Enter your Email Address to subscribe to our newsletters


इटानगरम्, १८ नवम्बरमासः (हि.स.)। अरुणाचलप्रदेशस्य मुख्यमन्त्रिणा पेमा-खाण्डू-महोदयेन बुधवासरे इटानगरस्य गोहपुरे जू-मार्गे ‘विक्रयणच्छदस्य’ उद्घाटनं कृतम्। अस्मिन् अवसरे नगरनियोजन-मन्त्री बालो-राजा, इटानगरस्य विधायकः टेची-कासो, विधायकः जिङ्गनू-नामचूमः तथा इटानगरनगरनिगमस्य महापौरः लिखा-नारी-तदारः अपि उपस्थिताः आसन्।
उपस्थितान् जनान् सम्बोधयन् मुख्यमन्त्री खाण्डूः उक्तवान् यत् अयं विक्रयणच्छदः राज्यस्य महिलाभ्यः समर्पितः अस्ति। अनेन महिला-विक्रेतॄणाम् आर्थिकस्थितौ सुधारः भविष्यति।
सः सामान्यजनान् विशेषतः विक्रेतॄन् च परामर्शं दत्तवान् यत् तेभ्यः प्रदत्तानां मूलभूतसुविधानां सम्यक् परिपालनं कुर्वन्तु तथा ताः स्वच्छाः स्थापयन्तु।
सुव्यवस्थितविक्रयणस्य, उत्तमजीविकायाः तथा इटानगरस्य विकासस्य दिशि कृतस्य अस्य महत्त्वपूर्णस्य प्रयासस्य कृते सः नगरनिगमस्य प्रशंसाम् अकरोत्।
सः नगरनिगमाय आश्वासनं दत्तवान् यत् राज्यसर्वकारः तस्मै सर्वसम्भवं सहयोगं प्रदास्यति। सः नगरनिगमम् इदमपि परामृष्टवान् यत् ये विक्रेतारः स्वव्यवसायस्य विस्तारं कर्तुम् इच्छन्ति, तेषां साहाय्यं कुर्वन्तु तथा विभिन्नानां योजनानां माध्यमेन तेभ्यः बैंकसम्बद्धाः वित्तीयसुविधाः उपलब्धाः कारयन्तु।
तथैव सः सर्वान् इटानगरराजधानीक्षेत्रे स्वच्छतां परिपालनं च कर्तुं आह्वानम् अकरोत्। अस्मिन् विक्रयणच्छदे जलनिकासव्यवस्था, वस्तुसञ्चयाय सुरक्षितकोष्ठाः, शौचालयाः, वाहन-स्थानकव्यवस्था तथा उपवेशनाय पृथक् स्थानम् इत्यादयः सुविधाः सन्ति। विक्रेतॄणां कृते कार्यकरणार्थं सुव्यवस्थितं, स्वच्छं तथा सम्मानजनकं स्थानं प्रदातुं तस्य निर्माणं कृतम् अस्ति।
अस्य प्रमुखम् उद्देश्यम् अस्ति यत् नगरनिगमस्य अतिक्रमणविरोधि-अभियानानां समये ये विक्रेतारः पूर्वस्थानात् निष्कासिताः आसन्, तेभ्यः सुव्यवस्थितं स्थानं प्रदीयेत। अनेन ते सम्मानपूर्वकं स्वजीविकां निर्वोढुं शक्नुवन्ति तथा स्वच्छस्य सुव्यवस्थितस्य च इटानगरस्य निर्माणे योगदानं दातुं शक्नुवन्ति।
मुख्यमन्त्री उक्तवान् यत् अस्याः महत्त्वपूर्णायाः योजनायाः सफलतायै इटानगरनगरनिगमस्य महापौरायै लिखा-नारी-तदारायै तथा अस्मिन् कार्ये संलग्नेभ्यः सर्वेभ्यः धन्यवादान् समर्पयामि। राजधानीक्षेत्रस्य बृहत्तमस्य विक्रयणच्छदस्य स्थापनायै च सः सर्वान् अभिनन्दितवान्।
Hindusthan Samachar / Divya Ranjan