Enter your Email Address to subscribe to our newsletters

मुंबई, (हि.स.)।
अभिनेत्री श्रद्धाकपूरः स्वस्य आगामी ईठा इति चलचित्रे लावणीनर्तक्याः भूमिकां निर्वोढुं किमपि न्यूनं न करोति। चलचित्रस्य जी जी रे जी इति गीतस्य लोकार्पणावसरे श्रद्धया उक्तं यत् अस्य पारम्परिकनृत्यशैल्याः शिक्षणार्थं तया विशेषः परिश्रमः कृतः।
चलचित्रे अभिनयस्य प्रस्तावं स्वीकुर्वती सा लावणीविषये अधिकं न जानाति स्म, किन्तु तया अनेकासु नृत्यकार्यशालासु भागं गृहीत्वा लावणीतमाशकलाकारैः सह मिलनं कृतम्। अस्मिन् क्रमे तया वरिष्ठकलाकारया शकुन्तलया अपि मार्गदर्शनं प्राप्तम् तथा लावण्याः सांस्कृतिकपरिचितिं भावनात्मकपक्षांश्च अवगन्तुं प्रयासः कृतः।
श्रद्धया कथितं यत् शकुन्तलया सह मिलनं तस्यै लावणीं भिन्नदृष्टिकोणेन अवगन्तुं साहाय्यं कृतवान्। तया शिक्षितं यत् अस्मिन् नृत्ये केवलं पदविन्यासस्य लयबद्धता एव न, अपितु मुखमुद्राः अपि अत्यन्तं महत्त्वपूर्णाः भवन्ति। तमाशाकलाकाराः स्वजीवनस्य सुखदुःखानि अपि स्वकीयप्रस्तुतिभिः अभिव्यञ्जयन्ति। श्रद्धायाः कथनानुसारं शकुन्तलया तस्यै अवबोधितं यत् पादाभ्यां नृत्यं अभ्यासेन शिक्षितुं शक्यते, किन्तु मुखमुद्राभिः भावनानां प्रकटीकरणार्थं तस्याः कलायाः आत्मानम् अवगन्तुं आवश्यकम्। स्वकीयायाः सज्जतायाः समये श्रद्धया प्रत्येकस्मिन् पादे चतुर्भिः किलोग्रामपरिमितैः घुङ्घुरैः सह घण्टान् यावत् अभ्यासः कृतः।
श्रद्धायाः परिश्रमस्य झलकं चलचित्रस्य जी जी रे जी इति गीतं द्रष्टुं शक्यते। गीतस्य तस्याः हावभावाः तथा लावण्याः पारम्परिकशैली च दर्शकैः प्रशंसिताः भवन्ति। राष्ट्रीयपुरस्कारप्राप्तेन सङ्गीतनिर्देशकयुगलेन अजय अतुलेन अस्य गीतस्य सङ्गीतरचना कृता, अमिताभभट्टाचार्येण गीतस्य शब्दाः विरचिताः तथा श्रेयाघोषालेन स्वरः प्रदत्तः। वैभवीमर्चण्टेन अस्य गीतस्य नृत्यसंयोजनं कृतम्। लक्ष्मणउतेकरस्य निर्देशननिर्मितस्य अस्य चलचित्रस्य निर्मातारः दिनेशविजानः, लक्ष्मणउतेकरः तथा करिश्माशर्मा सन्ति। ईठा इति चलचित्रं २०२६ तमस्य वर्षस्य दिसम्बरमासस्य चतुर्थे दिनाङ्के चलचित्रगृहेषु प्रदर्शितं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani