असम-हरियाणयोः अनुसूचितजातिवित्तविकासनिगमौ परस्परं सहकारितां करिष्यतः।
असमप्रतिनिधिमण्डलेन हरियाणामुख्यालयस्य भ्रमणं कृतम् चण्डीगढम्, १७ नवम्बरमासः (हि.स.)। असमराज्यस्य अनुसूचितजातिवित्तविकासनिगमस्य उपाध्यक्षः सिमन्तदासः तथा निदेशकमण्डलस्य सदस्याः मङ्गलवासरे हरियाणाराज्यस्य अनुसूचितजातिवित्तविकासनिगमस्य मुख्यालयस्य भ
हरियाणा अनुसूचित जाति वित्त एवं विकास निगम के प्रतिनिधि असम के प्रतिनिधियाें के साथ बैठक करते हुए


असमप्रतिनिधिमण्डलेन हरियाणामुख्यालयस्य भ्रमणं कृतम्

चण्डीगढम्, १७ नवम्बरमासः (हि.स.)। असमराज्यस्य अनुसूचितजातिवित्तविकासनिगमस्य उपाध्यक्षः सिमन्तदासः तथा निदेशकमण्डलस्य सदस्याः मङ्गलवासरे हरियाणाराज्यस्य अनुसूचितजातिवित्तविकासनिगमस्य मुख्यालयस्य भ्रमणं कृतवन्तः। अस्मिन् अवसरे हरियाणाराज्यस्य अनुसूचितजातिवित्तविकासनिगमस्य अध्यक्षः बलदेवसिंहग्रोहः, प्रबन्धनिदेशिका डॉ. वन्दना दिसोदिया तथा निगमस्य अन्ये अधिकारिणः अपि उपस्थिताः आसन्।

अस्मिन् अवसरे उभयोः निगमयोः प्रतिनिधीनां मध्ये अनुसूचितजातिवर्गस्य योग्यलाभार्थिनां आर्थिकसामाजिकाभ्युदयस्य उद्देश्यम् आधृत्य सञ्चालितानां विविधानां ऋणयोजनानां सञ्चालनस्य प्रभावीक्रियान्वयनस्य च विषये विस्तृतः विचारविमर्शः अभवत्।

उपवेशने स्वरोजगारस्य, उद्यमिताविकासस्य तथा नवीनव्यवसायानां स्थापनार्थं वित्तीयसहायतायाः उपलब्धतायाः विविधोपायानाम् अपि चर्चा अभवत्। अतिरिक्ततया ऋणवितरणप्रक्रियाम् अधिकं प्रभावशालिनीं कर्तुं, योजनानां लाभं योग्यलाभार्थिभ्यः प्रापयितुं तथा वितरितानां ऋणानां समयबद्धाम् प्रभाविणीं च वसूलीं सुनिश्चितां कर्तुं स्वीकरणीयानां रणनीतीनां विषये अपि उभयपक्षैः स्वानुभवाः परस्परं संविभक्ताः।

उभयोः निगमयोः प्रतिनिधयः परस्परस्य योजनाभ्यः, कार्यप्रणालीभ्यः तथा सफलप्रयासेभ्यः शिक्षां गृहीत्वा अनुसूचितजातिवर्गस्य आर्थिकसशक्तीकरणाय आत्मनिर्भरत्वस्य च संवर्धनाय परस्परसहकारितां समन्वयं च निरन्तरं स्थापयितुं बलं दत्तवन्तः।

Hindusthan Samachar / Dheeraj Maithani