Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, १६ नवम्बरमास: (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् सोमवासरे भुवनेश्वरे सप्तदशायाः ओडिशाविधान-सभायाः सदस्यानां कृते आयोजिते अभिमुखीकरणकार्यक्रमे सम्बोधनं कुर्वन् विधायकान् समर्पित-जनसेवया लोक-तान्त्रिकमूल्यानां संरक्षणाय तथा जनविश्वासस्य सुदृढी-करणाय आह्वानं कृतवान्। सः अवदत् यत् लोक-तान्त्रिकसंस्थानां सशक्ती-करणाय तथा राष्ट्रियविकासस्य गतिवर्धनाय स्वस्थ-वादविवादः, सार्थकचर्चा, रचनात्मक-सहयोगश्च अत्यावश्यकाः सन्ति।
उपराष्ट्रपतिः अस्य कार्यक्रमस्य आयोजनाय विधानसभाध्यक्षायां सुरमा पाढी इत्यस्यां प्रशंसाम् अकरोत्। सः अवदत् यत् एतादृशाः कार्यक्रमाः लोकतान्त्रिक-संस्थानां सुदृढीकरणेन सह विधायकान् स्वकीयानां संवैधानिकदायित्वानां प्रभावी-रूपेण निर्वहणाय समर्थान् कुर्वन्ति।
भारतस्य प्राचीनलोकतान्त्रिकपरम्पराणाम् उल्लेखं कुर्वन् सः वैशाल्याः लोक-तान्त्रिकसंस्थानां तथा चोलशासनकाले प्रचलितायाः कुडवोलाई-पद्धतेः उदाहरणं प्रस्तुतवान्। सः अवदत् यत् भारतस्य सभ्यतागतिहासे लोकतन्त्रस्य मूलानि अतीव गभीराणि सन्ति तथा भारतं वस्तुतः ‘लोकतन्त्रस्य जननी’ इति गौरवस्य अधिकारी अस्ति। सः ओडिशायाः विधायकान् एतस्याः गौरवशालिन्याः परम्परायाः संवर्धनाय आग्रहं कृतवान्।
निर्वाचनविजयस्य सार्थकजनसेवायां परिवर्तनस्य आवश्यकतायां बलं दत्त्वा उपराष्ट्रपतिः अवदत्, “वयं निर्वाचने मतैः विजयं प्राप्नुमः, किन्तु केवलं सेवया एव जनानां सम्मानम् अर्जयितुं शक्नुमः।” सः अवदत् यत् विधानसभा केवलं वादविवादस्य मञ्चः नास्ति, अपितु अत्र निर्मिता प्रत्येकं नीतिः, उत्थापितः प्रत्येकं प्रश्नः तथा निर्मितः प्रत्येकम् अधिनियमः लक्षशः नागरिकाणां जीवने सकारात्मकं परिवर्तनम् आनेतुं सामर्थ्यं धारयति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकसितभारत-२०४७ इत्यस्य सङ्कल्पस्य उल्लेखं कुर्वन् सः अवदत् यत् भारतस्य विकासयात्रायां ओडिशायाः प्रगतेः महत्त्वपूर्णा भूमिका भविष्यति। २०३६ तमे वर्षे ओडिशाराज्यं पृथक् राज्यरूपेण स्थापनायाः शताब्दीम् आचरिष्यति। अतः ‘विजन ओडिशा-२०३६’ इत्यस्य लक्ष्यं साकारयित्वा राज्यं विकसितं, समृद्धं तथा समावेशी च कर्तुं प्रयत्नाः करणीयाः। जनप्रतिनिधयः युवभ्यः नवीनावसरान् सृजितुं तथा विकासं प्रत्येकं ग्रामं परिवारं च प्रति प्रापयितुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति इति सः विश्वासं प्रकटितवान्।
