सारणनिर्वाचनसाक्षरतामण्डलेषु निबन्धप्रतियोगितायाः प्रश्नोत्तरप्रतियोगितायाश्च त्रिषु चरणेषु आयोजनं भविष्यति।
सारणम्, 17 नवंबरमासः (हि.स.)। भारतनिर्वाचनायोगस्य निर्देशानुसारं जनपदस्य सर्वेषु निर्वाचनसाक्षरतामण्डलेषु छात्राणां मध्ये लोकतान्त्रिकमूल्यानां, मतदानाधिकारस्य उत्तरदायिनागरिकतायाश्च विषये जागरूकतायाः विकासोद्देश्येन निबन्धप्रतियोगितानां प्रश्नोत
सारणनिर्वाचनसाक्षरतामण्डलेषु निबन्धप्रतियोगितायाः प्रश्नोत्तरप्रतियोगितायाश्च त्रिषु चरणेषु आयोजनं भविष्यति।


सारणम्, 17 नवंबरमासः (हि.स.)।

भारतनिर्वाचनायोगस्य निर्देशानुसारं जनपदस्य सर्वेषु निर्वाचनसाक्षरतामण्डलेषु छात्राणां मध्ये लोकतान्त्रिकमूल्यानां, मतदानाधिकारस्य उत्तरदायिनागरिकतायाश्च विषये जागरूकतायाः विकासोद्देश्येन निबन्धप्रतियोगितानां प्रश्नोत्तरप्रतियोगितानां च आयोजनं क्रियते। अस्मिन्निमित्तं जनपदनिर्वाचनाधिकारी-सह-जिलाधिकारी वैभव श्रीवास्तव इत्यनेन आवश्यकाः निर्देशाः निर्गताः।

प्रतियोगितानाम् आयोजनं त्रिषु चरणेषु निर्धारितम् अस्ति। प्रथमचरणस्य आयोजनं नवम्बरमासस्य १७ दिनाङ्कतः २२ दिनाङ्कपर्यन्तं विद्यालयमहाविद्यालयस्तरे भवति। अस्मिन् प्रत्येकस्मात् मण्डलात् द्वौ प्रतिभागिनौ चयनितौ भविष्यतः। द्वितीयचरणस्य आयोजनं नवम्बरमासस्य २४ दिनाङ्कतः २७ दिनाङ्कपर्यन्तं विधानसभाक्षेत्रस्तरे भविष्यति, यत्र दश श्रेष्ठप्रतिभागिनः चयनिताः भविष्यन्ति। तृतीयस्य अन्तिमचरणस्य आयोजनं नवम्बरमासस्य २९ दिनाङ्कतः दिसम्बरमासस्य १ दिनाङ्कपर्यन्तं जनपदस्तरे भविष्यति। अस्मिन् चयनिताः प्रतिभागिनः भागं ग्रहीष्यन्ति तथा अन्तिमरूपेण दश विजेतारः चयनिताः भविष्यन्ति।

परिणामानां घोषणा प्रमाणपत्राणां वितरणं च दिसम्बरमासस्य ३ दिनाङ्के भविष्यति। जनपदस्तरीयप्रतियोगितानां सञ्चालनं जनपदशिक्षाधिकारिणः तथा सारणस्य उपनिर्वाचनाधिकारिणः मार्गदर्शने भविष्यति। प्रश्नपत्राणाम् अन्येषां च आवश्यकव्यवस्थानां दायित्वम् अवरनिर्वाचनाधिकारी सोनपुर इत्यस्य कृते निर्धारितम् अस्ति। प्रशासनद्वारा छात्राणां अधिकाधिकसहभागितायाः सुनिश्चितीकरणे विशेषं बलं प्रदीयते।

---------------

Hindusthan Samachar / Dheeraj Maithani