पर्वतीयस्वादः पाकशालातः वाणिज्यविपण्यां यावत् विस्तृतः, महिलानां कौशलेन ग्रामस्य स्वरूपं परिवर्तितम्।
उत्तराखण्डस्य दश महिलाभिः ६५० उपहारसञ्चिकाः विक्रीय अष्टादशलक्षरूप्यकाणाम् अर्जनम् दीपावल्यां भ्रातृद्वितीयायां च पारम्परिकोत्पादैः निर्मितानां उपहाराणां महती आसीत् मागधा बुरांशपुष्परसः, पर्वतीयलवणम्, मधु, फललेपः हस्तनिर्मिताः दीपाश्च उपहारसञ्चिक
समूह की महिलाओं की ओर से तैयार गिफ्ट।


सहायक परियोजना निदेशक अनीता पंवार।


समूह अध्यक्ष नमिता रावत नेगी।


उत्तराखण्डस्य दश महिलाभिः ६५० उपहारसञ्चिकाः विक्रीय अष्टादशलक्षरूप्यकाणाम् अर्जनम्

दीपावल्यां भ्रातृद्वितीयायां च पारम्परिकोत्पादैः निर्मितानां उपहाराणां महती आसीत् मागधा

बुरांशपुष्परसः, पर्वतीयलवणम्, मधु, फललेपः हस्तनिर्मिताः दीपाश्च उपहारसञ्चिकासु समाविष्टाः

सरस वीथिकया राष्ट्रियविपण्यां प्राप्ता विशिष्टा परिचितिः

देहरादूनम्, १८ नवम्बरमासः (हि.स.)। पर्वतीयानां पारम्परिकस्वादस्य ग्रामीणमहिलानां कौशलस्य च प्रभावः अस्मिन् वर्षे दीपावल्यां भ्रातृद्वितीयायां च देहल्याः विभिन्नकम्पनीनां मनांसि विजितवान्। उत्तराखण्डस्य स्थानीयोत्पादैः निर्मिताः आकर्षकाः उपहारसञ्चिकाः महानगराणां कम्पनीनां विशेषाकर्षणस्य केन्द्रम् अभवन्। देहरादूनजनपदस्य सहसपुरविकासखण्डान्तर्गते कोटराकल्याणपुरग्रामस्य दश महिलाभिः ६५० अधिकाः उपहारसञ्चिकाः निर्माय अष्टादशलक्षरूप्यकाणाम् अधिकः व्यापारः कृतः।

दून गूजबेरी फार्म इति स्वयं सहायता समूहस्य एताभिः महिलाभिः सिद्धं कृतं यत् पर्वतानां पारम्परिकोत्पादान् आकर्षकपुटीकरणेन उत्तमविपणनेन च बृहद्विपण्यां प्रापयितुं शक्यते। विशेषता तु एषा आसीत् यत् एतासु उपहारसञ्चिकासु महर्घविदेशीयोत्पादानाम् स्थाने उत्तराखण्डस्य ग्रामेषु निर्मिताः स्थानीयाः खाद्यपदार्थाः हस्तनिर्मितवस्तूनि च समाविष्टानि आसन्।

कस्याञ्चित् उपहारसञ्चिकायां बुरांशपुष्पाणां रक्तवर्णयुक्तः रसः आसीत्, अन्यस्यां पर्वतीयलवणस्य रुचिकरः स्वादः। सेवफलस्य फललेपः, आम्रनिम्बूफलयोः चटनी, मधु, बिस्कुटानि च हस्तनिर्मितानां मोमवर्तिकानां दीपानां च सह एतेषाम् उपहाराणां सौन्दर्यम् अवर्धयन्। एवं प्रत्येकस्मिन् उपहारसञ्चिकायां पर्वतीयस्वादस्य, स्थानीयपरम्परायाः, महिलानां परिश्रमस्य च अद्वितीयः समन्वयः दृष्टः।

समूहस्य अध्यक्षा नमिता रावत नेगी इत्यनुसारं प्रत्येकः उपहारसञ्चिकाद्वयत्रिसहस्ररूप्यकाणां मूल्येन विक्रीतः। देहल्याः विभिन्नकम्पनीभ्यः प्राप्ताः आदेशाः समयेन निर्माय प्रेषिताः। एतेन समूहस्य अष्टादशलक्षरूप्यकाणाम् अधिकम् आयम् अभवत्। महिलानां कृते एषा उपलब्धिः केवलं पर्वकाले कृतः व्यापारः न, अपितु स्वोत्पादान् बृहद्विपण्यां प्रापयितुं महत्त्वपूर्णः अवसरः अपि सिद्धः।

अस्याः सफलतायाः पृष्ठे देहल्याः सरसवीथिकायाः महत्त्वपूर्णा भूमिका आसीत्। राष्ट्रियग्रामीणजीविकोपार्जनमिशनस्य (एनआरएलएम) माध्यमेन सञ्चालिते अस्मिन् मञ्चे समूहस्य महिलाभ्यः स्वोत्पादान् प्रदर्शयितुम् अवसरः प्राप्तः। एतस्य माध्यमेन बृहद्संस्थानैः कम्पनीभिश्च सह तासां सम्पर्कः स्थापितः तथा व्यावसायिकाः आदेशाः प्राप्ताः।

सहायकपरियोजनानिदेशिका अनीता पंवार इत्यनुसारं सरसवीथिकासदृशाः मञ्चाः स्वयं सहायता समूहानां कृते उत्पादानां नामाङ्कनाय, विपणनाय, विक्रयाय च राष्ट्रियस्तरे अवसरान् प्रददति। एतेन ग्रामीणमहिलाभ्यः बृहद् क्रेतृभिः सह प्रत्यक्षव्यापारं कर्तुं स्वोत्पादानां च उत्तमं मूल्यं प्राप्तुम् अवसरः प्राप्यते।

दून गूजबेरी फार्म समूहस्य सफलता एतदर्थमपि विशिष्टा अस्ति यत् महिलाभिः कस्यचित् बृहदुद्योगस्य अथवा महत्याः यन्त्रसामग्र्याः साहाय्यं विना स्थानीयसंसाधनैः, पारम्परिककौशलेन, परस्परस्य सहकारितया च स्वकीयः विपण्यविस्तारः कृतः। पर्वतानां येषाम् उत्पादानाम् उपयोगः अधुनापर्यन्तं मुख्यतया स्थानीयगृहाणां सीमासु एव आसीत्, ते इदानीं महानगरेषु पर्वणां आकर्षकरूपेण उपहारत्वेन प्राप्यन्ते।

ग्रामीणजीविकोपार्जनस्य अयं प्रतिरूपः उत्तराखण्डस्य स्थानीयोत्पादान् राष्ट्रियविपण्यां प्रतिष्ठापयितुं नवीनाः सम्भावनाः अपि उद्घाटयति। ग्रामस्य एतासां दश महिलानां प्रयासेन पर्वतीयस्वादस्य नूतना परिचितिः प्राप्ता तथा च सिद्धं कृतं यत् समुचितं मञ्चं, उत्तमं पुटीकरणं, विपण्यां च प्रवेशस्य अवसरः प्राप्यते चेत् ग्रामीणकौशलमपि बृहद्व्यापारे परिणतुं शक्नोति।

Hindusthan Samachar / Dheeraj Maithani