Enter your Email Address to subscribe to our newsletters

कटिहारः, 18 नवंबरमासः (हि.स.)।
राष्ट्रियप्रेसदिवसस्यावसरे बुधवासरे समाहरणालयस्थिते राष्ट्रियसूचनाविज्ञानकेन्द्रस्य (एनआईसी) सभागारे विचारोत्तेजकगोष्ठ्याः आयोजनम् अभवत्। सूचनाजनसम्पर्कशाखायाः तत्त्वावधाने आयोजिते अस्मिन् कार्यक्रमे ‘पत्रकारिता लोकलुभावनी अथवा उत्तरदायित्वपूर्णा’ इति विषये विस्तृतरूपेण चर्चा कृता।
गोष्ठीं सम्बोधयन् जिलाधिकारी आशुतोष द्विवेदी अवदत् यत् पत्रकारिता केवलं व्यवसायः नास्ति, अपितु समाजस्य लोकतन्त्रस्य च प्रति महत्त्वपूर्णम् उत्तरदायित्वम् अस्ति।
जिलाधिकारी उक्तवान् यत् निष्पक्षता, तथ्यात्मकप्रामाणिकता, विश्वसनीयता च पत्रकारितायाः वास्तविकं परिचायकं तस्याः च महत्तमं पूँजीरूपम् अस्ति। तेन विशेषरूपेण प्रतिपादितं यत् पत्रकारितायाः दायित्वं केवलं घटनानां समाचाराणां च जनसामान्यं प्रति सम्प्रेषणमात्रं नास्ति, अपितु सामान्यजनानां स्वरः भवितुम्, जनहितसम्बद्धान् विषयान् प्रमुखतया प्रस्तुतुम्, सत्तायाः व्यवस्थायाः च उत्तरदायित्वनिर्धारणे सार्थकां भूमिकां निर्वोढुम् अपि अस्ति।
वर्तमानकालीनानां चुनौतीनां उल्लेखं कुर्वन् जिलाधिकारी अवदत् यत् अद्य सूचनानां प्राचुर्येण मिथ्यासमाचाराणां च आव्हानं समक्षम् अस्ति, अतः पत्रकारितायाः उत्तरदायित्वम् अधिकं वर्धते। एतादृशे समये माध्यमैः स्वकीयां विश्वसनीयतां, निष्पक्षतां, सामाजिकसरोकारांश्च सर्वोपरि स्थापनीयम्। तेन आह्वानं कृतं यत् राष्ट्रियप्रेसदिवसस्यावसरे सर्वे एतादृशं सङ्कल्पं कुर्वन्तु यत् लेखन्याः गरिमा, अभिव्यक्तिस्वातन्त्र्यं, जनविश्वासश्च सर्वदा अक्षुण्णाः स्थापयिष्यन्ते। यतः पत्रकारितायाः वास्तविकं सामर्थ्यं निर्भीकतया ईमानदारीपूर्वकं च लिखिते सत्ये निहितम् अस्ति।
कार्यक्रमस्यावसरे जनपदस्य मुद्रितमाध्यमानां विद्युत्माध्यमानां च प्रतिनिधयः अपि वर्तमानपत्रकारितायाः दशादिशयोः चुनौतीनां च विषये स्वकीयान् बहुमूल्यान् विचारान् प्रस्तुतवन्तः। जिलाधिकारी सर्वेषां पत्रकाराणां विचाराणां स्वागतं कुर्वन् अस्याः गोष्ठ्याः अत्यन्तं सार्थकं, प्रेरणादायकं, उपयोगिपूर्णं च आयोजनम् इति वर्णितवान्।
Hindusthan Samachar / Dheeraj Maithani