Enter your Email Address to subscribe to our newsletters

वर्षपर्यन्तं प्रचलिष्यति जनजागरूकता-भियानम्
कोलकाता, १८ नवम्बरमासः (हि.स.)। अनावश्यकतया वाहनानां भेरीवादनेन उत्पद्यमानस्य ध्वनिप्रदूषणस्य निवारणाय उत्तरदायित्वपूर्णस्य मार्गव्यवहारस्य च प्रोत्साहनार्थं बुधवासरे कोलकातानगरस्य कलामन्दिरे वर्षव्यापिनः जनजागरूकता-भियानस्य ‘अनावश्यकभेरीवादनं विरमन्तु : न्यूनः कोलाहलः, अधिकं जीवनम्’ इत्यस्य शुभारम्भः कृतः। पब्लिक रिलेशन्स सोसाइटी ऑफ इण्डिया इत्यस्य प्रयत्नेन इन्फिनिटीसमूहस्य भारतीयप्रौद्योगिकी-संस्थानस्य खड़गपुरस्य च सहयोगेन प्रारब्धम् इदं जागरूकताभियानं वर्षपर्यन्तं प्रचलिष्यति।
उद्घाटनसमारोहे मुख्यातिथिरूपेण प्रख्यातः तबलावादकः पण्डितः तन्मयबोसः, इन्फिनिटीसमूहस्य अध्यक्षः प्रबन्ध-निदेशकश्च रवीन्द्रचमरिया, पीआरएसआई-संस्थायाः अध्यक्षः सौम्यजीतमहापात्रः उपाध्यक्षः अनिन्द्यदासश्च उपस्थिताः आसन्।
कार्यक्रमस्य प्रारम्भः जीडी बिड़ला विद्यालयस्य छात्राभिः विरचितेन स्वरबद्धेन च सामूहिकगीतेन अभवत्। अस्मिन् अवसरे पीआरएसआई-संस्थायाः अध्यक्षः सौम्यजीतमहापात्रः अवदत् यत् सामाजिकमाध्यमानां माध्यमेन ‘अनाव-श्यकभेरीवादनं विरमन्तु : न्यूनः कोलाहलः, अधिकं जीवनम्’ इति अभियानस्य विचारः इदानीं यावत् ४२ लक्षं जनान् प्राप्तवान् अस्ति। अभियानस्य सहयोगार्थम् उपस्थितेभ्यः विद्यार्थिभ्यः विद्यालयस्य शिक्षकेभ्यश्च सः कृतज्ञतां प्रकटितवान्। अग्रिमवर्षस्य डिसेम्बर-मासपर्यन्तं ६० सहस्रं जनान् अस्मिन् अभियाने संयोजयितुं लक्ष्यं निर्धारितवान्।
पीआरएसआई-संस्थायाः उपाध्यक्षः अनिन्द्यदासः स्वसम्बोधने विकसित-भारतस्य संकल्पनायाः उल्लेखं कृतवान्। अपरतः इन्फिनिटीसमूहस्य अध्यक्षः प्रबन्धनिदेशकश्च रवीन्द्रचमरिया कोविड्-महामार्याः अनन्तरं कोलकातानगरे वर्धमानानां वाहनानां ध्वनिप्रदूषणस्य च समस्यायाः विषये ध्यानम् आकर्षितवान्। सः अवदत् यत् नगरस्य मार्गेषु वाहनानां संख्या वर्धमाना अस्ति, तया सह भेरीवादनस्य प्रयोगोऽपि वर्धितः, येन ध्वनिप्रदूषणस्य वृद्धिः जाता। भविष्यस्य नागरिकेभ्यः अस्मिन् अभियाने सक्रिय-भागग्रहणाय सः आह्वानं कृतवान्।
प्रख्यातः तबलावादकः पण्डितः तन्मयबोसः अपि स्वसम्बोधने विद्यार्थिभिः सह केचन स्नेहपूर्णाः क्षणाः अनुभूतवान्। ततः विद्यालयानां महाविद्यालयानां च शिक्षकाणां सम्माननानन्तरम् उद्घाटन-समारोहस्य प्रारम्भिकसत्रं सम्पन्नम्।
Hindusthan Samachar / Divya Ranjan