Enter your Email Address to subscribe to our newsletters

देहरादूनम्, १६ नवम्बरमास: (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् उत्तराखण्डस्य युवानः अवसरं प्राप्य विश्वस्य कस्मिन्नपि मञ्चे स्वप्रतिभायाः सामर्थ्यं प्रदर्शयितुं शक्नुवन्ति। कौशलस्य प्रतिभायाश्च बलेन प्रदेशस्य युवानः वैश्विकस्तरे स्वकीयं परिचयं निर्मान्ति। सर्वकारस्य लक्ष्यं युवान् केवलं रोजगारप्राप्तॄन् न, अपितु रोजगारसृजकान् कर्तुम् अस्ति।
मुख्यमन्त्री धामी सोमवासरे देहरादूनस्य आईआरडीटी-सभागारे कौशलविकास-सेवायोजनविभागेन आयोजिते युवा-कौशल-महोत्सवे-२०२६ इत्यस्मिन् अवसरे एतद् उक्तवान्। अस्मिन् कार्यक्रमे सः इण्डिया स्किल प्रतियोगितायाः २०२५-२६ इत्यस्याः अन्ताराष्ट्रियस्तरीय-विजेतॄन् राष्ट्रियस्तरीयविजेतॄंश्च प्रति-भागिनः सम्मानितवान्।
सः सहसपुरस्थितात् स्किल हब सेन्टर ऑफ एक्सीलेंस इत्यस्मात् प्रशिक्षणं प्राप्य रोजगारम् अधिगतवद्भ्यः ३५ युवभ्यः नियुक्तिपत्राणि अपि प्रदत्तवान्। अपि च, अखिलभारतीयव्यावसायिकपरीक्षा-२०२६ इत्यस्यां ३२ राजकीय-आईटीआई-संस्थानानां सर्वश्रेष्ठप्रदर्शनकर्तॄन् छात्रान् पदकैः प्रशस्तिपत्रैश्च सम्मानितवान्।
धामी अवदत् यत् चीनदेशस्य शङ्घाईनगरे सेप्टेम्बरमासे आयोजितायां अष्ट-चत्वारिंशत्तमायां विश्वकौशलप्रतियोगितायां भारतं षट् रजतपदकानि तथा उत्कृष्टतायै विंशतिः पदकानि प्राप्य दशमं स्थानं प्राप्तवान्। प्रतियोगितायां भारतस्य एतावत्कालपर्यन्तम् एतत् श्रेष्ठतमं प्रदर्शनम् अस्ति। अस्यां प्रतियोगितायां उत्तराखण्डस्य सानिया जोशी विक्रय-कौशले तथा पार्थ बोहरा औद्योगिक-अभिकल्पनाप्रौद्योगिक्यां रजतपदकं विजित्य देशस्य प्रदेशस्य च गौरवं वर्धितवन्तौ। तयोः सफलता अन्येषाम् यूनाम् अपि प्रेरणास्रोतः अस्ति।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः युवभ्यः शिक्षायां, कौशलविकासे, रोजगार-प्राप्तौ, स्वारोजगारे, उद्यमितायां, क्रीडासु च सर्वेषु क्षेत्रेषु अग्रे गन्तुम् अवसरान् प्रददाति। राजकीय-आईटीआई-संस्थानेषु प्रशिक्षणस्य गुणवत्तायाः सुधाराय, संस्थानानि आधुनिकप्रौद्योगिक्या सह संयोजयितुं तथा उद्योगानाम् आवश्यकतानुसारं प्रशिक्षणव्यवस्थायाः विकासाय विशेषं ध्यानं दीयते।
