‘रामायण’स्य कैकेय्याः विषये लारा दत्ता मौनं भङ्क्त्वा स्वमतं प्रकटितवती।
मुंबई, 17 नवंबरमासः (हि.स.) l नितेश तिवारीनिर्देशितायां ‘रामायण’चलच्चित्रे अभिनेत्री लारा दत्ता कैकेय्याः भूमिकां निर्वहति। रामं वनवासं प्रेषयितुं कृतस्य निर्णयस्य कारणात् कैकेयी प्रायः नकारात्मकचरित्ररूपेण दृष्टा भवति। तथापि लारा दत्ता तस्याः चर
लारा दत्ता - फोटो सोर्स इंस्टाग्राम


मुंबई, 17 नवंबरमासः (हि.स.) l

नितेश तिवारीनिर्देशितायां ‘रामायण’चलच्चित्रे अभिनेत्री लारा दत्ता कैकेय्याः भूमिकां निर्वहति। रामं वनवासं प्रेषयितुं कृतस्य निर्णयस्य कारणात् कैकेयी प्रायः नकारात्मकचरित्ररूपेण दृष्टा भवति। तथापि लारा दत्ता तस्याः चरित्रं भिन्नदृष्टिकोणेन पश्यति।

लारा दत्तया स्वसाक्षात्कारे कैकेय्याः पक्षं समर्थयन्त्या कथितं यत् तस्याः विना रामायणस्य कथा अग्रे एव न प्रवर्तेत। तस्याः मते कैकेय्याः निर्णयः केवलम् महत्त्वाकाङ्क्षया प्रेरितः नासीत्, अपितु स्वपुत्रस्य भरतस्य अधिकारसम्बद्धः अपि आसीत्।

लारा दत्तया कैकेय्याः दशरथस्य च विवाहसम्बद्धायाः तस्याः कथायाः उल्लेखः कृतः, यस्यां राजा दशरथः कैकेय्याः पितरं वचनम् अददात् यत् तस्याः पुत्रः अयोध्यायाः सिंहासनस्य उत्तराधिकारी भविष्यति। तस्मिन् समये कैकेयी दशरथस्य तृतीया पत्नी भवितुम् उद्यताऽऽसीत् तथा च तस्याः पिता विवाहविषये सन्देहं प्रकटयति स्म।

लारा दत्तायाः मते कैकेयी अनन्तरं स्वपुत्राय तदेव अधिकारं याचितवती, यस्य प्रतिज्ञा पूर्वमेव कृता आसीत्। तया कथितं यत् कैकेयी पुत्रस्नेहस्य तस्य जन्मसिद्धाधिकारस्य च मध्ये सङ्घर्षं कुर्वती आसीत्।

लारा दत्तया कैकेय्याः चरित्रं जटिलं वर्णयन्त्या कथितं यत् तां सर्वदा खलनायिकारूपेण प्रस्तुतं कृतम्, किन्तु रामायणस्य केषुचित् संस्करणेषु तस्याः निर्णयस्य पृष्ठतः दिव्यम् उद्देश्यमपि वर्णितम् अस्ति। तस्याः मते यदि रामः अयोध्यायाः राजा भूत्वा सामान्यजीवनं यापयन् अभविष्यत्, तर्हि रावणेन सीतायाः अपहरणं तदनन्तरं च घटिताः घटनाः सम्भवतः न अभविष्यन्। रामस्य वनवासेन एव अनन्तरं रावणवधस्य भूमिका निर्मिता।

लारा दत्तायाः विश्वासः अस्ति यत् कैकेयी रामायणे अत्यन्तं महत्त्वपूर्णा पात्रा अस्ति तथा च तस्याः निर्णयेनेव महाकाव्यस्य कथा नूतनां दिशां प्राप्तवती।

---------------

Hindusthan Samachar / Dheeraj Maithani