जयशाहः द्वितीयवारमपि निर्विरोधेन अन्तरराष्ट्रीयक्रिकेटपरिषदः अध्यक्षरूपेण नियुक्तः, परिषदः विश्वासं प्रकटितवती।
नवदिल्ली, 16 नवंबरमासः (हि.स.)।अन्ताराष्ट्रियक्रिकेटपरिषदा जयशाहं निरन्तरं द्वितीयवारं स्वस्य अध्यक्षरूपेण नियुक्तवती। बालीनगरे सम्पन्नासु आईसीसीमण्डलस्य उपवेशनमालासु निदेशकानां प्रस्तावानन्तरं शाहः निर्विरोधेन द्वितीयकार्यकालाय निर्वाचितः। अस्मात्
आईसीसी लोगो


नवदिल्ली, 16 नवंबरमासः (हि.स.)।अन्ताराष्ट्रियक्रिकेटपरिषदा जयशाहं निरन्तरं द्वितीयवारं स्वस्य अध्यक्षरूपेण नियुक्तवती। बालीनगरे सम्पन्नासु आईसीसीमण्डलस्य उपवेशनमालासु निदेशकानां प्रस्तावानन्तरं शाहः निर्विरोधेन द्वितीयकार्यकालाय निर्वाचितः। अस्मात् निर्णयात् वैश्विकक्रिकेटस्य नेतृत्वे निरन्तरता स्थास्यति।

आईसीसीमण्डलस्य अयं निर्णयः शाहस्य नेतृत्वे तस्य विश्वासं प्रदर्शयति। क्रिकेटस्य वैश्विकविस्तारस्य, प्रशंसकानां सङ्ख्यावर्धनस्य तथा व्यावसायिकविकासस्य दृष्ट्या एषः क्रीडायाः कृते महत्त्वपूर्णः कालः अस्ति। क्रिकेटक्रीडा लॉस एञ्जिलिस ओलम्पिक २०२८ मध्ये पुनरागमनाय सज्जतां करोति। एतदतिरिक्तम् आईसीसी संस्थया प्रतियोगितानां दीर्घकालिककार्यक्रमस्य विस्तारः अपि घोषितः, येन अधिकेभ्यः क्रीडकेभ्यः सहभागितायाः विकासस्य च अवसराः प्राप्स्यन्ते।

मण्डलेन क्रिकेटस्य आधारभूतसंरचनां सुदृढीकर्तुं, महिला क्रिकेटस्य विकासाय समर्थनं प्रदातुं, सहयोगिसदस्यानां कृते अवसरान् वर्धयितुं, अन्तरराष्ट्रीयक्रिकेटस्य विश्वसनीयतां संरक्षितुं तथा क्रीडायाः दीर्घकालिकभविष्याय स्थायीन् व्यावसायिकावसरान् विकसितुं स्वकीयां प्रतिबद्धताम् अपि पुनरुक्तम्।

द्वितीयकार्यकालाय नियुक्तौ जयशाहः आईसीसीमाध्यमेन अवदत्, “आईसीसीमण्डलेन मयि यः विश्वासः प्रकटितः, तेन अहम् अत्यन्तं सम्मानितः अनुभवामि। सर्वेषां निदेशकानां निरन्तरविश्वासाय समर्थनाय च अहं हृदयतः कृतज्ञतां प्रकटयामि। आईसीसी अध्यक्षरूपेण कार्यं कर्तुं मम कृते सम्मानस्य सहैव महत्तरं दायित्वमपि अस्ति। विश्वस्य सर्वेषु भागेषु क्रिकेटक्रीडायाः हितानि संवर्धयितुं सदस्यैः सह मिलित्वा कार्यं कर्तुं अहं प्रतिबद्धः अस्मि।”

तेन उक्तम्, “वयं क्रीडायाः इतिहासस्य अत्यन्तं महत्त्वपूर्णे रोमाञ्चकसमये च प्रविशामः। लॉस एञ्जिलिस ओलम्पिक २०२८ मध्ये क्रिकेटस्य पुनरागमनम् अस्माकं क्रीडां नूतनेभ्यः दर्शकेभ्यः परिचाययितुं तथा क्रीडकानां प्रशंसकानां च नवीनसन्ततिं प्रेरयितुं असाधारणः अवसरः अस्ति।”

