Enter your Email Address to subscribe to our newsletters



सारणम्, १८ नवम्बरमासः (हि.स.)। विश्वप्रसिद्धस्य हरिहरनाथक्षेत्रस्य सोनपुर-मेलापकस्य २०२६ तमस्य वर्षस्य भव्यायोजनाय प्रशासनिकसज्जताः युद्ध-स्तरे प्रचलन्ति। मुख्यमन्त्रिणः सम्राट्-चौधरी-महोदयस्य सम्भावितयात्रां दृष्ट्वा जिलाधिकारी वैभव-श्रीवास्तवस्य वरिष्ठा-रक्षकाधीक्षकस्य रौशनकुमारस्य च संयुक्ताध्यक्षतायां सोनपुरस्य अनु-मण्डलीयसभागारे विस्तृता सभा आयोजिता।
सभायां मेलाक्षेत्रस्य आधारभूतसंरचनानां, सुरक्षाव्यवस्थायाः, यातायातप्रबन्धनस्य, पेयजलापूर्तेः, स्वच्छतायाः सांस्कृतिक-कार्यक्रमाणां च विषये बिन्दुवारं विस्तृतः समीक्षाविमर्शः कृतः। जनपदाधिकारिणा मञ्चस्य तथा विशालमण्डपानां निर्माण-सम्बद्धानि सर्वाणि कार्याणि उच्चगुणवत्तया निर्धारित-समयसीमायाः अन्तः पूर्णानि कर्तुं कठोरः निर्देशः प्रदत्तः।
तदतिरिक्तं मेलापकस्य आधिकारिकस्य संवादसहायकस्य आधुनिकजालपुटस्य च लोकार्पणसम्बद्धाः सर्वाः सज्जताः समयबद्धरीत्या सम्पादयितुं विशेषं बलं प्रदत्तम्। सुरक्षायाः विधिव्यवस्थायाश्च सर्वोच्चं महत्त्वं प्रतिपादयन् अधिकारिभिः निर्देशः प्रदत्तः यत् मुख्यमन्त्रिणः सम्भावितागमनमार्गे विशेषसतर्कता पालनीया तथा च तत्र पर्याप्ता आकर्षिका च प्रकाशव्यवस्था सुनिश्चेतव्या, येन कस्यामपि अवस्थायां त्रुटिः न भवेत्।
सोनपुरमेलापकः बिहारस्य समृद्धायाः सांस्कृतिकायाः ऐतिहासिकायाश्च परिचयस्य प्रमुखं प्रतीकम् अस्ति। अधिकारिभिः सर्वेभ्यः सम्बद्धविभागेभ्यः परस्परं समन्वयं स्थापयित्वा कार्यं कर्तुं निर्देशः प्रदत्तः, येन मेलापकं प्राप्तवन्तः देशविदेशेभ्यः श्रद्धालवः पर्यटकाः च उच्चस्तरीयाः सुविधाः प्राप्तुं शक्नुयुः। सभायां मेलापकस्य आयोजनसम्बद्धानां सर्वेषां प्रमुखविभागानाम् अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan