Enter your Email Address to subscribe to our newsletters


नवदिल्ली, १६ नवम्बरमास: (हि.स.)। डाकविभागेन जैवगैसप्रौद्योगिक्याः नवीकरणीयऊर्जायाश्च क्षेत्रे महत्त्वपूर्णं योगदानं प्रदत्तवतः अग्रणीवैज्ञानिकस्य रामबक्ससिंहस्य (१९२५-२०१६) सम्मानार्थं स्मारकं डाकचिटिकां निर्गतम्। नवम्बरमासस्य १३ दिनाङ्के नवदिल्ली इत्यत्र आयोजितस्य कार्यक्रमस्य अवसरे एतत् डाकचिटिका विमोचिता।
केन्द्रीयसामाजिकन्यायसशक्तिकरणराज्यमन्त्री रामदास आठवले तथा दिल्ली-परिमण्डलस्य मुख्यः पोस्टमास्टर-जनरलः कर्नल अखिलेशकुमारपाण्डेयः मन्त्रिणः आवासे आयोजिते कार्यक्रमे संयुक्तरूपेण डाकचिटिकाया: विमोचनं कृतवन्तौ। अस्मिन्नवसरे अन्ये वरिष्ठाः गणमान्यव्यक्तयः अपि उपस्थिताः आसन्।
रामबक्ससिंहेन विशेषतः ग्रामीण-समुदायानां कृते स्थायी-ऊर्जा-समाधानरूपेण जैवगैसप्रौद्योगिक्याः विकासे प्रसारे च महत्त्वपूर्णं योगदानं प्रदत्तम्। तेन १९५७ तमे वर्षे उत्तरप्रदेशस्य सीतापुरे देशस्य प्रारम्भिकेषु सफलगोबर-गैससंयन्त्रेषु अन्यतमस्य उद्घाटनं कृतम् आसीत्। अनन्तरं तेन उत्तरप्रदेशस्य अजीतमलनगरे एशियायाः प्रथमस्य गोबरगैस-अनु-सन्धानकेन्द्रस्य प्रभारीपदाधिकारीरूपेण १६ वर्षाणि यावत् कार्यं कृतम्। तेन १५ तः अधिकेषु देशेषु नवीकरणीयऊर्जासम्बद्धासु योजनासु अपि योगदानं प्रदत्तम्।
तस्य कार्याणि अन्ताराष्ट्रियस्तरे अपि मान्यतां प्राप्तवन्ति। १९७५ तमस्य वर्षस्य अमेरिकीसीनेटस्य प्रतिवेदने तथा ‘मदर अर्थ न्यूज’ इत्यादिषु प्रकाशनेषु तस्य कार्याणाम् उल्लेखः कृतः। तेन जैवगैसप्रौद्योगिक्याः विषये अनेकानि पुस्तकानि अपि लिखितानि। तस्य ‘बायोगैस प्लाण्टः : जेनेरेटिङ्ग मीथेन फ्रॉम ऑर्गेनिक वेस्ट्स’ इति पुस्तकम् अमेरिकीयकाङ्ग्रेसपुस्तकालयस्य सूचीमध्ये समाविष्टम् अस्ति।
तस्य शोधपत्राणि व्यावसायिकाभिलेखाश्च २०२३ तमस्य वर्षस्य सेप्टेम्बरमासे राष्ट्रियाभिलेखागारेण स्वकीयसङ्ग्रहे समाविष्टानि। एतेषां तथ्यानां ‘अभिलेख-पटल’ इति पटलस्य माध्यमेन अङ्कीयकरणं कृतम् अस्ति। तस्य योगदानस्य उल्लेखः राष्ट्रियशैक्षिकानु-सन्धानप्रशिक्षणपरिषदः पाठ्यपुस्तकेषु अपि कृतः अस्ति।
डाकविभागस्य अनुसारं स्मारकडाक-चिटिकाया: माध्यमेन रामबक्ससिंहस्य वैज्ञानिकानुसन्धानस्य, नवीकरणीय-ऊर्जायाः ग्रामीणविकासस्य च क्षेत्रेषु योगदानं सम्मानितम् अस्ति।
Hindusthan Samachar / Divya Ranjan