Enter your Email Address to subscribe to our newsletters








मनीला, १६ नवम्बरमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी २३ तमस्य आसियान-भारतशिखरसम्मेलनस्य तथा २१ तमस्य पूर्वी एशियाशिखरसम्मेलनस्य च सहभागितायै त्रिदिवसीययात्रायां सोमवासरे फिलीपींसदेशस्य राजधानीं मनीलानगरं प्राप्तवान्। मनीलायाः अन्ताराष्ट्रियविमानपत्तने फिलीपींसदेशस्य सूचनासञ्चार-प्रौद्योगिकीविभागस्य सचिवः रॉबर्ट जोसेफ ‘जय’ मोंटेस डी क्लारो इत्यनेन तस्य स्वागतं कृतम्। अस्मिन्नवसरे भारतीय-समुदायस्य जनाः ‘वन्दे मातरम्’ इति घोषान् कृत्वा प्रधानमन्त्री स्वागतम् अकुर्वन्। बालकैः संस्कृतमन्त्राणाम् उच्चारणं कृतम् तथा सांस्कृतिक-कार्यक्रमाः अपि प्रस्तुताः।
विमानपत्तने प्रधानमन्त्री गार्ड् ऑफ् ऑनर् इति सम्मानः प्रदत्तः। सः तत्र उपस्थितैः भारतीयसमुदायस्य जनैः सह मिलित्वा तेषामभिवादनं स्वीकृतवान्। विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयसवालः ‘एक्स’ इति सामाजिकमाध्यमे सन्देशं प्रकाश्य प्रधानमन्त्री मनीलानगरं प्राप्तवान् इति सूचितवान्। सः अवदत् यत् एषा यात्रा भारतस्य ‘एक्ट ईस्ट’ नीत्याः हिन्द-प्रशान्तदृष्टिकोणस्य च प्रमुखाधाररूपेण आसियानेन सह भारतस्य सहभागितां पुनः पुष्णाति।
फिलीपींसदेशस्य राष्ट्रपतेः फर्डिनेंड आर. मार्कोस जूनियर इत्यस्य निमन्त्रणेन अत्र प्राप्तः प्रधानमन्त्री मोदी १६ तः १८ नवम्बरपर्यन्तं फिलीपींसदेशे स्थास्यति। १७ नवम्बरदिनाङ्के आयोज्यमानयोः उभयोः शिखरसम्मेलनयोः भारत-आसियान-देशयोः मध्ये व्यापकसामरिक-प्रगतेः समीक्षा भविष्यति। तदतिरिक्तं क्षेत्रीयवैश्विकविषयेषु अपि चर्चा भविष्यति।
मनीलानगरे आयोज्यमानेषु एतेषु सम्मेलनेषु आसियानस्य ११ सदस्यदेशानां नेतारः तथा संवादसहभाडदेशानां प्रतिनिधयः सहभागितां कुर्वन्ति। अस्मिन् वर्षे आसियानस्य अध्यक्षता फिलीपींस-देशस्य समीपे अस्ति तथा सम्मेलनस्य आतिथ्यं राष्ट्रपतिः फर्डिनेंड मार्कोस जूनियर निर्वहति। सम्मेलनस्य विषयः ‘नेविगेटिंग आवर फ्यूचर, टुगेदर’ इति निर्धारितः अस्ति। १७ नवम्बरदिनाङ्के आसियान-भारतशिखरसम्मेलनस्य तथा पूर्वी एशियाशिखरसम्मेलनस्य अतिरिक्तम् आसियान-अमेरिकाविशेषशिखर-सम्मेलनमपि प्रस्तावितम् अस्ति। सम्मेलनावसरे विभिन्नदेशानां नेतॄणां द्विपक्षीयोपवेशनानि अपि भविष्यन्ति।
एतेषु उपवेशनेषु समुद्रीसुरक्षा, क्षेत्रीय-स्थिरता, व्यापारः, सम्पर्कव्यवस्था, आपूर्ति-शृङ्खला, हिन्द-प्रशान्तक्षेत्रे सहयोगः तथा क्षेत्रीयविवादाः इत्यादयः विषयाः चर्चायाः केन्द्रे भविष्यन्ति इति सम्भावना अस्ति। म्यांमारदेशे प्रचलितः सङ्घर्षः तथा दक्षिण-पूर्व-एशियाक्षेत्रे सम्बद्धाः अन्ये विवादाः अपि विचारविमर्शस्य विषयाः भवितुम् अर्हन्ति। भारत-आसियानयोः मध्ये व्यापारसन्तुलनं तथा वर्तमानव्यापारसन्धिभि: समीक्षा अपि महत्त्वपूर्णाः विषयाः भविष्यन्ति।
आसियानसङ्घे इण्डोनेशिया, फिलीपींस, मलेशिया, सिंगापुर, ब्रुनेई, थाईलैण्ड, वियतनाम, म्यांमार, लाओस, कम्बोडिया तथा तिमोर-लेस्ते इत्येते देशाः सम्मिलिताः सन्ति। सदस्यदेशानां पक्षतः फिलीपींस-देशस्य राष्ट्रपतिः मार्कोसः, ब्रुनेईदेशस्य सुल्तानः हसनल बोल्कियाहः, इण्डोनेशियादेशस्य राष्ट्रपतिः प्रबोवो सुबियान्तो, लाओसदेशस्य प्रधानमन्त्री सलेउमसाइ कोम्मासिथः, मलेशियादेशस्य प्रधानमन्त्री अनवर इब्राहिमः, सिंगापुरदेशस्य प्रधानमन्त्री लॉरेन्स वोंगः, थाईलैण्डदेशस्य प्रधानमन्त्री अनुतिन चार्नविराकुलः, तिमोर-लेस्तेदेशस्य प्रधानमन्त्री के राला शनाना गुस्माओ तथा वियतनामदेशस्य प्रधानमन्त्री ले मिन्ह हुंगः सम्मेलने सहभागितां कुर्वन्ति। कम्बोडियादेशस्य प्रतिनिधित्वं उपप्रधानमन्त्री हैंग चुओन नारोनः करिष्यति। म्यांमारदेशस्य प्रतिनिधित्वं तस्य विदेशमन्त्रालयस्य आसियान-विषयकविभागस्य महानिदेशकः यू हान विन ऑन्गः करिष्यति।
आसियानस्य संवादसहभागदेशानां तथा विशेषातिथिनां मध्ये अमेरिका, चीन, जापान, ऑस्ट्रेलिया, दक्षिणकोरिया, रूस, कनाडा तथा ब्राजीलदेशानां प्रतिनिधयः सम्मिलिताः भविष्यन्ति। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः १७ नवम्बर-दिनाङ्के आसियान-अमेरिकाविशेष-शिखरसम्मेलने सहभागितां करिष्यति। ऑस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थनी अल्बानीजः, चीनदेशस्य प्रधानमन्त्री ली कियाङः, जापानदेशस्य प्रधानमन्त्री सानाए ताकाइची, दक्षिणकोरियादेशस्य राष्ट्रपतिः ली जे म्युंगः, रूसदेशस्य विदेशमन्त्री सर्गेई लावरोवः, कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी, ब्राजीलदेशस्य राष्ट्रपतिः लुइज इनासियो लूला दा सिल्वा, संयुक्तराष्ट्र-सङ्घस्य महासचिवः एण्टोनियो गुटेरेसः तथा अन्ताराष्ट्रियमुद्राकोषस्य प्रबन्ध-निदेशिका क्रिस्टालिना जॉर्जिएवा च अपि सम्मेलने भागं गृह्णन्ति। न्यूजीलैण्डदेशस्य प्रतिनिधित्वं मुख्यतः विदेशमन्त्री विंस्टन पीटर्सः करिष्यति।
मोदीमहोदयस्य यात्रायाः समये १६ नवम्बरदिनाङ्के फिलीपींसदेशस्य राष्ट्रपतिना मार्कोसेन तथा प्रथममहिलया लुईस अरानेटा-मार्कोसेन च अतिथि-नेतृभ्यः रात्रिभोजस्य आयोजनं कृतम् अस्ति। १७ नवम्बरदिनाङ्के प्रधानमन्त्री उभयोः शिखरसम्मेलनयोः सहभागितां करिष्यति। एतेषाम् उपवेशनानां मध्ये अन्यैः नेतृभिः सह द्विपक्षीयवार्ताः अपि प्रस्ताविताः सन्ति। आतिथेयराष्ट्रपतिना मार्कोसेन सह तस्य मिलनस्य सम्भावना अपि अस्ति।
तदतिरिक्तं क्वाड् (चतुष्पक्षीयसुरक्षासंवादः) इत्यस्य सदस्यदेशानां भारत-अमेरिका-ऑस्ट्रेलिया-जापानदेशानां नेतॄणां सभायां मङ्गलवासरे मनीलानगरे आसियाना-शिखरसम्मेलनस्य पार्श्वे भवितुम् अर्हति। अस्यां सभायां राष्ट्रपतिः डोनाल्ड ट्रम्पः, ऑस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थनी अल्बानीजः तथा जापानदेशस्य प्रधानमन्त्री सानाए ताकाइची उपस्थिताः भवितुम् अर्हन्ति। प्रथमवारं क्वाड्-सङ्घस्य चतुर्षु सदस्यदेशेषु अन्यस्मिन् देशे अस्याः सभायाः आयोजनं भविष्यति।
क्वाड्देशानां शीर्षनेतॄणां विगता सभा २१ सेप्टेम्बर २०२४ दिनाङ्के अमेरिकादेशस्य विलमिंग्टननगरे अभवत्।
आसियान-भारतशिखरसम्मेलने उभयोः पक्षयोः मध्ये व्यापकसामरिकसाझेदार्याः कार्यान्वयने प्राप्तायाः प्रगतेः समीक्षा भविष्यति। अस्मिन् आसियान-भारत-कार्ययोजना २०२६-२०३० अपि समाविष्टा अस्ति। वर्ष २०२६ तमं भारत-आसियानदेशाभ्यां समुद्रीसहयोगवर्षरूपेण आचरितुं निर्णयः कृतः अस्ति। वर्ष २०२७ तमे उभयोः मध्ये संवादसहभागिताया: ३५ वर्षाणि तथा व्यापकसामरिक-सहभागिताया: पञ्च वर्षाणि पूर्णानि भविष्यन्ति।
भारत-आसियानदेशयोः मध्ये द्विपक्षीय-व्यापारः प्रायः १२२ अरबडॉलरपरिमितः अस्ति। आसियानसङ्घः भारतस्य प्रमुख-व्यापारसहभागितासु अन्यतमः अस्ति। सम्मेलनस्य पार्श्वे प्रधानमन्त्री विभिन्नदेशानां राष्ट्राध्यक्षैः शीर्षनेतृभिश्च सह द्विपक्षीयोपवेशनानि अपि करिष्यति इति प्रस्तावितम् अस्ति। एतेषु परस्परहितसम्बद्धेषु विषयेषु सहयोगस्य नवीनावसरेषु च चर्चा भविष्यति इति अपेक्षा अस्ति।
प्रधानमन्त्रिणा फिलीपींसदेशं प्रति प्रस्थानात् पूर्वं स्वकीयवक्तव्ये उक्तम् आसीत् यत् आसियानदेशैः सह भारतस्य सम्बन्धाः तस्य ‘एक्ट ईस्ट’ नीत्याः केन्द्रे सन्ति तथा महासागरदृष्टिकोणे एतेषां महत्त्वपूर्णं स्थानम् अस्ति। शताब्देभ्यः प्रचलितस्य सभ्यतागतस्य आदानप्रदानस्य आधारेण भारत-आसियानयोः सम्बन्धाः अद्य व्यापारः, सम्पर्कव्यवस्था, समुद्री-सुरक्षा, प्रौद्योगिकी तथा जनसम्बन्धाः इत्यादिषु विविधक्षेत्रेषु विस्तृतायाः गतिशीलसहभागिताया: रूपेण विकसिताः सन्ति।
सः उक्तवान् आसीत् यत् आसियान-भारतशिखरसम्मेलने व्यापकसामरिक-सहभागिताया प्रगतिं अग्रे नेतुं तथा विकासस्य, सम्पर्कव्यवस्थायाः, समृद्धेः च सामूहिकलक्ष्येभ्यः नवीनां गतिं प्रदातुं अन्यैः सदस्यदेशानां नेतृभिः सह कार्यं कर्तुं सः उत्सुकः अस्ति। पूर्वी एशिया-शिखरसम्मेलनं सः क्षेत्रीयवैश्विक-समस्यानां विषये संवादस्य महत्त्वपूर्णं मञ्चम् इति वर्णितवान् आसीत्। हिन्द-प्रशान्तक्षेत्रे शान्तेः, स्थिरतायाः, सहयोगस्य च सुदृढीकरणाय नेतृभिः सह विचार-विनिमयस्य अपेक्षाम् अपि सः प्रकटितवान् आसीत्।
प्रधानमन्त्री फिलीपींसदेशे निवसद्भिः भारतीयसमुदायस्य सदस्यैः सह वार्तालापं कर्तुम् अपि उत्सुकतां प्रकटितवान् आसीत्। सः उक्तवान् आसीत् यत् भारतीय-समुदायस्य योगदानं देशद्वयस्य मैत्रीपूर्णसम्बन्धान् सुदृढान् करोति। एषा यात्रा आसियानेन सह भारतस्य सहभागितायै नवीनाम् ऊर्जां प्रदास्यति तथा शान्तिपूर्णस्य, समृद्धस्य, सुदृढस्य च हिन्द-प्रशान्तक्षेत्रस्य निर्माणे सामूहिकां प्रतिबद्धतां सुदृढां करिष्यति।
Hindusthan Samachar / Divya Ranjan