विधानसभायाः कार्यवाहीषु व्यवधानस्य विषये उपराष्ट्रपतिः अवदत् यत् मतभेदाः जनानां संविधानस्य च प्रति व्यापकप्रतिबद्धतायाः मार्गे बाधकाः न भवेयुः। लोकतन्त्रे विभिन्नाः विचाराः स्वाभाविकाः सन्ति, किन्तु जनानां संविधानं च प्रति सर्वेषां प्रतिबद्धता समाना भवितव्या। सः अवदत् यत् वादविवादाः, चर्चाः, कदाचित् जायमानानि व्यवधानानि च अन्ततः सार्थकनिष्कर्षप्राप्तौ सहायकानि भवेयुः। लोकतन्त्रस्य सुदृढीकरणाय स्वस्थवादविवादः रचनात्मकसहयोगश्च आवश्यकौ स्तः।
विधायकान् निरन्तराध्ययनाय प्रशिक्षणाय च परामर्शं दत्त्वा सः विधायिकानियमानां प्रक्रियाणां च, आयव्ययकप्रक्रियायाः, समितिपद्धतेः, संसदीयपरम्पराणां तथा नैतिकतायाश्च सम्यगवबोधस्य विकासे बलं दत्तवान्।
उपराष्ट्रपतिः प्रश्नकालस्य शून्यकालस्य च महत्त्वं प्रतिपादयन् अवदत् यत् एतौ सदस्येभ्यः स्वनिर्वाचनक्षेत्राणां समस्याः महत्त्वपूर्णान् नीतिविषयकप्रश्नांश्च सदने उत्थापयितुं प्रभाविणौ अवसरौ प्रदत्तः। एतयोः महत्त्वपूर्णयोः संसदीयप्रक्रिययोः निर्बाधसञ्चालनं सुनिश्चितं कर्तुं सः विधायकान् विधानसभाध्यक्षेन सह सहयोगं कर्तुम् आग्रहं कृतवान्।
सः सदनस्य कार्यसूच्याः विषये सहमतिनिर्माणे कार्यमन्त्रणा-समित्याः भूमिकामपि महत्त्वपूर्णाम् अवदत्। तस्य मते समितौ व्यापकसहमतिः भवति चेत् विधायीकार्याणां सञ्चालनं अधिकं सुचारु प्रभावी च भवितुम् अर्हति।
विधानसभायाः कार्यवाहीषु आधुनिक-प्रौद्योगिक्याः उपयोगे बलं दत्त्वा उपराष्ट्रपतिः राष्ट्रिय-ई-विधान-अनुप्रयोगस्य अन्तर्गतं ओडिशाविधान-सभायां ‘डिजिटल-सदनस्य’ आरम्भस्य स्वागतं कृतवान्। राज्यसभायां डिजिटलमञ्चानां वर्धमानोपयोगस्य उल्लेखं कुर्वन् सः अवदत् यत् प्रौद्योगिक्याः साहाय्येन संसदीयदस्तावेजाः, प्रश्नाः, वादविवादाश्च अधुना अनेकासु भाषासु उपलब्धाः भवन्ति। भविष्यस्य आव्हानानां सम्मुखीकरणाय सज्जाः भवितुं सः विधायकान् कृत्रिमबुद्धिमत्तया प्राकृतिक-भाषाप्रक्रियाकरणेन च सह आधुनिकप्रौद्योगिकीनाम् अङ्गीकरणाय आग्रहं कृतवान्।
स्वसम्बोधनस्य समापनसमये उप-राष्ट्रपतिः विधायकान् तेषां दायित्वानां तथा समाजे परिवर्तनम् आनेतुं तेषां सामर्थ्यस्य स्मारणम् अकारयत्। सः अवदत् यत् सुविचारितः हस्तक्षेपः नीतौ परिवर्तनम् आनेतुं शक्नोति, संवेदनशीलः निर्णयश्च लक्षशः नागरिकाणां जीवने नवीनाम् आशां सञ्चारयितुं शक्नोति। सः सप्तदशायाः ओडिशाविधानसभायाः सर्वेभ्यः सदस्येभ्यः सफलाभिमुखीकरण-कार्यक्रमाय तथा तेषां अग्रिम-विधायिककार्यकालाय शुभकामनाः प्रदत्तवान्।
अस्मिन् अवसरे ओडिशायाः राज्यपालः ब्रजमोहनरामः, मुख्यमन्त्री मोहनचरण-माझी, विधानसभाध्यक्षायाः सुरमा पाढी, उपाध्यक्षः भवानीशङ्करभोई, विधायकाः अन्ये गणमान्यजनाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan