Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, १६ नवम्बर (हि.स.)। मातुः भगवतीदेवीशर्मणः जन्मशताब्दी-समारोहस्य द्वितीयचरणस्य द्वितीयपुष्पस्य सज्जताः देवसंस्कृतिविश्वविद्यालयस्य परिसरे उत्साहेन प्रचलन्ति। अस्मिन्नेव क्रमे कार्यक्रमस्थले गायत्रीपरिवारस्य अधिष्ठात्री शैलजी साधनास्थल्याः मातृभगवतीभोजनालयस्य च उद्घाटनं कृतवती। अस्मिन् अवसरे जन्मशताब्दी-समारोहस्य दलनायकः डॉ. चिन्मयपण्ड्या, शान्तिकुञ्जमहिला-मण्डलस्य प्रमुखा श्रीमती शैफालीपण्ड्या, व्यवस्थापकः योगेन्द्रगिरिः इत्यादयः अनेके कार्यकर्तारः उपस्थिताः आसन्।
नवम्बरमासस्य २१ तथा २२ दिनाङ्कयोः प्रस्तावितस्य अस्य आयोजनस्य कृते शान्तिकुञ्जे देवसंस्कृतिविश्वविद्यालयस्य परिसरे च व्यवस्थाः अन्तिमरूपेण सज्जीक्रियन्ते। साधनास्थल्यां भागं ग्रहीतारः परिजनाः सामूहिकसाधनायाः आत्मचिन्तनस्य च अवसरं प्राप्स्यन्ति। समारोहस्य समापनपर्यन्तं साधनास्थली सूर्योदयात् सूर्यास्तपर्यन्तं प्रवर्तिष्यते। अपरतः मातृभगवतीभोजनालये देश-विदेशेभ्यः आगच्छतां गायत्रीपरिवारस्य परिजनानां भोजनस्य व्यवस्था कृता अस्ति।
शताब्दीसमारोहस्य समन्वयकेन कथितं यत् समारोहस्य सज्जतासु शान्तिकुञ्जस्य अन्तेवासिनः कार्यकर्तारः तथा झारखण्ड-छत्तीसगढ-बिहार-दिल्ली इत्यादिभ्यः विभिन्नराज्येभ्यः आगताः गायत्री-परिवारस्य शतशः कार्यकर्तारः संलग्नाः सन्ति। प्रवचनमञ्चस्य अन्येषां च कार्यक्रमाणां कृते मञ्चनिर्माणकार्यं तीव्रगतया प्रचलति। आवासस्य, भोजनस्य, यातायातस्य अन्यासां च आवश्यक-व्यवस्थानां समुचितरूपेण व्यवस्थापनं क्रियते।
अस्मिन्नवसरे दलनायकः डॉ. चिन्मयपण्ड्या अवदत् यत् जन्म-शताब्दीसमारोहः मातुः त्यागात्, तपसः, सेवायाः समर्पणस्य च प्रेरणां प्राप्तुं महत्त्वपूर्णः अवसरः अस्ति। अस्य माध्यमेन नारीजागरणस्य, युवचेतनायाः, सामाजिक-समरसतायाः युगनिर्माणस्य च विचारान् जनसामान्यं प्रति प्रसारयितुं प्रयासः क्रियते। सः कार्यकर्तॄन् सर्वाः व्यवस्थाः सेवाभावेन, समर्पणेन परस्परसहयोगेन च सम्पन्नाः कर्तुम् आहूतवान्।
Hindusthan Samachar / Divya Ranjan