Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ नवम्बरमास: (हि.स.)। सर्वकारेण नागरिकसमाजस्य, बुद्धि-जीविनां तथा डिजिटल-सामाजिक-माध्यम-मञ्चानां सञ्चालकानां च अद्य आह्वानं कृतम् यत् सामाजिकमाध्यमेषु प्रसारितानां सामग्रीणाम् उत्तरदायित्व-पूर्णतायै तथा जनसूचनानां निवारणाय प्रभावीव्यवस्थायाः निर्माणार्थं कीदृशं प्रारूपं भवेत्, अस्मिन् विषये गहनं विचारमन्थनं कुर्वन्तु। येन सामाजिकमाध्यमानि समाजस्य सुदृढीकरणे योगदानं दद्युः, न तु समाजं दुर्बलं विभाजितं च कुर्युः।
केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवः अद्य राष्ट्रियपत्रकारितादिवसे भारतीयपत्र-कारितापरिषदा नवदिल्ली इत्यत्र आकाशवाणीभवने आयोजिते कार्यक्रमे सम्बोधयन् अवदत् यत् अद्य सामाजिकमाध्यमेषु कस्यापि स्पष्टं उत्तरदायित्वं नास्ति। सामाजिकमाध्यम-मञ्चाः स्वकीयानां सामुदायिकनिर्देशानां नीतिनियमाणां च आधारेण स्वनियमनं कुर्वन्ति, किन्तु प्रश्नः अस्ति यत् किम् एषा व्यवस्था पर्याप्ता अस्ति? नागरिकाणां स्वराय, शिकायतानां निवारणाय तेषां हितानां संरक्षणाय च केवलं स्वनियमनं पर्याप्तम् अस्ति किम्?
‘पत्रकारिता—सनसनी अथवा उत्तर-दायित्वम्’ इति विषये भाषमाणः केन्द्रीयमन्त्री माध्यमानां परिवर्तमानां भूमिकां, प्रौद्योगिक्याः विकासं, सामाजिक-माध्यमानां प्रभावं तथा पत्रकारितायाः उत्तरदायित्वं च विस्तरेण विवेचितवान्। विगतेषु द्वित्रिषु दशकेषु माध्यमक्षेत्रे यानि परिवर्तनानि अभवन्, तेषामपेक्षया अग्रिमैषु पञ्चसु वर्षेषु अधिकानि परिवर्तनानि भविष्यन्तीति सः अवधानं कारितवान्।
सः सामाजिक-डिजिटलमाध्यमयोः सम्मुखीभूतानां समस्यानां चर्चां कुर्वन् अवदत् यत् सामाजिकमाध्यमेषु भ्रामक-विज्ञापनानां, कृत्रिमप्रौद्योगिक्या निर्मितानां मिथ्यासामग्रीणां तथा म्यूचुअल् फण्ड् इत्यादिषु वित्तीयविषयेषु भ्रामक-प्रचारस्य समस्या समुपस्थितास्ति। वित्तमन्त्रालयेन अपि एतादृशानि बहूनि उदाहरणानि प्रस्तुतानि, यानि अस्याः समस्यायाः गम्भीरतां दर्शयन्ति। एतादृशेषु प्रकरणेषु सामाजिकमाध्यममञ्चैः स्वस्य उत्तरदायित्वं निर्वोढव्यम्। सः अवदत् यत् सामाजिकमाध्यमसंस्थाभिः स्वमञ्चेषु उपलब्धायाः सामग्रीविषये सजगाभिः सतर्काभिश्च भवितव्यम्। केवलं सामुदायिकनिर्देशानां निर्माणेन उत्तरदायित्वं न समाप्तं भवति, अपितु तेषां नियमानां प्रभाविरूपेण पालनं भवतीति अपि सुनिश्चितं कर्तव्यम्।
केन्द्रीयमन्त्री डिजिटल्-अरेस्ट् तथा साइबर-वंचनाप्रकरणानाम् उल्लेखं कुर्वन् अवदत् यत् अद्य विशेषतः वरिष्ठनागरिकाः लक्ष्यीकृत्य तेषां बैंकपंजिकाभ्यः धनं छलपूर्वकं अपह्रियते। एतादृशीषु घटनासु सामाजिकमाध्यममञ्चानामपि किञ्चित् उत्तरदायित्वं भवितव्यम्। सः प्रश्नम् अकरोत् यत् स्वमञ्चेषु कीदृशी सामग्री प्रसार्यते तथा तस्याः उपयोगः जनानां वञ्चनाय तु न क्रियते, इति विषये मञ्चैः सजगैः न भवितव्यम् किम्?