शाहः अवदत्, “अस्माकं दायित्वं केवलं सफलप्रतियोगितानाम् आयोजनपर्यन्तं सीमितं नास्ति। प्रशंसकानां, क्रीडकानां, व्यावसायिकसाझेदारानां तथा अन्येषां प्रमुखहितधारकाणां विचारं कृत्वा क्रीडायाः कृते अधिकं सुदृढं स्थायि च भविष्यं निर्मातव्यम्। मम मतं सदैव अस्ति यत् जनान् एकत्र आनेतुं क्षमता एव क्रिकेटस्य सर्वश्रेष्ठं सामर्थ्यम् अस्ति। मण्डलस्य सदस्यैः च प्रदत्तस्य समर्थनस्य आधारेण अस्माकं ध्यानं महत्त्वाकाङ्क्षाणां ठोसकार्यरूपेण परिणमने तथा एतादृशीं प्रगतिं सुनिश्चितकर्तुं भविष्यति, यस्याः लाभः आगामिसन्ततयः अपि प्राप्नुयुः।”

इङ्ग्लैण्ड-वेल्सक्रिकेटमण्डलस्य अध्यक्षः रिचर्डथॉम्पसनः शाहस्य पुनर्नियुक्तौ अभिनन्दनं कुर्वन् अवदत्, “जयस्य नेतृत्वं तस्मिन् समये निरन्तरं भविष्यति, यदा अन्तरराष्ट्रीयक्रिकेटम् एकस्मिन् महत्त्वपूर्णे चरणे अस्ति। क्रीडा शीघ्रतया परिवर्तते। अतः अन्तरराष्ट्रीयकार्यक्रमं सुदृढं कर्तुं, द्विपक्षीयक्रिकेटस्य प्रासङ्गिकतां प्रतिस्पर्धात्मकतां च संरक्षितुं तथा बृहत्यः प्रतियोगिताः क्रीडायाः भविष्यस्य केन्द्रे स्थापयितुं आवश्यकम् अस्ति।”

तेन उक्तम्, “आगामिषु वर्षेषु क्रिकेटस्य परम्पराणाम्, नवाचारस्य, नवीनदर्शकानां तथा परिवर्तमानव्यावसायिकपरिदृश्येन प्राप्तानाम् अवसराणां च मध्ये सन्तुलनं स्थापयितुं महत्त्वपूर्णं भविष्यति। अन्ताराष्ट्रियक्रिकेटस्य भविष्यस्य दिशानिर्धारणाय तथा तस्य स्थायित्वं सुनिश्चित्य सदस्यसमूहान् एकत्र आनेतुं आईसीसी संस्थायाः भूमिका महत्त्वपूर्णा अस्ति। जयशाहं पुनर्नियुक्तौ अभिनन्दयामि तथा क्रीडायाः अस्मिन् महत्त्वपूर्णे आगामीचरणे तेन अन्यैः सदस्यैः च सह कार्यं कर्तुम् उत्सुकः अस्मि।”

आईसीसी संस्थायाः स्वतन्त्रनिदेशिका डॉ. रॉसरिवाजः अवदत्, “आईसीसी अध्यक्षरूपेण पुनर्नियुक्तौ जयशाहं अभिनन्दयामि। तस्य नेतृत्वं महिला क्रिकेटस्य विकासं अधिकं सुदृढीकर्तुं तथा आईसीसी संस्थायाः दीर्घकालिकदृष्टिकोणस्य केन्द्रीयभागरूपेण स्थापयितुं महत्त्वपूर्णम् अवसरं प्रदास्यति।”

सा उक्तवती, “महिला क्रिकेटं विश्वस्य विभिन्नेषु भागेषु निरन्तरं लोकप्रियतां प्राप्नोति, किन्तु येषां क्रीडिकानां क्रीडावसराः बाधिताः अभवन्, तासां प्रति अस्माकं दायित्वम् अपि अवगन्तव्यम्। जयस्य नेतृत्वे सर्वेषु क्षेत्रेषु महिला क्रिकेटक्रीडिकाभ्यः समर्थनं प्रदातुं क्रियमाणाः प्रयासाः अपि प्रशंसनीयाः सन्ति। अस्याः प्रतिबद्धतायाः अग्रे संवर्धनं तथा महिलानां कृते क्रीडाक्षेत्रे निरन्तरं सम्बद्धाः भवितुं प्रतियोगितासु भागं ग्रहीतुं च नवीनमार्गाणां निर्माणम् आवश्यकम् अस्ति।”

