तं विविधाः कार्यक्रमाः आयोजयिष्यन्ते।
सः अवदत् यत् स्वातन्त्र्यप्राप्तेः अनन्तरं विगतेषु ७८ वर्षेषु सन्तरविदासस्य ६०० तमी तथा ६२५ तमी जन्मजयन्त्यौ आगते, किन्तु तस्मिन् समये तस्य स्मरणार्थं राष्ट्रियस्तरे कश्चन विशेष: प्रयत्न: न कृत:। भाजपादलं सन्तरविदासस्य विचारान्, सामाजिकसमरसतायाः सन्देशं च जनसामान्यं प्रति प्रसारयितुम् उद्दिश्य तस्य ६५० तमीं जन्मजयन्तीं सम्पूर्णवर्षं महोत्सवरूपेण आयोजयति।
सः सूचितवान् यत् अस्मिन् वर्षे २०२६ तमस्य वर्षस्य जुलाईमासस्य २९ दिनाङ्के गुरुपूर्णिमायाः अवसरे काशीतः अस्य अभियानस्य शुभारम्भः कृतः आसीत्। काशीतः पञ्चसु चरणेषु आयोज्यमानेषु कार्यक्रमेषु त्रयाणां प्रमुखकार्यक्रमाणां शुभारम्भः गुरुपूर्णिमायामेव कृतः। सन्तरविदासस्य जन्मजयन्त्युपलक्ष्ये काशीतः त्रयः प्रमुखाः कार्यक्रमाः प्रारब्धाः।
प्रथमः कलशवन्दनयात्रा—अस्य अभि-यानस्य अन्तर्गतं १३१ कलशाः देशस्य विभिन्नराज्येषु उत्तरप्रदेशस्य सर्वेषु जनपदेषु च प्रेषिताः। अस्य माध्यमेन सन्तरविदासस्य सन्देशं तं प्रति श्रद्धाभावं च व्यापकस्तरे प्रसारयितुं प्रयासः क्रियते।
द्वितीयः समरससन्तसम्मानः तथा समरस-सङ्कल्पदीपमहोत्सवः—एतयोः माध्यमेन सन्तपरम्परायाः सम्मानस्य सामाजिक-समरसतायाः सन्देशस्य च प्रसाराय प्रयत्न: कृत: अस्ति।
तृतीयः सन्तसम्पर्काभियानम्—अस्य माध्यमेन सन्तसमाजेन विभिन्नैः धार्मिक-सामाजिकसङ्गठनैश्च सम्पर्कं स्थापयित्वा सन्तरविदासस्य विचारान् योगदानं च व्यापकजनसमुदायं प्रति प्रसारयितुं योजना अस्ति।
भाजपायाः राष्ट्रियः उपाध्यक्षः अवदत् यत् पक्षस्य उद्देश्यम् अस्ति यत् सन्तरविदासस्य जीवनं, दर्शनं सामाजिकसमरसतायाः सन्देशं च देशस्य प्रत्येकस्मिन् भागे प्रसारयेत्। तस्य ६५० तम्याः जन्मजयन्त्याः अवसरे वर्षपर्यन्तम् आयोज्यमानानां कार्यक्रमाणां माध्यमेन सन्तरविदासस्य विचारान् नववंशेन सह सम्बद्धान् कर्तुं समाजे समानतायाः, सद्भावस्य, समरसतायाः च भावनां सुदृढां कर्तुं प्रयासः क्रियते।
Hindusthan Samachar / Divya Ranjan