मध्यप्रदेशे ‘मुख्यमन्त्रिणः पिछड़ा वर्ग एवं अल्पसंख्यक उद्यमयोजना’ युवानां कृते अभवत् सम्बलम्, ८५९ हितग्राहिणः लाभान्विताः।
मध्यप्रदेशे २०२६-२७ तमे वर्षे ८५९ हितग्राहिभ्यः ३८०० लक्षरूप्यकाणाम् अधिका वित्तीयसहायता प्रदाय स्वावलम्बिनः निर्मिताः भोपालम्, १७ नवम्बरमासः (हि.स.)। मध्यप्रदेशे पिछड़ावर्गीयान् अल्पसंख्यकवर्गीयान् च युवानः स्वरोजगारेण योजयितुं सञ्चाल्यमानायाः मु
अंशुल चौरे ने जे.सी.बी. मशीन क्रय कर स्वरोजगार शुरू किया


मध्यप्रदेशे २०२६-२७ तमे वर्षे ८५९ हितग्राहिभ्यः ३८०० लक्षरूप्यकाणाम् अधिका वित्तीयसहायता प्रदाय स्वावलम्बिनः निर्मिताः

भोपालम्, १७ नवम्बरमासः (हि.स.)। मध्यप्रदेशे पिछड़ावर्गीयान् अल्पसंख्यकवर्गीयान् च युवानः स्वरोजगारेण योजयितुं सञ्चाल्यमानायाः मुख्यमन्त्रिणः उद्यमयोजनायाः अन्तर्गतं २०२६-२७ तमे वर्षे अद्यावधि ८५९ हितग्राहिभ्यः ३८.३४ कोटिरूप्यकाणां ऋणं वित्तीयसहायता च प्रदत्ता। नर्मदापुरमस्य अंशुल चौरे इत्यनेन योजनायाः माध्यमेन प्राप्तेन २५ लक्षरूप्यकाणां ऋणेन जेसीबीयन्त्रं क्रीत्वा स्वव्यवसायः प्रारब्धः। तस्य सफलता अधुना क्षेत्रस्य अन्येषाम् युवानामपि स्वरोजगाराय प्रेरणां प्रददाति।

जनसम्पर्काधिकारिणी अवन्तिका जायसवाल इत्यनया मङ्गलवासरे सूचितं यत् मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहन यादवस्य दूरदर्शिनः नेतृत्वे तथा पिछड़ावर्ग-अल्पसंख्यककल्याणविभागस्य राज्यमन्त्रिणः कृष्णा गौर इत्यस्याः सततमार्गदर्शने पिछड़ावर्गीय-अल्पसंख्यकवित्तविकासनिगमेन सञ्चाल्यमानाः योजनाः युवानां स्वप्नानि साकारयन्ति। मध्यप्रदेशशासनस्य जनकल्याणकारिण्यः योजनाः समाजस्य अन्तिमपङ्क्तौ स्थितं जनमपि सामाजिक-आर्थिकदृष्ट्या सशक्तं कर्तुं महत्त्वपूर्णाः सिद्धाः भवन्ति।

तया कथितं यत् मध्यप्रदेशस्य पिछड़ावर्ग-अल्पसंख्यककल्याणविभागेन सञ्चालितानां योजनानां माध्यमेन प्रदेशस्य युवभ्यः वित्तीयसहायतां प्रदाय उद्योगैः स्वरोजगारेण च संयोज्यते। २०२६-२७ तमे वर्षे मुख्यमन्त्रिणः पिछड़ावर्गीय-अल्पसंख्यक-उद्यमयोजनायाः अन्तर्गतं अद्यावधि ८५९ हितग्राहिभ्यः ३८३४.२४ लक्षरूप्यकाणां ऋणं वित्तीयसहायता च प्रदाय लाभान्विताः कृताः। राज्यसर्वकारस्य एषा सङ्कल्पबद्धता प्रदेशस्य पिछड़ावर्गीय-अल्पसंख्यकसमुदायं आर्थिकदृष्ट्या सुदृढं, स्वावलम्बिनं सशक्तं च कर्तुं नूतनानि कीर्तिमानानि स्थापयति।

जनसम्पर्काधिकारिण्या सूचितं यत् नर्मदापुरमजनपदनिवासिनः विजयकुमारचौरे इत्यस्य पुत्रस्य अंशुलचौरे इत्यस्य सफलताकथा मध्यप्रदेशशासनस्य कल्याणकारिण्याः दृष्टेः प्रत्यक्षम् उदाहरणम् अस्ति। सीमितानाम् आर्थिकसंसाधनानां कारणात् अंशुलः स्वजीविकानिर्वहणाय निरन्तरं सङ्घर्षं कुर्वन् आसीत्। तस्य स्वकीयं जेसीबीयन्त्रं क्रीत्वा सम्मानजनकं स्वरोजगारं स्थापयितुं स्वप्नम् आसीत्।

अस्यां विषमपरिस्थितौ मध्यप्रदेशसर्वकारस्य ‘पिछड़ावर्गीय-अल्पसंख्यक-उद्यमयोजना’ तस्य कृते जीवनदायिनी सहायिका अभवत्। योजनायाः अन्तर्गतं विभागेन अंशुलचौरे इत्यस्मै २५.०० लक्षरूप्यकाणां ऋणराशिः स्वीकृता। एतस्याः सहायतायाः माध्यमेन सः जेसीबीयन्त्रं क्रीत्वा स्वकीयम् व्यवसायम् आरब्धवान्। अधुना सः न केवलम् आत्मसम्मानेन जीविकाम् अर्जयति, अपितु क्षेत्रस्य अन्येषाम् युवानामपि प्रेरणास्रोतः अभवत्।

अंशुलचौरे इत्यनेन प्रसन्नतां प्रकटयता कथितम् यत्, “शासनस्य एषा योजना मम जीवने नवप्रभातम् आनयत्। जेसीबीयन्त्रं न केवलं मम जीविकायाः साधनम्, अपितु मम आत्मसम्मानस्य उज्ज्वलभविष्यस्य च प्रतीकम् अस्ति। राज्यसर्वकारस्य एताः योजनाः आवश्यकताग्रस्तान् प्रगतिपथे अग्रे नेतुं वरदानस्वरूपाः सिद्धाः भवन्ति।”

Hindusthan Samachar / Dheeraj Maithani