सः अवदत् यत् सहसपुरस्य स्किल हब सेन्टर ऑफ एक्सीलेंस इत्यत्र प्रशिक्षितेभ्यः ३५ युवभ्यः नियुक्तिपत्रप्रदानं प्रशिक्षणस्य रोजगारस्य च संयोजनदिशि महत्त्वपूर्णा उपलब्धिः अस्ति। प्रदेशस्य शताधिकाः युवानः विदेशेष्वपि स्वसेवाः प्रदाय उत्तराखण्डस्य नाम उज्ज्वलं कुर्वन्ति। धामी अवदत् यत् युवानः रोजगारस्य अन्वेषकाः न भूत्वा रोजगारदातारः भवेयुः इति उद्देशेन प्रदेशे स्टार्टअप-नीतिः प्रवर्तिता अस्ति। नवाचारम् उद्यमितां च प्रोत्साहयितुं नवोन्मेषकेन्द्राणि स्थाप्यन्ते तथा द्विशतकोटिरूप्यकाणां उद्यमपूञ्जीनिधेः व्यवस्था कृता अस्ति। युवा-प्रोत्साहनयोजनया दीनदयाल-उपाध्याय-ग्रामीण-कौशलयोजनया च युवभ्यः ऋणस्य अनुदानस्य च सुविधाः अपि प्रदीयन्ते। युवानां समस्याः विचारांश्च सर्वकारं प्रति प्रापयितुं युवा-आयोगस्य गठनदिशि अपि कार्यं प्रचलति। नियुक्तिपरीक्षासु पारदर्शितायाः उल्लेखं कुर्वन् मुख्यमन्त्री अवदत् यत् कदाचित् प्रदेशे प्रश्नपत्राणां लीक्-प्रकरणैः अनुचितसाधनप्रयोगस्य घटनाभिश्च परिश्रमिणां यूनां व्यवस्थायां विश्वासः क्षीणः अभवत्।
सः अवदत् यत् राज्यस्य गठनात् आरभ्य अद्यावधि प्रदेशे प्रायः पञ्चपञ्चाशत्सहस्रं युवानः सर्वकारीयसेवासु नियुक्ताः। एतेषु विगतेषु पञ्चसु वर्षेषु पञ्चत्रिंशत्स-हस्राधिकेभ्यः युवभ्यः सर्वकारीयवृत्तयः प्रदत्ताः। एतत् पारदर्शिनियुक्तिव्यवस्थायाः सर्वकारस्य प्रतिबद्धतायाश्च परिणामः अस्ति।
मुख्यमन्त्री अवदत् यत् युवानां सर्वाङ्गीणविकासे क्रीडानाम् अपि महत्त्वपूर्णा भूमिका अस्ति। क्रीडाभिः अनुशासनस्य, सामूहिकभावनायाः, सङ्घर्षक्षमतायाश्च विकासः भवति। प्रदेशे नवीनक्रीडानीतेः प्रवर्तनेन सह क्रीडासम्बद्धानाम् आधारभूतसुविधानां, क्रीडाङ्गणानां, प्रशिक्षणकेन्द्राणां च विस्तारः क्रियते। राष्ट्रियस्तरे अन्ताराष्ट्रियस्तरे च पदकविजेतृभ्यः क्रीडकभ्यः प्रोत्साहनं प्रदीयते तथा सर्वकारीयसेवासु अपि अवसराः उपलब्धाः क्रियन्ते।
सः अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः नेतृत्वे २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं यः सङ्कल्पः कृतः, तस्य पूर्तौ युवशक्तेः महत्त्वपूर्णा भूमिका भविष्यति। देशस्य प्रायः ६५ प्रतिशतं युवजनसङ्ख्या स्वकीयया ऊर्जया, कौशलेन, नवाचारेण च अस्य लक्ष्यस्य प्राप्तौ निर्णायकं योगदानं दातुं शक्नोति। उत्तराखण्डस्य युवानः अपि अस्मिन् कार्ये अग्रणीं भूमिकां निर्वक्ष्यन्ति।
कार्यक्रमे मन्त्रिमण्डलमन्त्री सौरभ-बहुगुणा, खजानदासः, सचिवः सी. रविशङ्करः, विभागीयाधिकारिणः, कर्म-चारीणः, प्रशिक्षकाः, बहुसङ्ख्याकाः छात्राः छात्राश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan