Enter your Email Address to subscribe to our newsletters

कलाशिक्षायाः, स्वास्थ्यस्य शारीरिक-शिक्षायाश्च तथा कार्यानुभवशिक्षायाः अनुदेशकेभ्यः समयबद्धं मानधनं प्रदास्यते
लखनऊ, १६ नवम्बरमास: (हि.स.)। योगी-सर्वकारः परिषदीयविद्यालयेषु गुणवत्ता-पूर्णशिक्षाव्यवस्थायाः सुदृढीकरणेन सह शिक्षणकार्ये योगदानं कुर्वताम् अंश-कालिकानुदेशकानां मानधनप्रदान-विषये प्रतिबद्धः अस्ति। अस्मिन्नेव क्रमे वित्तीयवर्षे २०२६-२७ प्रदेशस्य परिषदीयेषु उच्चप्राथमिक-विद्यालयेषु कार्यरतानाम् अंशकालिकानु-देशकानां नवम्बरमासस्य मानधनाय ४१ कोटि: ३ लक्षं ९७ सहस्ररूप्यकाणां राशिः आवण्टिता अस्ति। अस्याः अन्तर्गतं प्रदेशस्य सर्वेषु ७५ जनपदेषु कार्यरताः २४,१४१ अंशकालिका-नुदेशकाः मानधनं प्राप्स्यन्ति।
महानिदेशिका, विद्यालयशिक्षा तथा राज्यपरियोजनानिदेशिका, समग्रशिक्षा मोनिका रानी इत्यनया सर्वेभ्यः जनपद-स्तरीयमूलभूतशिक्षाधिकारिभ्यः अस्मिन् विषये निर्देशाः निर्गताः। आवण्टितराशेः निर्धारितवित्तीयनियमानां शर्तानां च अनुसारम् उपयोगं कृत्वा सम्बन्धिता-नुदेशकेभ्यः मानधनप्रदानं सुनिश्चितं कर्तुं निर्देशः दत्तः।
त्रिषु श्रेणीषु विभक्तेभ्यः २४,१४१ अनु-देशकेभ्यः मानधनं प्रदास्यते
प्रदेशस्य परिषदीयविद्यालयेषु कार्यरताः अंशकालिकानुदेशकाः त्रिषु श्रेणीषु विभक्ताः सन्ति। एतेषु कलाशिक्षायाः ८,४१४, स्वास्थ्यस्य शारीरिकशिक्षायाश्च ९,५७४ तथा कार्यानुभवशिक्षायाः ६,१५३ अनु-देशकाः सम्मिलिताः सन्ति। एवं त्रिषु श्रेणीषु कुलं २४,१४१ अनुदेशकानां नवम्बरमासस्य मानधनाय वित्तविवरणं निर्धारितम् अस्ति।
जनपदानुसारं वित्तविवरणं निर्धारितम्
निर्गते विवरणे सर्वेषां ७५ जनपदानां कार्यरतानाम् अंशकालिकानुदेशकानां श्रेण्यनुसारसङ्ख्या तथा तेषां नवम्बरमासस्य मानधनाय निर्धारितराशेः उल्लेखः कृतः अस्ति। अस्मिन् आगरा, अलीगढ, अम्बेडकरनगर, अमेठी, अयोध्या, आजमगढ, बरेली, गोरखपुर, कानपुरनगर, लखनऊ, प्रयागराज, वाराणसी इत्यादयः सर्वे जनपदाः सम्मिलिताः सन्ति। जनपदेषु कार्यरतानाम् अनुदेशकानां सङ्ख्याम् आधारीकृत्य मानधनराशिः निर्धारितास्ति।
वित्तीयनियमानुसारं भविष्यति प्रदानम्
आवण्टितराशेः व्ययः वित्तीयनियमानां तथा ‘वित्तीयप्रबन्धनं क्रयप्रक्रिया च-२०२४’ इत्यस्य प्रावधानानाम् अनुसारं क्रियते। सम्बन्धितानि देयकानि प्रमाणपत्राणि च जनपदमूलभूतशिक्षाधिकारिणः कार्यालये सुरक्षितानि स्थापयिष्यन्ते। आवश्यकता-याम् अतिरिक्तविवरणानि अभिलेखाश्च निर्धारितसमयसीमायाम् उपलब्धाः कारयितव्याः। यस्मिन् मदे धनराशिः आवण्टिता, तस्मिन्नेव मदे तस्याः उपयोगः करणीयः। धनराशेः अन्यस्मिन् मदे स्थानान्तरणम् अथवा निर्धारिता-वण्टनादधिकः व्ययः अनुमतः न भविष्यति।
द्विगुणप्रदाने जाते सम्बन्धिताधिकारी उत्तरदायी भविष्यति
निर्देशानुसारं कस्मिन्नपि परिस्थितौ द्विगुणप्रदानस्य अनुमतिः न भविष्यति। यदि एतादृशं प्रकरणं प्रकाशते, तर्हि सम्बन्धितः आहरण-वितरणाधिकारी तस्य उत्तरदायित्वं वहिष्यति। महानिदेशकाय, उत्तरप्रदेशविद्यालयशिक्षायै प्रदानप्रक्रियां समये एव सम्पूर्णां कर्तुं तथा तस्याः प्रगतिविषये राज्यपरियोजनाकार्यालयं सूचयितुं निर्देशाः अपि दत्ताः सन्ति।
Hindusthan Samachar / Divya Ranjan