Enter your Email Address to subscribe to our newsletters


प्रदेशवासिनां सुखसमृद्ध्यर्थं प्रगतये च मङ्गलकामना कृता
भोपालम्, १८ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मन्दसौरजनपदे गान्धी-सागरजलाशयस्य तटे बुधवासरे मन्त्रिमण्डलसभायाः पूर्वं मातुः चम्बलायाः भव्यायाः आरत्याः आयोजनं कृतम्। मुख्यमन्त्री डॉ. मोहनयादवः मातुः चम्बलायाः आरार्तिकीं कृत्वा प्रदेशस्य सुखसमृद्ध्यै, सुखशान्त्यै विकासाय च मङ्गलकामनां कृतवान्।
आरत्याः समये दीपानां प्रकाशेन, शङ्खनादेन चम्बलामातुः जयघोषैश्च सम्पूर्णः तटप्रदेशः भक्तिमयः अभवत्। मुख्यपूजारिणा कैलाशभट्टेन सह बटुकैः सहितैः एकविंशतिः पूजारिभिः वैदिकमन्त्राणां घोषमध्ये विधिविधानपूर्वकं मातुः चम्बलायाः पूजनम् अर्चनं च सम्पन्नं कारितम्। अस्मिन् अवसरे मन्त्रिणः, विधायकाः, जनप्रतिनिधयः, अधिकारिणः, कर्मचारीणः पर्यटकाः च आरार्तिक्यां भागं गृहीतवन्तः।
चम्बला मालवप्रदेशस्य जीवनरेखा श्रद्धाकेन्द्रं च
मुख्यमन्त्री डॉ. यादवः अवदत् यत् भगवत: पशुपतिनाथस्य प्रभावक्षेत्रे चम्बलामातुः तटे स्थितस्य गान्धीसागरस्य सम्बन्धः गङ्गानद्या सह सम्बद्धः भवति। क्षिप्रानदी चम्बलायां मिलति तथा च एषा जलधारा अग्रे गत्वा यमुनानद्यां विलीयते। चम्बलानद्याः अभावे यमुनायाः जलधारा अपूर्णा भवति। सहस्रवर्षेभ्यः मन्दसौर-नीमचजनपदयोः राजस्थानस्य धौलपुरस्य भिण्ड-मुरैनाक्षेत्रस्य च जनाः चम्बलामातुः आशीर्वादं प्राप्नुवन्ति स्म। चम्बलानदी केवलं जलस्य स्रोतः नास्ति, अपितु मालवप्रदेशस्य संस्कृतेः, श्रद्धायाः जीवनरेखा च अस्ति। चम्बलानद्यां घडियालाः डॉल्फिनमत्स्याश्च अपि निवसन्ति। तस्याः संरक्षणाय, स्वच्छतायै संवर्धनाय च सर्वैः सङ्कल्पः करणीयः।
गान्धीसागरः पर्यटनस्य श्रद्धायाश्च सङ्गमस्थलम् अभवत्
चम्बलानद्यां स्थितः गान्धीसागरजलाशयः एशियायाः प्रमुखेषु मानवैर्निर्मितेषु जलाशयेषु अन्यतमः अस्ति। सः मन्दसौर-नीमचजनपदाभ्यां सह सम्पूर्णस्य प्रदेशस्य सामाजिक-आर्थिकविकासस्य सशक्तं केन्द्रम् अभवत्। गान्धीसागरबन्धक्षेत्रस्य सम्पूर्णं जलग्रहणक्षेत्रं पृष्ठजलक्षेत्रस्य च प्राकृतिकं सौन्दर्यं स्विट्जरलैण्डदेशस्य पर्वतीयप्रदेशेभ्यः अपि अधिकम् आनन्ददायकम् अस्ति।
अत्र वनविश्रामस्थलम्, तम्बुनगरी, जलक्रीडाः साहसिकक्रियाकलापाश्च सन्ति। अधुना मातुः चम्बलायाः आरतिः अपि पर्यटनस्य प्रमुखम् आकर्षणं भवति। कार्यक्रमे उपस्थितैः मन्त्रिमण्डलस्य सदस्यैः, जनप्रतिनिधिभिः, अधिकारिभिः श्रद्धालुभिश्च चम्बलानद्याः स्वच्छतां रक्षितुं, जलस्य सदुपयोगं कर्तुं पर्यावरणसंरक्षणे योगदानं दातुं च सङ्कल्पः कृतः।
Hindusthan Samachar / Divya Ranjan