अमितशाहः गुरुवासरे आतङ्कवादविरोधिसम्मेलनस्य द्विदिवसीयस्य उद्घाटनं करिष्यति, सीमापारातङ्कवादविषये भविष्यति विचारविमर्शः।
नवदिल्ली, 18 नवंबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः गुरुवासरे नवदेहल्यां आतङ्कवादविरोधिसम्मेलनस्य द्विदिवसीयस्य उद्घाटनं करिष्यति। राष्ट्रियान्वेषणाभिकरणस्य (एन.आइ.ए.) आयोजनेन अस्मिन् वर्षे आयोजितस्य सम्मेलनस्य मुख्यविष
केंद्रीय गृह मंत्री अमित शाह (फाइल फोटो)


नवदिल्ली, 18 नवंबरमासः (हि.स.)।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः गुरुवासरे नवदेहल्यां आतङ्कवादविरोधिसम्मेलनस्य द्विदिवसीयस्य उद्घाटनं करिष्यति। राष्ट्रियान्वेषणाभिकरणस्य (एन.आइ.ए.) आयोजनेन अस्मिन् वर्षे आयोजितस्य सम्मेलनस्य मुख्यविषयः ‘सीमापारातङ्कवादः’ इति वर्तते। अस्मिन् आतङ्कवादजनितानाम् उद्भवमानानां संकटानां तेषां निवारणाय च रणनीतीनां विषये सुरक्षाभिकरणानां, अन्वेषकाणां विशेषज्ञाणां च मध्ये विचारविमर्शः भविष्यति।

गृहमन्त्रालयेन बुधवासरे निर्गते विज्ञप्तौ उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः आतङ्कवादस्य प्रति शून्यसहिष्णुतायाः नीतिम् अनुसृत्य अस्य सम्मेलनस्य आयोजनं क्रियते। अस्य उद्देश्यं आतङ्कवादस्य विरुद्धं राष्ट्रस्य सामूहिककार्यवाहीं अधिकं सुदृढां कर्तुं तथा च विभिन्नसुरक्षाभिकरणानां मध्ये उत्तमसमन्वयं स्थापयितुम् अस्ति।

प्रतिवर्षम् आयोजितम् इदं सम्मेलनम् आतङ्कवादविरोधिकार्याभियानैः सम्बद्धानां सुरक्षाभिकरणानाम्, अन्वेषणसंस्थानां तथा तकनीकी, विधिक एवं न्यायवैज्ञानिकविशेषज्ञानां विचारविनिमयस्य महत्त्वपूर्णं मञ्चं जातम् अस्ति। अस्मिन् वर्षे सर्वकारस्य समग्रदृष्टिकोणस्य अन्तर्गतं सर्वेषां सम्बद्धपक्षाणां मध्ये समन्वयवर्धने विशेषः बलः प्रदास्यते। अस्य माध्यमेन आतङ्कवादस्य विरुद्धं समन्वितकार्यवाहीं कर्तुं औपचारिकानौपचारिकतन्त्राणां विकासाय तथा भविष्यस्य नीतिनिर्माणार्थं सुझावान् प्राप्तुं प्रयासः क्रियते।

सम्मेलने विदेशेभ्यः साक्ष्यसङ्कलनम्, आतङ्कवादसम्बद्धानां प्रकरणानाम् अन्वेषणे अङ्कीयन्यायवैज्ञानिकप्रविधेः दत्तांशविश्लेषणस्य च उपयोगः तथा न्यायिकप्रकरणानां प्रभाविप्रबन्धनम् इत्येतेषु विषयेषु चर्चा भविष्यति। अपि च कट्टरपन्थस्य निवारणम्, गुप्तचर्याकार्याणि तथा राष्ट्रसुरक्षायाः कृते उद्भवमानानां मिश्रितस्वरूपयुक्तानां संकटानां विषये अपि विविधाः विचारसत्राः आयोजयिष्यन्ते।

आतङ्कवादस्य वित्तपोषणसम्बद्धानां जालानां विघटनाय उपलब्धानां साधनानां, तकनीकानां तथा विभिन्नप्रकरणानाम् अनुभवानां विषये अपि विचारविमर्शः भविष्यति। तथैव भविष्यत्कालीनानां चुनौतीनां निवारणाय आतङ्कवादनिरोधकनीतीनां निर्माणे संस्थागतक्षमतानां सुदृढीकरणे च चर्चा भविष्यति।

अस्मिन् वर्षे सम्मेलनावसरे राज्यपुलिसकर्मचारिणां तथा सम्बद्धक्षेत्रेषु कार्यरतव्यावसायिकानां कृते क्षमतासंवर्धनप्रशिक्षणकार्यक्रमः अपि आयोजयिष्यते। अस्मिन् नूतनानां आपराधिकविधानानाम् अन्तर्गतं आतङ्कवादीप्रकरणानाम् अन्वेषणम्, अभियोजने अङ्कीयसाक्ष्याणाम् उपयोगः, न्यायिकप्रकरणानां रणनीतिः प्रबन्धनं च, आतङ्कवादीप्रकरणानाम् अन्वेषणसम्बद्धाः विशेषप्रावधानाः तथा साक्षिणां सुरक्षा इत्यादयः विषयाः समाविष्टाः भविष्यन्ति। अपि च प्रतिरक्षापक्षेण प्रस्तुतानां सामान्यचुनौतीनां तथा अभियोजनप्रक्रियायाः उन्नयनाय सर्वकारेण कृतानाम् उपक्रमाणां विषये अपि प्रशिक्षणं प्रदास्यते।

अस्मिन् द्विदिवसीये सम्मेलने विभिन्नराज्यानां केन्द्रशासितप्रदेशानां च वरिष्ठाः पुलिसाधिकारिणः, आतङ्कवादनिरोधककार्यैः सम्बद्धानां केन्द्रीयाभिकरणानां विभागानां च अधिकारिणः तथा विधि, न्यायवैज्ञानिकप्रौद्योगिकीक्षेत्राणां विशेषज्ञाः भागं ग्रहीष्यन्ति। सम्मेलने अन्वेषणकाले प्राप्तानाम् अनुभवानां, उत्तमकार्यपद्धतीनां तथा आतङ्कवादसम्बद्धप्रकरणेभ्यः प्राप्तानां शिक्षाणां च आदानप्रदानं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani