Enter your Email Address to subscribe to our newsletters

१३२ के.वी. गोपालगञ्जोपकेन्द्रस्य पेञ्चजलविद्युत्गृहस्य द्वितीय-एककस्य च मध्ये ब्लैक-स्टार्ट्-मॉकड्रिल सफलतया सम्पन्ना
भोपालम्, १६ नवम्बरमास: (हि.स.)। मध्यप्रदेशस्य ऊर्जाक्षेत्रस्य इतिहासे प्रथमवारम् एकः एतादृशः अवसरः अस्ति, यदा उच्चविभवयुक्तात् उपकेन्द्रात् विद्युत्-जनन-एककं राष्ट्रियविद्युत्-जालस्य आवृत्तेः अनुरूपं समकालिकीकृतम्।
ऊर्जामन्त्री प्रद्युम्नसिंहतोमरः सोमवासरे सूचितवान् यत् प्रदेशस्य विद्युत्पारेषण-व्यवस्थायाः आपत्कालीनसज्जतायाः तथा विद्युत्-जालस्य पुनर्स्थापनक्षमतायाः परीक्षणार्थं मध्यप्रदेशविद्युत्पारेषणनिर्माण्या १३२ के.वी. गोपालगञ्जोपकेन्द्रस्य टीबीसीबी तथा पेञ्चजलविद्युत्गृहस्य द्वितीय-एककस्य समन्वयेन ब्लैक-स्टार्ट्-मॉकड्रिल इत्यस्य सफलम् आयोजनं कृतम्। मध्यप्रदेशक्षेत्रेऽपि एतत् स्वप्रकारस्य प्रथमं प्रयोगम् अस्ति।
एमपी राज्यभारप्रेषणकेन्द्रस्य मुख्या-भियन्ता राजेशगुप्तः अवदत् यत् अस्याः मॉकड्रिल इत्यस्य माध्यमेन विद्युत्-जालस्य पूर्णविच्छेदसदृशासु आपत्का-लीनपरिस्थितिषु पारेषणव्यवस्थायाः सुरक्षितरीत्या तथा क्रमबद्धरूपेण पुनर्स्थापनप्रक्रियायाः परीक्षणं कृतम्। अभ्यासकाले विद्युत्-जालस्य पृथक्क-रणम्, समकालिकीकरणं तथा वोल्टेज्-आवृत्तिनियन्त्रणसम्बद्धाः तान्त्रिकप्रक्रियाः सफलतया परीक्षिताः।
एवं सम्पन्ना प्रक्रिया
मुख्याभियन्ता गुप्तस्य अनुसारं सामान्यतः ब्लैक-स्टार्ट्-मॉकड्रिल इत्यस्मिन् जनित्रस्य पक्षतः एव विद्युत्-व्यवस्थायाः समकालिकीकरणं कृत्वा सम्बन्धितोपकेन्द्रे विद्युत्प्रदायः पुनः स्थाप्यते। किन्तु अस्मिन् अवसरे एमपी ट्रान्स्को संस्थया उपकेन्द्रस्य पक्षतः एव विद्युत्-जनन-एककस्य समकालिकी-करणप्रक्रिया सफलतया सम्पादिता। अस्याः प्रक्रियायाः अन्तर्गतं प्रथमं पेञ्चजलविद्युत्गृहस्य द्वितीय-एककं विद्युत्-जालात् पृथक्कृतम्।
तदनन्तरं पूर्वनिर्धारितकार्ययोजनानुसारं गोपालगञ्जोपकेन्द्रे स्थापितायाः बे-कण्ट्रोल-एककस्य आन्तरिकविशेषतायाः साहाय्येन पेञ्चजलविद्युत्गृहस्य द्वितीय-एककस्य बस-पर्यन्तं विद्युत्प्रदायः प्रापितः। ततः विद्युत्-जनन-एककस्य सम-कालिकीकरणं कृतम्। अस्यां सम्पूर्ण-प्रक्रियायां उपकेन्द्रस्तरात् विद्युत्प्रदायं प्रदातुं तथा विद्युत्-जनन-एककं समकालिकीकर्तुं तान्त्रिक-क्षमतायाः प्रदर्शनं जातम्।
किं नाम ब्लैक-स्टार्ट्-मॉकड्रिल?
मुख्याभियन्ता अवदत् यत् ब्लैक-स्टार्ट्-मॉकड्रिल इति तान्त्रिकाभ्यासः अस्ति। अस्मिन् अभ्यासे परीक्षणं क्रियते यत् यदि केनापि कारणेन सम्पूर्णं विद्युत्-जालं निष्क्रियं भवेत्, तर्हि बाह्यविद्युत्प्रदायं विना विद्युत्गृहं कथं प्रारम्भयितुं शक्यते तथा चरणबद्धरीत्या विद्युत्-व्यवस्था कथं पुनः स्थापयितुं शक्यते। अस्मात् अभ्यासात् आपत्कालीनपरिस्थितिषु विद्युत्-जालस्य पुनर्स्थापनाय प्रयुज्यमानानां तान्त्रिक-प्रक्रियाणां व्यावहारिकं परीक्षणं भवति।
गुप्तः सूचितवान् यत् मॉकड्रिल-अभ्यासकाले ३३ के.वी. क्षमतायुक्तेषु त्रिषु फीडरेषु प्रायः एकघण्टापर्यन्तं अस्थायी-रूपेण विद्युत्प्रदायः बाधितः आसीत्। अनेन विद्युत्-व्यवस्थायाः पुनर्स्थापनस्य विभिन्नचरणानां वास्तविकपरिस्थितिषु परीक्षणं कर्तुं शक्यम् अभवत्। सम्पूर्णप्रक्रियायाः अवधौ जबलपुरस्थितस्य राज्यभारप्रेषणकेन्द्रस्य, क्षेत्रीयकर्मचारिणां तथा सम्बन्धितनियन्त्रणकक्षाणां च मध्ये समन्वयः स्थापितः आसीत्। सर्वेषां निर्धारितसुरक्षामानकानां पालनं कुर्वन् अभ्यासः सम्पन्नः।
Hindusthan Samachar / Divya Ranjan