Enter your Email Address to subscribe to our newsletters

गुवाहाटी, १८ नवम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्रिणा डॉ. हिमन्त-बिश्व-शर्मणा बुधवासरे प्रख्यातगायकस्य जुबीन-गर्ग-महोदयस्य जयन्त्याः अवसरे तस्य स्मृतौ प्रस्तावितस्य ‘जुबीनक्षेत्रस्य’ प्रथमचरणस्य कार्येभ्यः १५ कोटि-रूप्यकाणां राशिः स्वीकृता।
मुख्यमन्त्रिणा सामाजिकमाध्यमे सन्देशं प्रसार्य अस्य निर्णयस्य सूचना प्रदत्ता। तेन उक्तं यत् जुबीनक्षेत्रम् अग्रिमवंशेभ्यः महत: गायकस्य जीवनस्य, सङ्गीतस्य, सृजनात्मकयोगदानस्य च परिचयं प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
तेन आशा व्यक्ता यत् एतत् स्मारकं भविष्यत्पीढीभ्यः जुबीन-गर्ग-महोदयस्य कलात्मकवैभवं निकटतः ज्ञातुं तस्य रचनानां च अनुभवम् अवाप्तुं अवसरं प्रदास्यति।
मुख्यमन्त्रिणा उक्तं यत् जुबीनस्य कलायाः सङ्गीतस्य च सुगन्धः अग्रिमवंशपर्यन्तं प्राप्नुयात्। अस्य स्मारकस्य परिकल्पना एकस्य विशिष्टस्थलस्य रूपेण कृता अस्ति, यत्र जनाः गायकस्य सांस्कृतिकं सङ्गीतसम्बद्धं च योगदानम् अवगन्तुं शक्ष्यन्ति।
उल्लेखनीयं यत् जुबीन-गर्ग-महोदयस्य सङ्गीतस्य असमियासंस्कृतौ च योगदानस्य गहनः प्रभावः अद्यापि राज्यस्य जनानां तथा देशविदेशेषु स्थितानां तस्य प्रशंसकानां च मनसि वर्तते। प्रथमचरणस्य कृते १५ कोटिरूप्यकाणां स्वीकृतिः तस्य सम्मानार्थं स्थायिस्मारकस्य निर्माणदिशि महत्त्वपूर्णं पदम् इति मन्यते।
Hindusthan Samachar / Divya Ranjan