राजनाथसिंहः जापानस्य रक्षामन्त्रालयं प्राप्तवान्, सामाजिकमाध्यमे स्वसमकक्षेण सह छायाचित्रं सहकृतवान्।
टोक्यो (जापानम्), 18 नवंबरमासः (हि.स.)। भारतस्य रक्षामन्त्री राजनाथसिंहः जापानस्य रक्षामन्त्रालयं प्राप्तवान्। तत्र जापानस्य रक्षामन्त्री शिन्जिरो कोइजुमी इत्यनेन तस्य स्वागतं कृतम्। अस्मिन्नवसरे सिंहाय औपचारिकं सम्मानरक्षकं (गार्ड ऑफ ऑनर) प्रदत्
जापान के रक्षामंत्री शिनजिरो कोइज़ुमी के साथ भारत के रक्षामंत्री राजनाथ सिंह। सिंह के एक्स हैंडल से ली गई इस फोटो के परिचय में लिखा गया, ''हम योकोसुका स्थित जेएमएसडीफ नौसैनिक अड्डे की ओर जा रहे हैं। मेरे जापानी समकक्ष एक बेहतरीन मेजबान की भूमिका निभा रहे हैं।''


टोक्यो (जापानम्), 18 नवंबरमासः (हि.स.)।

भारतस्य रक्षामन्त्री राजनाथसिंहः जापानस्य रक्षामन्त्रालयं प्राप्तवान्। तत्र जापानस्य रक्षामन्त्री शिन्जिरो कोइजुमी इत्यनेन तस्य स्वागतं कृतम्। अस्मिन्नवसरे सिंहाय औपचारिकं सम्मानरक्षकं (गार्ड ऑफ ऑनर) प्रदत्तम्।

रक्षामन्त्री राजनाथसिंहः नवम्बरमासस्य १८-१९ दिनाङ्कयोः टोक्योनगरस्य द्विदिवसीयाम् आधिकारिकयात्रायां वर्तते। अस्यां यात्रायां सः कोइजुमी इत्यनेन सह द्विपक्षीयां रक्षावार्तां करिष्यति। अपि च भारतस्य विदेशमन्त्री डॉ. एस. जयशङ्करः तथा जापानस्य विदेशमन्त्री तोशिमित्सु मोतेगी इत्येताभ्यां सह चतुर्थस्य भारत-जापानविदेश-रक्षामन्त्रिस्तरीयसंवादस्य (२+२) सहाध्यक्षतां करिष्यति।

राजनाथसिंहः एक्स इति सामाजिकमाध्यममञ्चे प्रकाशितेन सन्देशेन जापानप्राप्तेः पुष्टिं कृतवान्। तेन जापानस्य रक्षामन्त्रिणः शिन्जिरो कोइजुमी इत्यस्य सह स्वकीयमेकं छायाचित्रमपि प्रकाशितम्। सिंहस्य एक्स-समाजमाध्यमखाते अस्य छायाचित्रस्य परिचये लिखितम् आसीत्, ''वयं योकोसुका-स्थितं जेएमएसडीएफ् नौसैनिकस्थानकं प्रति गच्छामः। मम जापानीसमकक्षी उत्तमस्य आतिथेयस्य भूमिकां निर्वहति।''

---------------

Hindusthan Samachar / Dheeraj Maithani