कुलदीप इव प्रतिभाशालिनं क्रीडकं दलात् निर्गन्तुं अनुमतिः सुकरा नासीत् : सौरव गाङ्गुली
नवदिल्ली, 18 नवंबरमासः (हि.स.)। दिल्ली कैपिटल्स्-दलस्य मुख्यप्रशिक्षकः सौरव गाङ्गुली उक्तवान् यत् कुलदीपसदृशं प्रतिभाशालिनं क्रीडकं दलात् मुक्तं कर्तुं सरलः निर्णयः नासीत्। दलस्य सन्तुलनं तथा फलन्दाजक्रीडकस्य आवश्यकता च दृष्ट्वा फ्रेञ्चाइजी-संस्थय
फोटो


नवदिल्ली, 18 नवंबरमासः (हि.स.)। दिल्ली कैपिटल्स्-दलस्य मुख्यप्रशिक्षकः सौरव गाङ्गुली उक्तवान् यत् कुलदीपसदृशं प्रतिभाशालिनं क्रीडकं दलात् मुक्तं कर्तुं सरलः निर्णयः नासीत्। दलस्य सन्तुलनं तथा फलन्दाजक्रीडकस्य आवश्यकता च दृष्ट्वा फ्रेञ्चाइजी-संस्थया एषः निर्णयः स्वीकर्तव्यः अभवत्।

इण्डियन प्रीमियर लीग (आईपीएल) २०२७ इत्यस्य लघु-क्रीडक-नीलामात् पूर्वं सर्वैः दश फ्रेञ्चाइजी-दलैः स्वधारितानां तथा मुक्तानां क्रीडकानां सूची प्रकाशिता अस्ति। दिल्ली कैपिटल्स् (डीसी) दलेन स्वस्य बहवः प्रमुखाः क्रीडकाः मुक्ताः कृताः। दलेन प्रमुखः फिरकीगोलन्दाजः कुलदीप यादवः लखनऊ सुपर जायण्ट्स् दलेन सह क्रीडक-विनिमयेन समर्पितः। तस्य स्थाने दलेन यष्टिरक्षकं फलन्दाजं ऋषभ पन्तं स्वदले सम्मिलितं कृतम्।

जियोस्टार इत्यस्य ‘टाटा आईपीएल २०२७ रिटेन्शन स्पेशल’ इति कार्यक्रमे गाङ्गुली उक्तवान् यत् कुलदीपस्य क्रीडक-विनिमयः कठिनः निर्णयः आसीत्। सः अत्यन्तं विशिष्टः क्रीडकः अस्ति तथा च दीर्घकालात् दिल्ली कैपिटल्स् दलेन सह सम्बद्धः आसीत्। आईपीएल-क्रीडायां दश दलानि सन्ति तथा दलस्य सन्तुलनं संरक्षितुं सर्वाधिकं महत्त्वपूर्णम् अस्ति। अस्माकम् एकस्य फलन्दाजस्य आवश्यकता आसीत्। अस्माभिः ऋषभ पन्तस्य रूपेण एकः भारतीयः फलन्दाजः प्राप्तः, येन दिल्ली-दलाय उत्तमं प्रदर्शनं कृतम् अस्ति। अहं तं अत्युच्चस्तरीयं क्रीडकं मन्ये।

गाङ्गुली उक्तवान् यत् क्रीडकानां मुक्तीकरणस्य धारणस्य च पृष्ठतः स्थितां सम्पूर्णां रणनीतिं व्याख्यातुं कठिनम् अस्ति। एतत् क्रीडकस्य प्रदर्शनम्, तस्मिन् फ्रेञ्चाइजी-संस्थायाः विश्वासः तथा च आईपीएल-क्रीडायां दलाय विजयम् अपानेतुं तस्य क्षमता इत्यादीनां विषयाणां आधारेण निर्भरं भवति। अपि च नीलाम्यां उपलब्धाः क्रीडकाः अपि विचार्यन्ते।

सः अग्रे उक्तवान् यत् एषा लघु-नीलामी अस्ति, अतः फ्रेञ्चाइजी-दलानि विगतयोः वर्षयोः क्रीडकानां प्रदर्शनं तथा आगामिषु त्रिषु वर्षेषु दलस्य आवश्यकताः च दृष्ट्वा निर्णयं कुर्वन्ति। कः निर्णयः सम्यक् कः च असम्यक् इति निर्धारयितुं कश्चित् निश्चितः नियमः नास्ति। एतत् सम्पूर्णतया परस्परविश्वासस्य आधारेण निर्भरं भवति।---------------

Hindusthan Samachar / Dheeraj Maithani