Enter your Email Address to subscribe to our newsletters

सप्तदशकुण्टलपुष्पैः अलङ्कृतं नृसिंहमन्दिरम्, देवडोल्योः स्वागतार्थम् उपस्थिता बहुसंख्याकाः श्रद्धालवः।
नृसिंहमन्दिरपरिसरे प्रथमतया आयोजितः स्वागतसमारोहः।
शीतकालीनयात्रायाः अपि शुभारम्भः, ऋषिकेशस्य ट्रान्जिट् कैम्पे पञ्जीकरणकेन्द्रं स्थापितम्।
गोपेश्वरम्, १८ नवम्बरमासः (हि.स.)। भगवान् बदरीविशालस्य शीतकालीनप्रवासार्थं ज्योतिर्मठम् आगते आदिगुरोः शङ्कराचार्यस्य गद्द्याः भगवतः गरुडस्य च देवडोल्याः बुधवासरे नृसिंहमन्दिरपरिसरे भव्यं स्वागतं कृतम्। अस्मिन् अवसरे प्रथमतया विशेषः स्वागतसमारोहः आयोजितः। समारोहस्य अन्तर्गतं विशालभण्डारस्य अपि आयोजनं जातम्, यस्मिन् श्रद्धालुभ्यः प्रसादः वितरितः। आयोजनस्य कृते नृसिंहमन्दिरसहितानि समीपस्थानि मन्दिराणि सप्तदशकुण्टलपुष्पैः आकर्षकरूपेण अलङ्कृतानि आसन्।
श्रीबदरीनाथ-केदारनाथमन्दिरसमितेः (बीकेटीसी) अध्यक्षः हेमन्तद्विवेदी देवडोल्याः शीतकालीनप्रवासस्थले विराजमानत्वस्य उपलक्ष्ये आयोजितं समारोहं प्रशंसनीयाम् उपक्रमः अवदत्। तेन उक्तं यत् अनेन सहैव प्रदेशे शीतकालीनयात्रायाः अपि शुभारम्भः अभवत्। तीर्थयात्रिणां सुविधार्थं ऋषिकेशस्थिते ट्रान्जिट् कैम्पे शीतकालीनयात्रायाः पञ्जीकरणकेन्द्रं स्थापितम् अस्ति। बीकेटीसी उपाध्यक्षः ऋषिप्रसादसती तथा मुख्यकार्याधिकारी सोहनसिंहराङ्गडः तीर्थयात्रिभ्यः शीतकालीनयात्रायाः शुभकामनाः प्रदत्तवन्तौ।
बीकेटीसी उपाध्यक्षस्य ऋषिप्रसादसत्याः नेतृत्वे धर्माधिकारी स्वयंवरसेमवालः वेदपाठिनः च विधिविधानपूर्वकं पूजामर्चनां च कृतवन्तः। गद्दीदर्शनार्थं मन्दिरपरिसरे स्थापितायाः शङ्कराचार्यस्य गद्द्याः पूजामर्चनानन्तरं तां परम्परागतगद्दीस्थले प्रतिष्ठापितम्। ततः आयोजिते विशालभण्डारे श्रद्धालवः प्रसादं गृहीतवन्तः।
अस्मिन् अवसरे नृसिंहमन्दिरपरिसरे देवपूजाईसमित्या, धर्माधिकारिभिः, वेदपाठिभिः अन्यैः गणमान्यजनैः च बीकेटीसी उपाध्यक्षस्य ऋषिप्रसादसत्याः अभिनन्दनम् अपि कृतम्। नवम्बरमासस्य चतुर्थे दिनाङ्के काश्यां गङ्गामहासभया संस्कृतिसंसदा च आयोजिते सन्तसम्मेलने तस्य सम्माननं कृतम् आसीत्।
समारोहे बदरीनाथधामस्य रावलः अमरनाथनम्बूदरी, दण्डिस्वामी मुकुन्दानन्दजीमहाराजः, बीकेटीसी इत्यस्य पूर्वोपाध्यक्षः किशोरपँवारः, भाजपानेता सुभाषडिमरी, पूर्वधर्माधिकारी भुवनचन्द्रउनियालः, प्रभारी अधिकारी राजननैथानी, पूर्वमुख्यप्रशासनिकाधिकारी गिरीशचौहानः, कर्मचारीसङ्घस्य अध्यक्षः बिजेन्द्रबिष्टः, मन्दिरप्रभारी राजेन्द्रसेमवालः, कमलेशकुकरेती, प्रधानाचार्यः अरविन्दपन्तः, भाजपानगराध्यक्षः अनिलसती, देवपूजाईसमित्याः अध्यक्षः अनिलनम्बूदरी, अनूपपँवारः, गिरीशरावतः, विवेकथपलियालः, भूपेन्द्ररावतः, सन्दीपकपरवाणः, जगमोहनबर्त्वालः, सन्तोषतिवारी, राकेशनेगी, हनुमानप्रसादः, सुशीलडिमरी, रामप्रसादथपलियालः तथा मौसुमीरावतः इत्यादयः अनेके जनाः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani