Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १७ नवम्बरमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य राष्ट्रियाध्यक्षः नितिननवीनः बुधवासरे पञ्जाबराज्यस्य जालन्धरतः दलस्य १६ दिवसीयायाः ‘समरसतासङ्कल्पयात्रायाः’ हरितपताकां प्रदर्श्य शुभारम्भं करिष्यति। स्वस्य एकदिवसीयजालन्धरप्रवासस्य समये सः डेरासचखण्डबल्लां इत्यत्र पूजनार्चनं करिष्यति, जनसभां सम्बोधयिष्यति तथा सन्तसमाजेन सह सामूहिकभोजनस्य संवादकार्यक्रमस्य च भागं ग्रहीष्यति।
निर्धारितकार्यक्रमानुसारं नितिननवीनः मध्याह्ने १:१० वादने जालन्धरस्थे डेरासचखण्डबल्लाम् इत्यत्र सन्त-शिरोमणिगुरुरविदासजीमहाराजमन्दिरे दर्शनं पूजनार्चनं च करिष्यति। ततः मध्याह्ने १:३५ वादने जालन्धर-पठानकोट-राष्ट्रीयमार्गस्य समीपे डेरा-सचखण्डबल्लां इत्यस्य निकटस्थे रायपुरग्रामे समरसतासङ्कल्पयात्रायाः हरितपताकां प्रदर्श्य यात्रायाः शुभारम्भं करिष्यति। अस्मिन् अवसरे आयोज्यमानां जनसभाम् अपि सम्बोधयिष्यति। मध्याह्ने २:५५ वादने सः रायपुरग्रामे सन्तसमाजेन सह सामूहिकभोजनस्य संवादकार्यक्रमस्य च भागं ग्रहीष्यति।
गुरुरविदासस्य ६५०तमजयन्त्याः उपलक्ष्ये वर्षपर्यन्तं राष्ट्रियाभियानम्
प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शने भारतीयजनतापार्टी इत्यस्य राष्ट्रिया-ध्यक्षस्य नितिननवीनस्य नेतृत्वे दलं सन्तशिरोमणिगुरुरविदासस्य ६५०तमीं जयन्तीं वर्षपर्यन्तं प्रचल्यमानस्य राष्ट्रियमहोत्सवस्य रूपेण आयोजयति। अस्य राष्ट्रव्यापिनः अभियानस्य शुभारम्भः २९ जुलाईदिनाङ्के गुरुपूर्णिमायाः पावनावसरे काशीतः अभवत्।
अभियानस्य अन्तर्गतं अद्यावधि देशस्य विभिन्नेषु भागेषु प्रायः २९ सहस्राणि ‘कलशवन्दनायात्राः’ आयोजिताः सन्ति। एतदतिरिक्तं ३० सहस्राधिकैः सन्तैः सह सम्पर्कः स्थापितः अस्ति तथा सामाजिक-समरसतायाः सन्देशं जनसामान्यं प्रति प्रसारयितुं प्रायः ५१ सहस्रस्थानेषु ‘समरसदीपमहोत्सवाः’ आयोजिताः सन्ति।
सप्तसु राज्येषु केन्द्रशासितप्रदेशेषु च गमिष्यति यात्रा
अस्यैव अभियानस्य अग्रिमश्रृंखलारूपेण नवम्बरमासस्य १८ दिनाङ्कतः डिसेम्बरमासस्य ३ दिनाङ्कपर्यन्तं १६ दिवसीया समरसतासङ्कल्पयात्रा आयोज्यते। जालन्धरतः प्रारभ्यमाणा एषा यात्रा पञ्जाबम्, हिमाचलप्रदेशम्, उत्तराखण्डम्, चण्डीगढम्, हरियाणाम्, दिल्लीम्, उत्तरप्रदेशं च अतिक्रम्य गमिष्यति। अस्यां यात्रायां कुलम् २,४०२ किलोमीटरपरिमितं दूरत्वं पारयिष्यते तथा डिसेम्बरमासस्य ३ दिनाङ्के काश्यां यात्रायाः समापनं भविष्यति।
यात्रायाः अवधौ १०० अधिकाः लघुजनसभाः तथा १७ बृहद्-कार्यक्रमाः आयोजयिष्यन्ते। एतेषु कार्यक्रमेषु केन्द्रीयमन्त्रिणः भारतीयजनतापार्टी इत्यस्य राष्ट्रिय-पदाधिकारिणश्च सहभागितां करिष्यन्ति। एतैः कार्यक्रमैः सन्तरविदासस्य विचारान्, विशेषतः तस्य ‘बेगमपुरा’ अर्थात् दुःखरहितसमाजस्य परिकल्पनां सामा-जिकसमानतायाः सन्देशं च जनसामान्यं प्रति प्रसारयिष्यन्ति।
भारतीयजनतापार्टी इत्यस्य अस्य अभियानस्य अन्तर्गतं विभिन्नराज्येषु आयोज्यमानैः कार्यक्रमैः गुरुरविदासस्य शिक्षाः सामाजिकसमरसतायाः विचाराश्च जनसामान्यं प्रति प्रसारयितुं योजना अस्ति।
Hindusthan Samachar / Divya Ranjan