भारतस्वस्तिकयात्रायाः अन्तर्गतं कथावाचकः मोरारीबापुः उज्जयिनीं प्राप्तः, महाकालस्य दर्शनं कृतवान्
जनान् सनातनधर्मेण सह संयोजयितुमेव स्वस्तिकयात्रायाः उद्देश्यम् : मोरारीबापुः उज्जयिनीम्, १७ नवम्बरमासः (हि.स.)। प्रसिद्धः रामकथावाचकः मोरारीबापुः भारतस्वस्तिकयात्रायाः अन्तर्गतं प्रायः ९०० श्रद्धालुभिः सह मङ्गलवासरे धार्मिकनगरीम् उज्जयिनीं प्राप्त
महाकाल के दर्शन करते हुए मोरारी बापू


महाकाल मंदिर पहुंचे मोरारी बापू


जनान् सनातनधर्मेण सह संयोजयितुमेव स्वस्तिकयात्रायाः उद्देश्यम् : मोरारीबापुः

उज्जयिनीम्, १७ नवम्बरमासः (हि.स.)। प्रसिद्धः रामकथावाचकः मोरारीबापुः भारतस्वस्तिकयात्रायाः अन्तर्गतं प्रायः ९०० श्रद्धालुभिः सह मङ्गलवासरे धार्मिकनगरीम् उज्जयिनीं प्राप्तवान्। अत्र तेन सर्वप्रथमं श्रीमहाकालेश्वरमन्दिरे बाबा महाकालस्य दर्शनं कृत्वा पूजनार्चनं च कृतम् तथा तस्य आशीर्वादः प्राप्तः।

दर्शनानन्तरं बापुः शिप्रानद्याः रामघाटं प्राप्तवान्, यत्र तेन पूजनं कृतम्। ततः सः रामकथायाः आयोजने सम्मिलितः भूत्वा सहस्राधिकान् श्रद्धालून् कथां श्रावितवान्। बाबा महाकालस्य दर्शनानन्तरं सञ्चारमाध्यमैः सह सम्भाषणकाले मोरारीबापुः अवदत् यत् महाकालस्य दर्शनं कृत्वा सः स्वं धन्यं मन्यते। अद्य बाबा महाकालेन प्रसन्नतया दर्शनं प्रदत्तम् तथा तस्य आशीर्वादः अपि प्राप्तः इति तेन कथितम्।

स्वस्तिकयात्रायाः उद्देश्यम् अधिकृत्य बापुः अवदत् यत् एषा यात्रा भगवतः प्रेरणया प्रारब्धा अस्ति। जगद्गुरुणा आदिशङ्कराचार्येण चतुर्णां पीठानां स्थापनां कृत्वा येषु स्थानेषु धर्मस्य प्रचारः प्रसारश्च कृतः, तेषु सर्वेषु स्थानेषु वैदिकसनातनधर्मस्य सन्देशं प्रापयितुम् अस्याः यात्रायाः उद्देश्यम् अस्ति। एषा यात्रा जनान् आध्यात्मिकतया सह संयोजयितुं प्रयासः अस्ति इति तेन उक्तम्।

मोरारीबापुः महाकालमन्दिरस्य व्यवस्थाभिः सह पूजारिणः, पुरोहितान् प्रशासनं च प्रति कृतज्ञतां प्रकटितवान्। मन्दिरेण सम्बद्धाः जनाः सर्वदा तस्मै स्नेहं सम्मानं च प्रदत्तवन्तः इति तेन उक्तम्। मन्दिरस्य नूतनस्वरूपस्य विकासस्य श्रद्धालूनां कृते वर्धमानानां सुविधानां च स्वागतं कुर्वन् तेन मन्दिरप्रबन्धनाय प्रशासनाय च साधुवादः प्रदत्तः।

तेन उक्तं यत् सः बहुवर्षेभ्यः महाकालस्य दर्शनार्थम् उज्जयिनीम् आगच्छति तथा मन्दिरेण सह तस्य विशेषः आध्यात्मिकः सम्बन्धः अस्ति। अस्मिन् अवसरे तेन कागभुशुण्डि इत्यस्य मङ्गलकामनया अस्मिन्नेव मन्दिरे एकेन परमसाधुब्राह्मणदेवतेन रुद्राष्टकपाठः कृतः इति प्रसङ्गः अपि कथितः।

रामकथायाः महत्त्वविषये सः अवदत् यत् रामकथा संवादस्य शास्त्रम् अस्ति। एषा मनुष्यं जीवने अग्रे गन्तुं स्वजीवनं च अधिकं श्रेष्ठं कर्तुं प्रेरयति। जनान् सनातनधर्मेण सह संयोजयितुं एतादृश्यः यात्राः भवितव्याः इति बापुना उक्तम्। यात्रासु पदयात्रायाः विशेषं महत्त्वम् अस्ति तथा एषा सर्वश्रेष्ठं माध्यमम् अस्ति। तेन नववंशस्य युवभ्यः भगवन्तं श्रीहनुमन्तं स्वस्य आदर्शरूपेण स्वीक्रर्तुं परामर्शः प्रदत्तः। यदि ते हनुमतः आदर्शान् अनुसरन्ति, तर्हि तेषां भविष्यं उज्ज्वलं भविष्यति तथा राष्ट्रस्य गौरवम् अपि वर्धिष्यते इति तेन उक्तम्।

मोरारीबापोः रामकथाः देशविदेशयोः ९०० तः अधिकेषु स्थानेषु आयोजिताः सन्ति। सः अगस्तमासे २०२३ तमे वर्षे द्वादशज्योतिर्लिङ्गानां विशेषरामकथायात्रायाः ‘मानस-९००’ इत्यस्य अन्तर्गतं अपि उज्जयिनीम् आगतवान् आसीत्। तस्मिन् समये सः विशेषरेलयानेन नगरम् आगतवान्, बाबा महाकालस्य दर्शनं कृतवान् तथा सरस्वतीविद्यालयस्य समीपे रामकथां श्रावितवान्। अस्मात् पूर्वम् अपि सः सिंहस्थमेलायाम् अन्येषु धार्मिककार्य-क्रमेषु च भागं ग्रहीतुं उज्जयिनीम् आगच्छति स्म।

बापोः रामकथां श्रोतुं आयोजनस्थले देशस्य विभिन्नेभ्यः भागेभ्यः बहुसङ्ख्याकाः श्रद्धालवः आगतवन्तः। भक्तैः बापोः दर्शनं कृत्वा तस्य कथायाः श्रवणं कृतम्। श्रद्धालुभिः उक्तं यत् यदा तेभ्यः उज्जयिन्यां बापोः कथायाः आयोजनस्य सूचना प्राप्ता, तदैव ते अत्र आगमनस्य योजना निर्मितवन्तः। रामकथाश्रवणेन सह बापोः साक्षात् दर्शनस्य अवसरः प्राप्तः, एषः तेषां कृते विशेषः अनुभवः आसीत् इति तैः कथितम्।

Hindusthan Samachar / Divya Ranjan