वैष्णवः अवदत् यत् एते सर्वे विषयाः सन्ति, येषु अद्य सम्पूर्णे विश्वे समाजस्य, सर्वकाराणां, नागरिकसमाजस्य तथा माध्यमानां मध्ये गम्भीरा चर्चा विमर्शश्च प्रचलति। मन्त्री अवदत् यत् नागरिकाणां सशक्तीकरणम्, तेभ्यः स्वमतप्रकटनस्य अवसरप्रदानम् तथा तेषां सूचनानां निवारणाय प्रभावीमञ्चस्य उपलब्धता च आवश्यकी अस्ति। एतादृशी व्यवस्था निर्मातव्या, येन माध्यमैः सामाजिक-माध्यमैश्च समाजः सुदृढः भवेत्, न तु दुर्बलः। एतदर्थं सर्वैः पक्षैः मिलित्वा चर्चा करणीया तथा सामूहिकदृष्टिकोणः सामान्यसहमति: च निर्मातव्या।
सः एतस्मिन् विषये बलं दत्तवान् यत् माध्यमानां उद्देश्यं केवलं सूचनाप्रसारणं नास्ति, अपितु नागरिकाणां स्वरं भवितुम्, तेषां समस्याणां समाधानाय प्रभाविणी भूमिका निर्वोढुं च अपि अस्ति। अश्विनीवैष्णवः युवपत्रकारेभ्यः तथा माध्यमविद्यार्थिभ्यः अपि भविष्यस्य समस्यानां कृते सज्जाः भवितुम् सन्देशं दत्तवान्। सः अवदत् यत् विगतेषु विंशतिवर्षेषु प्रौद्योगिक्याः, अन्तर्जालस्य तथा समाजस्य परिवर्तनेन माध्यमक्षेत्रे व्यापकं परिवर्तनम् अभवत्, किन्तु अग्रिमेषु पञ्चसु वर्षेषु एतस्मादपि अधिकानि परिवर्तनानि दृश्यन्ते। अग्रिमेषु पञ्चसु वर्षेषु तावन्ति परिवर्तनानि भविष्यन्ति, यावन्ति विगतेषु विंशतिवर्षेष्वपि न अभवन्।
सः अवदत् यत् एतानि परिवर्तनानि युवपत्रकाराणां कृते समस्याभिः सह नवीनावसरान् अपि आनयिष्यन्ति। यः व्यक्तिः एतत् परिवर्तनं तीव्रगत्या परिवर्तमानं जगत् च स्वीकरिष्यति तथा तदनुसारं स्वयम् अनुकूलयिष्यति, सः एव आगामिकाले माध्यमक्षेत्रस्य नेता भविष्यति। युवपत्रकारैः आत्मानं ज्ञातुं, निरन्तरं शिक्षितुं तथा मुक्तमनोभावेन नवीनप्रौद्योगिकीः परिवर्तनानि च स्वीकर्तुं सज्जैः भवितव्यम्। परिवर्तमानकाले नेतृत्वस्य अवसराः तेभ्यः एव प्राप्स्यन्ते, येषु शिक्षितुम् इच्छा सामर्थ्यं च निरन्तरं विद्यते।
पत्रकारस्वातन्त्र्यसूचकाङ्के भारतस्य स्थानविषये टिप्पणीं कुर्वन् केन्द्रीयमन्त्री विनोदपूर्णशैल्या अवदत् यत् यदा अस्मिन् सूचकाङ्के भारतस्य स्थानं १३७ आसीत् तथा भारतात् अफगानिस्तानसदृशाः देशाः अपि उपरि आसन्, तदा वयं सम्बन्धितसंस्थायाः केवलम् एतावदेव अनुरोधं कृतवन्तः यत् सा स्वकीयस्य क्रमाङ्कनस्य पारदर्शकव्यवस्थां तथा क्रमाङ्कनप्रकाशनाय प्रयुक्तां पद्धतिं च अस्माभिः सह सहभागं करोतु। किन्तु तया एतत् न कृतम्।
अस्मिन् अवसरे वरिष्ठपत्रकारः रजतशर्मा मुख्यभाषणे डिजिटलमाध्यमानां समस्यानां विषये बलं दत्त्वा तेषां उत्तरदायित्वपूर्णं करणस्य आवश्यकतायाः उल्लेखं कृतवान्। छात्रान् सम्बोधयन् सः अवदत् यत् विगतेषु १०-१२ वर्षेषु राजनीतेः कार्यशैली परिवर्तिता अस्ति। पूर्ववत् अधुना वार्तानां पूर्वनियोजितप्रसारणं, परस्पर-विवादानां वार्ताः इत्यादयः न प्राप्यन्ते। सर्वकारस्य कार्यप्रणाली अपि परिवर्तिता अस्ति, अतः माध्यमैः अपि स्वकार्यशैली परिवर्तनीया।
रजतशर्मा स्वजीवनस्य अनुभवान् सहभागं कुर्वन् अवदत् यत् सामाजिकमाध्यमानां कोऽपि सम्पादकः नास्ति। अतः माध्यमेषु सनसनी न्यूनीकृत्य उत्तरदायित्वपूर्वकं वार्तानां प्रस्तुतिकरणं अधिकं भवितव्यम्। अस्य विषयस्य गहनतया अवबोधनम् आवश्यकम्। सः अवदत् यत् देशस्य समाजस्य च प्रगतये कोलाहलं न्यूनीकृत्य वार्ताः अधिकाः न्यूनीकृत्य उत्तरदायित्वं च अधिकं कृत्वा कार्यं करणीयम्।
राज्यसभासदस्यः भारतीयपत्रकारिता-परिषदः सदस्यश्च सुधांशुत्रिवेदी माध्यमानां प्रस्तुतिकरणस्य तथ्यात्मकसत्यतायाश्च विषयम् उत्थापितवान्। सः अवदत् यत् कः विषयः कथं प्रस्तूयते, यदि एषा प्रस्तुतिकरणस्य कला ज्ञायते, तर्हि प्रत्येकं कथनं जनैः श्रूयते।
अस्मिन् अवसरे भारतीयपत्रकारिता-परिषदः अध्यक्षा रञ्जनाप्रकाशदेसाई, सूचनाप्रसारणमन्त्रालयस्य सचिवः चञ्चलकुमारः, केन्द्रसर्वकारस्य प्रधान-महानिदेशकः पीआईबी धीरेन्द्रओझा इत्यादयः अनेके अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan