Enter your Email Address to subscribe to our newsletters

चतुःषष्टितमः बलिदानदिवसः आचरितः, प्रतिमायां पुष्पाञ्जलिः समर्पिता
जोधपुरम्, १८ नवम्बरमासः (हि.स.)। परमवीरचक्रविजेतुः मेजर-शैतानसिंह-महोदयस्य चतुःषष्टितमे बलिदानदिवसे बुधवासरे प्रातः पावटा-सर्किल इत्यत्र श्रद्धाञ्जलिसमारोहः आयोजितः। अस्मिन्नवसरे सेनायाः, आरक्षकबलस्य प्रशासनस्य च अधिकारिभिः, तस्य परिजनैः नगरवासिभिश्च तस्य प्रतिमायां पुष्पाञ्जलिः समर्पिता।
जनपदसैनिककल्याणाधिकारी कर्नल जयदेवसिंह-राठौडः अवदत् यत् १९६२ तमे वर्षे भारत-चीनयुद्धे शौर्यस्य वीरतायाश्च उत्कृष्टं प्रदर्शनं कृत्वा देशाय सर्वोच्चं बलिदानं समर्पितवतः परमवीरचक्रविजेतुः मेजर-शैतानसिंहस्य चतुःषष्टितमः बलिदानदिवसः बुधवासरे पावटास्थिते परमवीर-सर्किल इत्यत्र तस्य प्रतिमायाः समक्षं राजकीय-सैन्यसमारोहत्वेन आयोजितः। अस्मिन्नवसरे तस्य प्रतिमायां श्रद्धासुमनांसि समर्पितानि। अत्र प्रतिवर्षं तस्य बलिदानदिवसे सेनया श्रद्धाञ्जलि-सभायाः आयोजनं क्रियते। अस्मिन् श्रद्धाञ्जलिसमारोहे सेनाधि-कारिभिः, गौरवसैनिकैः, आरक्षिबलस्य जनपद-प्रशासनस्य च अधिकारिभिः तथा गणमान्यजनैः तस्मै श्रद्धाञ्जलिः समर्पिता।
उल्लेखनीयं यत् जोधपुरजनपदे जन्म प्राप्तवान् मेजर-शैतानसिंहः १९६३ तमे वर्षे मरणोपरान्तं परमवीरचक्रसम्मानेन सम्मानितः। १९६२ तमे वर्षे भारत-चीनयुद्धे मातृभूमेः रक्षार्थं सङ्घर्षं कुर्वन् सः नवम्बरमासस्य १८ दिनाङ्के देशाय वीरगतिं प्राप्तवान्।
१९६२ तमे वर्षे भारत-चीनयोः मध्ये सम्पन्नस्य युद्धस्य समये चुशूलक्षेत्रे रेजाङ्गला-चौक्यां नियुक्तैः भारतीय-सैनिकैः स्वपराक्रमस्य अद्वितीयम् उदाहरणं प्रस्तुतम्। रेजाङ्गला-चौकी इत्यत्र नियुक्ताः १२० भारतीयसैनिकाः सीमितैः शस्त्रैः आयुधैश्च चीनीसेनया सह तीव्रं युद्धम् अकुर्वन् तथा सर्वे सैनिकाः युद्धं कुर्वन्तः वीरगतिं प्राप्तवन्तः। अस्मिन् युद्धे भागं गृहीतवतां सर्वेषां सैनिकानां शवाः त्रिमासानन्तरं हिमस्य गलने सति प्राप्ताः। अस्य युद्धस्य सर्वाधिकं विशिष्टं वैशिष्ट्यम् आसीत् यत् सर्वेषां सैनिकानां हस्तेषु शस्त्राणि आसन्। कस्यचित् सैनिकस्य हस्तभूषुण्डिकाया: प्रक्षेपककुञ्चिकायाम् आसीत्, तु कस्यचित् हस्ते विस्फोटकगोला आसीत्। तत्रैव तेषां समीपे हिमस्य अधः प्रायः सहस्रं चीनीसैनिकानां शवाः अपि प्राप्ताः। भारतीयसैनिकदलस्य नेतृत्वं जोधपुरनिवासी पराक्रमी मेजर-शैतानसिंह-भाटी महोदयः कुर्वन् आसीत्।
Hindusthan Samachar / Divya Ranjan