गोपाष्टम्यां मालवभ्रमणाय प्रस्थितः ज्योतिर्लिङ्गभगवान् ओङ्कारेश्वरः, १५ दिनानि यावत् मन्दिरे न भविष्यति शयनशृङ्गारः
खण्डवा, १७ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य खण्डवाजनपदे स्थितः विश्वप्रसिद्धः ज्योतिर्लिङ्गस्वरूपः भगवान् ओङ्कारेश्वरः परम्परानुसारं मङ्गलवासरे गोपाष्टमीपर्वणः अवसरे स्वस्य श्वशुरगृहं मालवक्षेत्रं प्रति पञ्चदशदिनात्मकाय भ्रमणाय प्रस्थितवान्। पञ्चद
ज्योतिर्लिंग भगवान ओंकारेश्वर का पूजन करते हुए पुरोहित


खण्डवा, १७ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य खण्डवाजनपदे स्थितः विश्वप्रसिद्धः ज्योतिर्लिङ्गस्वरूपः भगवान् ओङ्कारेश्वरः परम्परानुसारं मङ्गलवासरे गोपाष्टमीपर्वणः अवसरे स्वस्य श्वशुरगृहं मालवक्षेत्रं प्रति पञ्चदशदिनात्मकाय भ्रमणाय प्रस्थितवान्। पञ्चदशदिनानन्तरं दिसम्बरमासस्य प्रथमदिनाङ्के भैरवाष्टम्यां बाबा पुनः ओङ्कारेश्वरं प्रत्यागमिष्यति। अस्मिन् काले मन्दिरे रात्रौ शयनारतिः, दोलाशृङ्गारः तथा चौपड्-क्रीडायाः सज्जा च न भविष्यति।

ओङ्कारेश्वरज्योतिर्लिङ्गस्य मालवभ्रमणपरम्परा शताब्देभ्यः प्रचलति। अस्याः प्राचीनपरम्परायाः निर्वहणार्थं मङ्गलवासरे ज्योतिर्लिङ्गमन्दिरे विशेषपूजार्चना आयोजिता। गुडेन गोधूमचूर्णेन च निर्मितं विशेषप्रसादं भगवते समर्प्य विधिविधानपूर्वकं पूजनं कृतम्। राजपुरोहितेन पण्डितजगदीशचन्द्रपरसाईमहोदयेन वैदिकमन्त्राणां घोषेण श्रीगणेशपूजा, हनुमत्पूजा, नन्दिपूजा तथा देहलीपूजा च विधिपूर्वकं कारिता। मन्दिरस्य न्यासिना रावपुष्पेन्द्रसिंहचौहानेन तस्य पुत्र्या प्राचीसिंहचौहानेन च अस्य विशेषपूजनस्य आयोजनं कारितम्। ततः ढोलवाद्यैः सह भगवतः पञ्चदशदिनात्मकाय मालवभ्रमणाय सांकेतिकरूपेण प्रस्थानं कारितम्।

ओङ्कारेश्वरमन्दिरस्य मुख्यपूजारिणा पण्डितडंकेश्वरदीक्षितेन उक्तं यत् भगवान् रामात् चतुर्दशपीढीपूर्वं मान्धातृराज्ञः तपस्यया भगवान् ओङ्कारेश्वरः प्रकटितः अभवत्। निमाडक्षेत्रं बाबा भोलेनाथस्य निवासस्थानं तथा मालवक्षेत्रं तस्य श्वशुरगृहं मन्यते। एतस्याः किंवदन्त्याः परम्परायाश्च अनुसारं बाबा गोपाष्टमीतः भैरवाष्टमीपर्यन्तं पञ्चदशदिनानि मालव-भ्रमणाय गच्छति। प्रस्थानावसरे भगवते सवामनपरिमितः विशेषभोगः समर्पितः तथा ढोल-नगाडावाद्यैः सह तस्य विदायः कृत:।

ज्योतिर्लिङ्गमन्दिरस्य मुख्यपूजारिणा डंकेश्वरदीक्षितेन उक्तं यत् बाबा ओङ्कारेश्वरस्य भ्रमणार्थं प्रस्थितत्वात् अद्य आरभ्य पञ्चदशदिनानि यावत् मन्दिरे भगवतः शयनव्यवस्था न भविष्यति। अस्मिन् अवधौ भगवतः दोला, पालना, चौपड्-क्रीडायाः पाशकाः च न स्थापयिष्यन्ते। अतः श्रद्धालवः ‘शयन-शृङ्गारस्य’ दर्शनं कर्तुं न शक्ष्यन्ति।

तथापि अस्मिन् काले प्रतिदिनं पूर्ववत् शयनकालीनारतिः सम्पन्ना भविष्यति तथा सामान्यदर्शनानि अपि यथापूर्वं प्रचलिष्यन्ति। आगामी २०२६ तमस्य वर्षस्य दिसम्बरमासस्य प्रथमदिनाङ्के भैरवाष्टम्याः अवसरे भगवान् ओङ्कारेश्वरः मालवभ्रमणात् प्रत्यागमिष्यति। तदा ढोल-नगाडावाद्यैः सह तस्य भव्यं स्वागतं भविष्यति तथा दोला-पालनसहितः शयन-शृङ्गारस्य क्रमः पुनः विधिवत् प्रारप्स्यते।

Hindusthan Samachar / Divya Ranjan