Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 17 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदस्य नवागतः जिलाधिकारी उमेशमिश्रः अद्य अवदत् यत् शासनस्य जनकल्याणकारीयोजनानां लाभं समाजस्य अन्तिमव्यक्तिपर्यन्तं प्रापयितुं तस्य प्राथमिकता भविष्यति। एतदर्थं सर्वेषां विभागानां अधिकारिभिः सह दलभावनया कार्यं क्रियते। तेन स्पष्टं कृतं यत् प्रशासनिककार्येषु शून्यसहिष्णुतायाः नीतिः अनुसरिष्यते तथा च सामान्यजनाः एकस्यैव कार्यस्य कृते पुनः पुनः शासकीयकार्यालयानां चक्करान् न कर्तुं बाध्याः भविष्यन्ति।
मङ्गलवासरे कार्यभारग्रहणानन्तरं पत्रकारवार्तायां जिलाधिकारिणा स्वप्राथमिकताः निर्दिष्टाः। तेन उक्तं यत् सामान्यजनानां समस्याणां समयबद्धं प्रभावि च निराकरणं सुनिश्चितं करिष्यते। प्रशासनस्य प्रयासः भविष्यति यत् जनाः शासकीयसेवानां लाभं सरलतया सुगमतया च प्राप्तुं शक्नुयुः।
तेन सूचितं यत् भारतनिर्वाचनायोगस्य निर्देशानुसारं विशेषमतदातृसूचीपुनरीक्षणाभियानं प्रचलति। अस्य अन्तर्गतं मतदातृसूच्याः प्रकाशनं क्रियते तथा च विभिन्नेषु मतदानकेन्द्रेषु मतदानकेन्द्रस्तरीयाधिकारिणां माध्यमेन विशेषशिबिराणि आयोज्यन्ते। तेन जनपदवासिभ्यः आग्रहः कृतः यत् ते मतदातृसूच्यां स्वनाम अवश्यं परीक्षेरन्। अष्टादशवर्षाणि पूर्णानि कृतवन्तः ये युवजनाः, तेषां नाम यदि सूच्यां न समाविष्टम् अस्ति, तर्हि ते प्रपत्रं षट् पूरयित्वा स्वनाम योजयितुं शक्नुवन्ति। मतदातृसूचीतः नाम निष्कासयितुं तु प्रपत्रं सप्त उपयोक्तुं शक्यते।
जिलाधिकारी अवदत् यत् मतदातृसूचीपुनरीक्षणाभियानं प्रभावपूर्णं कर्तुं राजनैतिकदलैः, सामाजिकसङ्घटनैः, शिक्षकगणैः छात्रसमूहैः च सह उपवेशनानि आयोजयिष्यन्ते। एतदतिरिक्तं जनान् जागरूकान् कर्तुं विशेषाभियानमपि चालिष्यते।
जिलाधिकारी सूचितवान् यत् जनगणनायाः प्रक्रिया प्रारब्धा अस्ति। तेन नागरिकेभ्यः अस्यां प्रक्रियायां सक्रियभागग्रहणं कर्तुं तथा च याचितां सूचनां सम्यक्तया प्रदातुं च आग्रहः कृतः। तेन स्पष्टं कृतं यत् जनगणनायाः समये कस्यापि व्यक्तेः किमपि दस्तावेजं दातुं आवश्यकता नास्ति। तथैव जनान् सावधानं कृतवान् यत् ते कस्मैचित् अपि स्वकीयम् ओटीपी सङ्केतं न दद्युः।---------
Hindusthan Samachar / Dheeraj Maithani