अक्षयनवम्यां धात्रीवृक्षस्य अधः प्रज्वलित: अहरा इति, विधिविधानपूर्वकं पूजनम् अभवत्
— श्रीहरेः पूजनं कृत्वा जनैः पङ्क्तौ उपविश्य पायसं, बाटिकां, दाल च चोखां च खादितम् वाराणसी, १८ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धर्मनगर्यां काश्यां बुधवासरे अक्षयनवमीपर्व श्रद्धया हर्षोल्लासेन च आचरितम्। अस्मिन्नवसरे जनैः धात्रीवृक्षस्य विधिविधा
प्रतीक


— श्रीहरेः पूजनं कृत्वा जनैः पङ्क्तौ उपविश्य पायसं, बाटिकां, दाल च चोखां च खादितम्

वाराणसी, १८ नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धर्मनगर्यां काश्यां बुधवासरे अक्षयनवमीपर्व श्रद्धया हर्षोल्लासेन च आचरितम्। अस्मिन्नवसरे जनैः धात्रीवृक्षस्य विधिविधानपूर्वकं पूजनं कृतम् तथा च तस्य छायायां चुल्लिकां प्रज्वाल्य पारम्परिकरीत्या भोजनं सिद्धीकृतम्। पायसं, बाटिकां, दालं च चोखां च निर्माय सर्वप्रथमं भगवते श्रीहरये नैवेद्यं समर्पितम्। ततः परिवारस्य, मित्राणां सम्बन्धिनां च सह पङ्क्तौ उपविश्य सामूहिकभोजनस्य आनन्दः अनुभूतः।

पर्वणः विषये प्रातःकालादेव जनानां मध्ये विशेषः उत्साहः दृष्टः। चुल्लिं प्रज्वालयितुं पूजनं च कर्तुं जनाः पूर्वाह्णे एव उद्यानानि, वाटिकाः मन्दिरपरिसरांश्च प्राप्य धात्रीवृक्षस्य अन्वेषणं कर्तुम् आरब्धवन्तः। वृक्षस्य अधः चुल्लिकां प्रज्वाल्य पारम्परिक-व्यञ्जनानि सिद्धीकृतानि। पूजनार्चनानन्तरं भगवते नैवेद्यं समर्प्य जनैः प्रसादरूपेण भोजनं कृतम्। अनेकेषु स्थानेषु परिवारजनैः परिचितैः च एकत्र उपविश्य सामूहिकभोजनस्य परम्परा निर्वुढा।

धार्मिकमान्यतानुसारं कार्तिकमासः भगवत: श्रीहरेः आराधनायाः कृते विशेषमहत्त्वं धारयति। अस्य मासस्य शुक्लपक्षस्य नवमी तिथिः अक्षयनवमी इति कथ्यते। अस्मिन् दिने धात्रीवृक्षस्य पूजनं तथा तस्य छायायां भोजनस्य निर्माणं भक्षणं च विधीयते। मान्यता अस्ति यत् अक्षयनवम्यां गङ्गास्नानेन, अन्नदानेन, धात्रीवृक्षस्य अधः भोजनग्रहणेन च अक्षयपुण्यस्य प्राप्तिः भवति। अस्मिन् दिने कृतं दानम् अपि अक्षयफलं प्रददाति।

धार्मिकमान्यतानुसारं धात्रीवृक्षः भगवत: विष्णोः अत्यन्तं प्रियः अस्ति। अयम् अश्वत्थवृक्षं तुलसीपादपं च इव पवित्रः पूजनीयश्च मन्यते। एतादृशी अपि मान्यता अस्ति यत् अक्षयनवम्याः दिने एव द्वापरयुगस्य आरम्भः अभवत्। आयुर्वेदे अपि धात्रीफलम् गुणकारी फलम् इति मन्यते। अस्य नियमितसेवनेन शरीरे अनेके स्वास्थ्यलाभाः भवन्ति। एवं अक्षय-नवमीपर्व धार्मिकश्रद्धायाः, प्रकृतेः सम्मानस्य, पारिवारिक-सामाजिकै-कतायाश्च सन्देशं ददाति।

Hindusthan Samachar / Divya Ranjan