Enter your Email Address to subscribe to our newsletters

लखनऊ, 18 नवंबरमासः (हि.स.)। राजनैतिकयात्राभिः समाजवादीपक्षस्य शासनकालीनानि दुष्कर्माणि न गोपयितुं शक्यन्ते : पङ्कज चौधरी
भारतीयजनतापक्षस्य प्रदेशाध्यक्षः तथा केन्द्रीयवित्तराज्यमन्त्री पङ्कज चौधरी गोरखपुरे समाजवादीपक्षस्य राष्ट्रियाध्यक्षस्य अखिलेश यादवस्य मार्गप्रदर्शनं प्रति तीव्रं प्रहारम् अकरोत्।
ते अवदन् यत् अखिलेश यादवः द्वारे द्वारे गत्वा क्षमायाचनामपि करोतु, तथापि जनता समाजवादीपक्षस्य शासनकाले कृतानि पुरातनानि दुष्कर्माणि न क्षमिष्यति। रथयात्रायाः आयोजनं, घोषणानां करणं, मार्गप्रदर्शनस्य आयोजनं च कृत्वा समाजवादीपक्षः स्वशासनकालीनकृत्येभ्यः जनतायाः ध्यानं विचलयितुं न शक्नोति। अखिलेश यादवेन राजनैतिकप्रदर्शनस्य स्थाने स्वशासनकाले घटितानां घटनानां जनतायाः प्रति कृतान्यायस्य च विषये उत्तरं दातव्यम्।
भाजपायाः प्रदेशाध्यक्षः अवदत् यत् समाजवादीपक्षस्य शासनकाले अपराधिनां दुर्जनानां च भयात् मातरः भगिन्यश्च स्वगृहेष्वेव अवरुद्धाः भवितुं विवशाः आसन्। महिलाः भयपूर्णे वातावरणे स्वप्नानि आकाङ्क्षाश्च त्यक्तुं विवशाः अभवन्। प्रदेशस्य जनाः तं कालखण्डं न विस्मृतवन्तः।
श्रीचौधरी अवदत् यत् गाजियाबादतः गोरखपुरपर्यन्तं यावत्यपि प्रदर्शनं क्रियताम्, यावन्तः अपि घोषाः क्रियन्ताम्, विलासपूर्णवाहने (वैनिटी वैन) आरुह्य यावन्तोऽपि भ्रमणचक्राः क्रियन्ताम्, तथापि समाजवादीपक्षं प्रति जनानां दृष्टिकोणे परिवर्तनं न भविष्यति। राजनैतिकयात्राभिः आयोजनेभिश्च शासनकालीनानां कृत्यानां उत्तरदायित्वात् मुक्तिः न भवति।
भाजपायाः प्रदेशाध्यक्षः अवदत् यत् उत्तरप्रदेशस्य जनाः समाजवादीपक्षस्य अहङ्कारस्य, परिवारवादस्य, तुष्टीकरणस्य, भ्रष्टाचारस्य, असफलतानां च सम्पूर्णं वृत्तान्तं जानन्ति। जातिवादीराजनीतेः प्रोत्साहनं, अपराधिभ्यः संरक्षणं प्रदातुं परम्परा, विकासस्य नाम्ना आधारहीनदावानां प्रस्तुतीकरणं च समाजवादीपक्षस्य राजनीतेः ते पक्षाः सन्ति, यान् प्रदेशस्य जनाः अद्यापि स्मरन्ति।
ते अवदन् यत् राजनैतिकयात्राणाम् आयोजनं कृत्वा समाजवादीपक्षः स्वशासनकालीनप्रश्नान् परिहर्तुं न शक्नोति। जनाः घोषेभ्यः मञ्चेभ्यश्च अधिकं सुरक्षायाः, सम्मानस्य, विकाससम्बद्धानां प्रश्नानां च उत्तराणि अपेक्षन्ते। अखिलेशेन एतत् अवगन्तव्यं यत् केवलं राजनैतिककार्यक्रमाणाम् आयोजनेन पुरातनः अभिलेखः न परिवर्तते।
प्रदेशाध्यक्षः अवदत् यत् उत्तरप्रदेशस्य जनाः सर्वं पश्यन्ति तथा समाजवादीपक्षस्य राजनैतिकप्रदर्शनस्य तस्य शासनकालीनकृत्यानां च अन्तरमपि सम्यग् अवगच्छन्ति। जनानां समक्षं समाजवादीपक्षस्य अतीतं तस्य राजनैतिकाचरणं च उभयमपि विद्यते।
Hindusthan Samachar / Dheeraj Maithani