Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, १६ नवम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् सोमवासरे ओडिशायाः कटकनगरे स्थिते श्रीश्री-विश्वविद्यालये नवनिर्मितस्य विशिष्ट-स्तम्भस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे सः अवदत् यत् अयं स्तम्भः केवलं भवनं नास्ति, अपितु भारतस्य समृद्धसांस्कृतिकवैभवस्य आधुनिक-शैक्षणिकाकाङ्क्षाणां च सङ्गमस्य प्रतीकः अस्ति। अयं ज्ञानं, परम्परां, भविष्यस्य सम्भावनाश्च एकत्र संयोजयन्त्याः विचारधारायाः प्रतिनिधित्वं करोति।
कार्यक्रमे ओडिशायाः राज्यपालः ब्रजमोहनरामः, मुख्यमन्त्री मोहनचरण-माझी तथा श्रीश्रीविश्वविद्यालयस्य संस्थापकः आजीवनाध्यक्षश्च गुरुदेवः श्रीश्रीरविशङ्करः उपस्थिताः आसन्।
समारोहं सम्बोधयन् उपराष्ट्रपतिः अवदत् यत् श्रीश्रीविश्वविद्यालयः गुरुदेवस्य श्रीश्रीरविशङ्करस्य दूरदर्शिन्याः विचार-धारायाः साकाररूपम् अस्ति। तस्य शिक्षासम्बद्धा अवधारणा पारम्परिक-शैक्षणिकज्ञानपर्यन्तं सीमिता नास्ति, अपितु व्यक्तेः चरित्रस्य, चेतनायाः, करुणायाश्च विकासे अपि केन्द्रिता अस्ति। पूर्वीयज्ञानपरम्परायाः पाश्चात्यशिक्षा-पद्धतेश्च समन्वयस्य भावनया सह विश्वविद्यालयेन वर्षे २०१२ स्वकीयायाः शैक्षणिकयात्रायाः प्रारम्भः कृतः आसीत्।
सः अवदत् यत् शिक्षायाः उद्देशः केवलं विद्यार्थिभ्यः शैक्षणिकसफलतां प्रदातुम् एव न, अपितु तान् समाजं प्रति सार्थकयोगदानं दातॄन् उत्तरदायिनः वैश्विकनागरिकान् च निर्मातुम् अपि भवेत्।
उपराष्ट्रपतिः श्रीश्रीविश्वविद्यालयेन स्वस्य ‘विश्वस्य सर्वाधिकं सुखदं परिसरः’ इति परिचयं दीयमानं दृष्ट्वा प्रसन्नतां व्यक्तवान्। सः अवदत् यत् प्रसन्नता सम्पूर्णमानवतेः आकाङ्क्षा अस्ति तथा च भारतस्य संस्कृतौ परम्परासु च गभीरतया समाविष्टा अस्ति। विश्वविद्यालयेन एतेषां सांस्कृतिकमूल्यानां संवर्धनाय क्रियमाणानां प्रयासानां सः प्रशंसाम् अकरोत्।
ओडिशायाः स्थापत्यपरम्परायाः प्रशंसा
ओडिशायाः समृद्धायाः स्थापत्यकलायाः सांस्कृतिकपरम्परायाश्च उल्लेखं कुर्वन् उपराष्ट्रपतिः अवदत् यत् राज्यस्य वास्तुकला केवलं भौतिकसंरचनानां निर्माणपर्यन्तं सीमिता न अभवत्। अत्रत्यानि मन्दिराणि कलात्मक-श्रेष्ठतायाः, वैज्ञानिकज्ञानस्य, आध्या-त्मिकतायाः सांस्कृतिकनिरन्तरतायाश्च जीवन्तानि प्रतीकानि सन्ति।
सः पुर्याः श्रीजगन्नाथमन्दिरस्य, भुवने-श्वरस्य मन्दिराणां, कोणार्कमन्दिरस्य च भव्यतायाः उल्लेखं कुर्वन् अवदत् यत् कलिङ्गस्थापत्यशैली भारतीयसभ्यतायाः असाधारणायाः सृजनात्मकप्रतिभायाः प्रमाणम् अस्ति।
सः अवदत् यत् विशिष्टस्तम्भस्य संरचना अपि एतस्याः समृद्धायाः परम्परायाः प्रेरणया निर्मिता अस्ति। अस्य ऊर्ध्वगामीस्वरूपं ज्ञानस्य आधारात् प्रज्ञायाः आत्मबोधस्य च उच्चतरस्तरं प्रति मानवीयाकाङ्क्षायाः यात्रायाः प्रतीकम् अस्ति।
एकस्मिन् दशके उच्चशिक्षायाः व्यापकविस्तारः
उपराष्ट्रपतिः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी वर्षे २०४७ पर्यन्तं विकसितभारतस्य निर्माणस्य लक्ष्यम् देशस्य पुरतः स्थापितवान् अस्ति। स्वातन्त्र्यस्य शताब्दीवर्षे भारतं आत्मविश्वासेन, सामर्थ्येन, वैश्विकनेतृत्वेन च सम्पन्नं विकसितराष्ट्ररूपेण स्थापयितुम् अस्य सङ्कल्पस्य उद्देश्यम् अस्ति। अस्य लक्ष्यस्य प्राप्तौ शैक्षणिकसंस्थानां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।
देशे उच्चशिक्षायाः विस्तारस्य उल्लेखं कुर्वन् सः अवदत् यत् वर्षे २०१४-१५ विश्वविद्यालयानां सङ्ख्या ७६० आसीत्, या अधुना वर्धित्वा १४०० अधिका अभवत्। वर्षात् २०१४ पूर्वं देशे १६ भारतीय-प्रौद्योगिकीसंस्थानानि आसन्, येषां सङ्ख्या अधुना २३ अभवत्। तथैव भारतीयप्रबन्धनसंस्थानां सङ्ख्या १३ तः वर्धित्वा २२ अभवत्।
सः अवदत् यत् अखिलभारतीया-युर्विज्ञानसंस्थानानां सङ्ख्या अपि वर्षात् २०१४ पूर्वस्य सप्ततः वर्धित्वा अधुना २० अभवत्। उच्चशैक्षणिकसंस्थासु विद्यार्थिनां प्रवेशसङ्ख्या वर्षे २०१४-१५ ३.४२ कोटितः वर्धित्वा ४.५० कोटितः अधिका अभवत्।
आदिवासीविद्यार्थिभ्यः ‘विद्यालयसम्पर्क-कार्यक्रमस्य’ विचार:
ओडिशायाम् आदिवासिजनसङ्ख्यायाः उल्लेखनीयतां दृष्ट्वा उपराष्ट्रपतिः राज्यस्य सर्वेभ्यः सर्वकारीयेभ्यः निजीयविश्व-विद्यालयेभ्यश्च आदिवासीबालकानां कृते ‘विद्यालयसम्पर्ककार्यक्रमम्’ आरब्धुम् आग्रहं कृतवान्। सः अवदत् यत् एतादृशैः कार्यक्रमैः आदिवासीविद्यार्थिनः मध्ये एव अध्ययनं न त्यजेयुः तथा च उच्चशिक्षां प्राप्तुं ते प्रोत्साहिताः भवेयुः इति सुनिश्चितं कर्तव्यम्।
राष्ट्रहितं सर्वोपरि स्थापयितुम् आह्वानम्
भारतस्य सांस्कृतिकपरिचयस्य राष्ट्रिय-सामर्थ्यस्य च महत्त्वं प्रतिपादयन् उपराष्ट्रपतिः अवदत् यत् देशस्य संस्कृतिः परम्पराश्च भविष्यस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। भारतं तावद् दृढं समर्थं च भवितव्यं यत् कश्चिदपि देशः तस्मिन् स्वकीयाः शर्ताः आरोपयितुं न शक्नुयात्। राष्ट्रियशक्तिः एव देशस्य स्वातन्त्र्यस्य, गौरवस्य, हितानां च रक्षणस्य आधारः अस्ति।
विद्यार्थिनः सम्बोधयन् सः अवदत् यत् कस्यचित् व्यक्तेः वास्तविकं महत्त्वं तस्य ज्ञानस्य गहनतया, चरित्रस्य दृढतया, करुणायाः व्यापकतया च निर्धारितं भवति। सः विद्यार्थिभ्यः स्वविचारेषु कार्येषु च ‘राष्ट्रं प्रथमम्’ इति सिद्धान्तं सर्वोपरि स्थापयितुं तथा मादकद्रव्येभ्यः दूरे स्थातुं च आह्वानम् अकरोत्।
उपराष्ट्रपतिः विश्वविद्यालयपरिवारम् विशिष्टस्तम्भेन सम्बद्धानाम् आदर्शान् प्रति स्वकीयां प्रतिबद्धतां पुनः दृढीकर्तुम् आग्रहं कृतवान्। सः अवदत् यत् ज्ञानम् अस्माकम् आधारः, प्रज्ञा अस्माकं मार्गदर्शिका, नवाचारः अस्माकं साधनम्, करुणा अस्माकं शक्तिः, सेवा च अस्माकम् अन्तिमं लक्ष्यम् भवेत्।
सः आशां व्यक्तवान् यत् अयं स्तम्भः अग्रिमवंशानां कृते शिक्षायाः प्रकाशस्तम्भः, आकाङ्क्षाणां स्मारकः, ओडिशायाः शाश्वतसांस्कृतिकचेतनायाश्च प्रतीकः भूत्वा स्थास्यति। अयं विद्यार्थिनः आत्मविश्वास-युक्तस्य, समृद्धस्य, संवेदनशीलस्य विकसितभारतस्य च निर्माणे योगदानं दातुं प्रेरयिष्यति।
अस्मिन्नवसरे उपराष्ट्रपतिः नवनिर्मिते विशिष्टस्तम्भे स्थापितस्य अत्याधुनिकस्य तारामण्डलस्य अपि अवलोकनम् अकरोत्। एतत् तारामण्डलं वैज्ञानिक-जिज्ञासायाः, अन्वेषणस्य, नवाचारस्य च भावनां प्रोत्साहयितुम् उद्दिश्य निर्मितम् अस्ति।
Hindusthan Samachar / Divya Ranjan