Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 17 नवंबरमासः (हि.स.)।
भारतीयवातावरणविज्ञानविभागेन आगामीदिनेषु ओडिशाराज्यस्य अनेकभागेषु अतिवृष्टेः अत्यधिकवृष्टेश्च सम्भावना व्यक्तीकृत्य राज्यसर्वकारेण बाढापदायाः निवारणाय सज्जताः तीव्रतराः कृताः। विशेषतः दक्षिणओडिशायाः जनपदेषु सम्भावितजलप्लावनस्थितिं दृष्ट्वा सतर्कता वर्धिता अस्ति। जलसम्पद्विभागस्य प्रमुखसचिवा शुभाशर्मा उच्चस्तरीयसमीक्षोपवेशनस्य अध्यक्षतां कुर्वती वर्तमानवातावरणस्थितेः सम्भावितबाढापदायाः निवारणाय च कृतानां सज्जतानाम् अवलोकनं कृतवती। तया अधिकारिभ्यः सतर्काः स्थातुं, संवेदनशीलनदीक्षेत्राणां नियमितनिरीक्षणं कर्तुं तथा समये एव सावधानतामूलकानि पदानि स्वीकर्तुं निर्देशाः प्रदत्ताः, येन जनजीवनं, सम्पत्तिः तथा महत्त्वपूर्णाः जलसम्पदः संरचनाश्च सुरक्षिताः स्थातुं शक्नुयुः।
उपवेशने नदीद्रोणीप्रबन्धनस्य, जलाशयानां सञ्चालनस्य तथा बाढनियन्त्रणस्य सज्जतानां समीक्षा कृता। अस्मिन् ऋषिकुल्या, बाहुदा, वंशधारा तथा तेलङ्गिरीनदीप्रणालीभिः सह इबद्रोण्याः पोतेरुबन्धस्य च विषये विशेषं ध्यानं दत्तम्। मुख्याभियन्त्रा सम्भावितमौसमस्थितेः तथा नदीनां जलप्रवाहवृद्धेः आशङ्कायाः निवारणाय आवश्यकोपायानां विषये सूचनाः प्रदत्ताः। उपवेशने जलाशयानां द्वाराणि उद्घाटयितुं पिधातुं च उचितसमयस्य तथा आवश्यकतायां नियन्त्रितरूपेण जलविसर्गस्य व्यवस्थायाः विषये अपि चर्चा अभवत्। अधिकारिभ्यः निर्देशः प्रदत्तः यत् अधोवर्तिक्षेत्रेषु बाढापदां न्यूनीकर्तुं जलाशयानां द्वाराणां सञ्चालनं सावधानतया क्रियताम्। बैतरणीद्रोण्याः सहितम् अन्येषु संवेदनशीलक्षेत्रेष्वपि विशेषसतर्कता पालनीया इति उक्तम्।
क्षेत्रस्तरीयसज्जतानां प्राथमिकतां ददती प्रमुखसचिवा अभियन्तृभ्यः विभागीयाधिकारिभ्यश्च संवेदनशीलनदीतटबन्धानां, पूर्वं बाढपीडितक्षेत्राणां तथा जलप्लावनस्य सम्भावनायुक्तस्थानानां च परिचयं कृत्वा तेषां निरन्तरनिरीक्षणं कर्तुं निर्देशं दत्तवती। तया नियमितनिरीक्षणं, पर्याप्तसंख्यायां सिकतापूरितानां बोरिकाणां अन्येषां रक्षणसामग्रीणां च उपलब्धतां सुनिश्चितं कर्तुं तथा संवेदनशीलस्थानेषु विभागीयकर्मचारिणां नियुक्तिं कर्तुं विशेषबलं प्रदत्तम्, येन आपत्काले तत्कालं कार्यवाही कर्तुं शक्येत।
आरबीवीएनद्रोण्यां निरीक्षणव्यवस्थायाः सुदृढीकरणे विशेषबलं दत्तम्। अपरतः इबद्रोण्यां प्रतिहोरं जलस्तरस्य निरीक्षणं तथा सुव्यवस्थितं जलप्रबन्धनं सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः। शुभाशर्मा अभियन्तॄन् क्षेत्रीयाधिकारिणश्च परस्परसमन्वयेन कार्यं कर्तुं तथा परिस्थित्यानुसारं समये सक्रियपदानि स्वीकर्तुम् आहूतवती। तया उक्तं यत् परिवर्तमानमौसमस्थितौ समयबद्धनिर्णयः, प्रभावीसम्पर्कव्यवस्था तथा क्षेत्रस्तरे तत्परता अत्यन्तं महत्त्वपूर्णा अस्ति।
उपवेशने राज्यसर्वकारस्य सम्भावितबाढापदः न्यूनीकर्तुं, अधोवर्तिक्षेत्रेषु निवसतां जनानां सुरक्षा सुनिश्चितं कर्तुं तथा अतिवृष्टिकाले जलसम्पदसम्बद्धानाम् आधारभूतसंरचनानां प्रभाविप्रबन्धनं कर्तुं च प्रतिबद्धता पुनरुक्ता।
---------------
Hindusthan Samachar / Dheeraj Maithani