हरदीपपुरिणा मध्यप्रदेशतः राज्यसभायाः सदस्यरूपेण शपथ: गृहीत:
नवदिल्ली, १७ नवम्बरमासः (हि.स.)। केन्द्रीयपेट्रोलियमप्राकृतिकवायुमन्त्री हरदीपसिंहपुरी मङ्गलवासरे मध्यप्रदेशतः राज्यसभायै निर्वाचितसदस्यरूपेण शपथं गृहीतवान्। राज्यसभायाः सभापतिना सीपीराधाकृष्णने संसद्भवने स्थिते स्वकीयकार्यालये तस्मै शपथ: कारित:।
हरदीप सिंह पुरी मंगलवार को राज्यसभा सदस्य के रूप में शपथ लेने के बाद सभापति सी. पी. राधाकृष्णन, केंद्रीय मंत्री डॉ. मनसुख मांडविया एवं राजीव रंजन सिंह और केंद्रीय विधि एवं न्याय राज्य मंत्री (स्वतंत्र प्रभार) अर्जुन राम मेघवाल के साथ।


नवदिल्ली, १७ नवम्बरमासः (हि.स.)। केन्द्रीयपेट्रोलियमप्राकृतिकवायुमन्त्री हरदीपसिंहपुरी मङ्गलवासरे मध्यप्रदेशतः राज्यसभायै निर्वाचितसदस्यरूपेण शपथं गृहीतवान्। राज्यसभायाः सभापतिना सीपीराधाकृष्णने संसद्भवने स्थिते स्वकीयकार्यालये तस्मै शपथ: कारित:।

शपथग्रहणसमारोहे केन्द्रीयमन्त्री डॉ. मनसुखमाण्डविया, राजीवरञ्जनसिंहः, अर्जुनराममेघवालः, राज्यसभायाः महा-सचिवः पीसीमोदी तथा सचिवालयस्य अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।

उल्लेखनीयम् अस्ति यत् पुरी पञ्चमदिनाङ्के नवम्बरमासे मध्यप्रदेशतः राज्यसभायाः उपनिर्वाचने निर्विरोधं निर्वाचितः अभवत्। एल. मुरुगनस्य त्यागपत्रस्य अनन्तरम् इयं पीठिका रिक्ता अभवत्। मध्यप्रदेशतः निर्वाचितः भवितुं पूर्वं पुरिणा उत्तरप्रदेशतः स्वकीयायाः राज्य-सभासदस्यतायाः त्यागपत्रं प्रदत्तम् आसीत्। तस्याः पीठिकायाः कार्यकालः नवम्बरमासे एव समाप्तं भवितुम् आसीत्।

Hindusthan Samachar / Divya Ranjan