आईसीसी संस्थायाः उपाध्यक्षः जिम्बाब्वेक्रिकेटस्य अध्यक्षः च तवेंग्वामुकुहलानी अवदत्, “जयेन सुदृढं नेतृत्वसामर्थ्यं प्रदर्शितम् तथा क्रिकेटस्य भविष्याय सामूहिकदृष्टिकोणस्य आधारेण सर्वान् सदस्यगणान् एकत्र आनेतुं स्पष्टा प्रतिबद्धता दर्शिता। तस्य दृष्टिकोणः अस्य तथ्यस्य स्वीकरणं करोति यत् अस्माकं क्रीडायाः सामर्थ्यं सर्वेषां सदस्याणां सामूहिकयोगदाने निहितम् अस्ति। आईसीसी संस्थायाः निर्णयाः वैश्विकक्रिकेटस्य हिताय एव भवेयुः। तेन उक्तम्, “अफ्रीकादेशस्य सदस्यरूपेण अहम् आगामिनः अवसरान् प्रति विशेषरूपेण उत्साहितः अस्मि। २०२७ तमे वर्षे आयोज्यमानः आईसीसी पुरुषक्रिकेटविश्वचषकः अस्मिन् महाद्वीपे नवीनदर्शकेभ्यः क्रीडायाः परिचयं कारयिष्यति। एषः अफ्रीकादेशस्य क्रिकेटक्रीडायाः कृते महत्त्वपूर्णः अवसरः अस्ति, यः अस्मिन् क्षेत्रे क्रीडायाः विकासे दीर्घकालीनं प्रभावं जनयितुं शक्नोति।”

न्यूजीलैण्डक्रिकेटस्य निदेशकः रोजरट्वोसः अवदत्, “जयस्य पुनर्नियुक्तिः अन्ताराष्ट्रियक्रिकेटस्य कृते महत्त्वपूर्णे समये निरन्तरतां नेतृत्वं च प्रदास्यति। क्रीडायाः भविष्यं अस्मिन् विषये निर्भरं भविष्यति यत् सदस्याः सामूहिकरूपेण कियत् कार्यं कुर्वन्ति, अन्ताराष्ट्रियक्रिकेटं कियत् सुदृढं कुर्वन्ति तथा सर्वेषु प्रारूपेषु विपणनक्षेत्रेषु च क्रीडायाः लोकप्रियतां कथं संरक्षन्ति।”

तेन उक्तम्, “न्यूजीलैण्डदेशः सदैव सुदृढायाः स्थायिन्याश्च अन्तरराष्ट्रीयक्रिकेटव्यवस्थायाः महत्त्वम् अवगच्छति। लॉस एञ्जिलिस ओलम्पिक २०२८ मध्ये क्रिकेटस्य पुनरागमनम् सहिताः आगामिनः बृहत्यः प्रतियोगिताः दृष्ट्वा अस्माभिः क्रीडायाः वैश्विकविकासस्य गतिः अग्रे नेतव्या तथा क्रिकेटं विशिष्टं कुर्वन्ति ताः परम्पराः विशेषताश्च संरक्षितव्याः।”

आईसीसी संस्थायाः सहयोगिसदस्यानां अध्यक्षः गुरुमूर्तिपलानी अवदत्, “क्रिकेटं वास्तवतः वैश्विकक्रीडां कर्तुं विकासस्य प्रत्येकस्मिन् चरणे सदस्येभ्यः सार्थकाः अवसराः प्रदातव्याः। सहयोगिसदस्यानां कृते अस्य अर्थः उच्चस्तरीयप्रतियोगितासु उत्तमप्रवेशः, विकासस्य सुदृढमार्गाः तथा स्थायिक्रिकेटसंरचनानां निर्माणाय आवश्यकनिवेशः इति अस्ति। अहं जयशाहं तस्य नूतनकार्यकालाय अभिनन्दयामि तथा तेन मण्डलस्य अन्यैः सदस्यैः च सह मिलित्वा क्रिकेटस्य वैश्विकविस्तारं सर्वेषां सदस्याणां कृते वास्तविकावसरेषु परिणंतुं कार्यं करिष्यामि इति आशासे।”

---------------

Hindusthan Samachar / Dheeraj Maithani