Enter your Email Address to subscribe to our newsletters

मध्यप्रदेशस्य स्वनिधियोजनायां राष्ट्रस्तरे स्वर्णिमं प्रदर्शनम्, २० नवम्बर दिनाङ्के नवदिल्लीस्थे राष्ट्रियसमारोहे मध्यप्रदेशस्य त्रयः नगरीयनिकायाः च सम्मानिताः भविष्यन्ति
भोपालम्, १८ नवम्बरमासः (हि.स.)। मध्यप्रदेशेन स्वर्णिमं साफल्यं प्राप्तम्। प्रधानमन्त्रिणः पथविक्रेतृणाम् आत्मनिर्भरनिधियोजनायाः (पीएम स्वनिधि) सफलक्रियान्वयने तथा पथविक्रेतृणां सामाजिक-आर्थिकोत्थाने मध्यप्रदेशः निरन्तरं सम्पूर्णे देशे प्रथमस्थाने वर्तते।
जनसम्पर्काधिकारिणी अवन्तिका जायसवाले बुधवासरे संसूचितवती यत् प्रदेशस्य १०.८७ लक्षाधिकेभ्यः रेहडी-पटरीविक्रेतृभ्यः अस्याः योजनायाः माध्यमेन आत्मनिर्भरत्वस्य नूतना दिशा प्राप्ता। केन्द्रसर्वकारस्य आवासनं तथा नगरीयकार्याणां मन्त्रालयेन २० नवम्बर २०२६ दिनाङ्के नवदिल्लीस्थे डॉ. अम्बेडकर इन्टरनेशनल सेण्टर इत्यत्र आयोज्यमाणस्य स्वनिधि सम्मानपुरस्कारः २०२६ इति समारोहस्य कृते मध्यप्रदेशराज्येन सह प्रदेशस्य त्रयः प्रमुखाः नगरीयनिकायाः इन्दौरम्, सारणी तथा बालाघाटः पुरस्कारार्थं चयनिताः सन्ति।
नगरीयनिकायैः स्थापितानि नवीनानि कीर्तिमानानि
सा अवदत् यत् राष्ट्रियस्तरे प्रदेशस्य विभिन्ननगराणि स्वस्वश्रेणीषु उत्कृष्टं प्रदर्शनं कृत्वा कीर्तिमानानि स्थापितवन्ति। मिलियनप्लस सिटी श्रेण्यां इन्दौरनगरनिगमेन २,०२,४०७ ऋणप्रकरणानि वितरितानि, येन सम्पूर्णे देशे प्रथमं स्थानं प्राप्तम्। अपरतः राजधानी भोपालनगरनिगमः १,३९,२६२ ऋणप्रकरणानां सफलवितरणेन चतुर्थस्थाने स्थितः।
मेजर सिटी श्रेण्याम् (एकलक्षतः दशचलक्षपर्यन्तं जनसङ्ख्या) उज्जैननगरनिगमेन ५९,५५८ ऋणप्रकरणानि वितर्य देशे तृतीयं स्थानं प्राप्तम्, येन प्रदेशस्य गौरवं वर्धितम्।
तदतिरिक्तं टाउन सिटी तथा अन्यनगरीयनिकायानां श्रेण्यां सारणी नगरपालिका, बालाघाट तथा हरदा नगरपालिका च स्वस्वक्षेत्रेषु पथविक्रेतृभ्यः शीघ्रसहायतां प्रदाय राष्ट्रियस्तरे विशिष्टां परिचितिम् अर्जितवन्तः।
जनसम्पर्काधिकारिण्याः अनुसारं पथविक्रेतॄणां समग्रविकासं गतिं प्रदातुं योजनायाः पुनर्गठनं कृत्वा नवीनं स्वरूपं प्रदत्तम्। अस्याः अन्तर्गतं लाभार्थिभ्यः विभिन्नचरणेषु क्रमेण १५ सहस्ररूप्यकाणि, २५ सहस्ररूप्यकाणि तथा ५० सहस्ररूप्यकाणि यावत् ब्याजमुक्तम् अथवा रियायती ऋणं प्रदीयते। एतदतिरिक्तं पथविक्रेतॄणां कार्यपूञ्ज्यावश्यकताः सुगमाः कर्तुं ३० सहस्ररूप्यकाणां सीमायुक्तं यूपीआई-सम्बद्धं ऋणपत्रमपि (क्रेडिट कार्ड) प्रदाय लाभान्विताः क्रियन्ते।
प्रदेशस्य अथकप्रयासैः अद्यावधि समग्रतया १७.२२ लक्षं ऋणप्रकरणानि सफलतया वितरितानि तथा २,८२७.८४ कोटिरूप्यकाणां राशिः विमुक्ता।
महिलासशक्तीकरणस्य डिजिटलसाक्षरतायाश्च उदाहरणम्
जनसम्पर्काधिकारिणी अवदत् यत् मध्यप्रदेशस्य अस्य साफल्यस्य सर्वप्रमुखं वैशिष्ट्यम् अस्य समावेशी स्वरूपम् अस्ति। योजनायाः अन्तर्गतं समग्रस्वीकृतऋणेषु ४० प्रतिशतं महिला-लाभार्थिनीनां सहभागिता सुनिश्चिता कृता, येन महिलासशक्तीकरणाय नूतना ऊर्जा प्राप्ता।
एतदतिरिक्तं डिजिटल इण्डिया इति सङ्कल्पं साकारं कुर्वता प्रदेशस्य ७.६१ लक्षाधिकाः पथविक्रेतारः सक्रियतया डिजिटलव्यवहारं स्वीकृतवन्तः। एतेभ्यः पथविक्रेतृभ्यः डिजिटलभुगतानस्य प्रोत्साहनस्वरूपम् अद्यावधि ५९.७२ कोटिरूप्यकाणाम् अधिकं कैशबैक् (नकदप्रतिदानम्) प्राप्तम्।
Hindusthan Samachar / Dheeraj Maithani